एतैः अन्यैः च बहुभिः वाक्यैः वाक्य विशारदः । माम् प्रशस्य अभ्यनुज्ञाप्य प्रविष्टः स स्वम् आलयम् ॥१॥
षष्टितमः सर्गः 4.63
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
कंदरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः । अहम् विंध्यम् समारुह्य भवतः प्रतिपालये ॥२॥
अद्य तु एतस्य कालस्य साग्रम् वर्ष शतम् गतम् । देश काल प्रतीक्षो अस्मि हृदि कृत्वा मुनेः वचः ॥३॥
महाप्रस्थानम् आसाद्य स्वर् गते तु निशाकरे । माम् निर्दहति संतापो वितर्कैः बहुभिः वृतम् ॥४॥
उदिताम् मरणे बुद्धिम् मुनि वाक्यैः निवर्तये । बुद्धिः या तेन मे दत्ता प्राणानाम् रक्षणे मम ॥५॥
सा मे अपनयते दुःखम् दीप्ता इव अग्नि शिखा तमः । बुध्यता च मया वीर्यम् रावणस्य दुरात्मनः ॥६॥
पुत्रः संतर्जितो वाग्भिः न त्राता मैथिली कथम् । तस्या विलपितम् श्रुत्वा तौ च सीता वियोजितौ ॥७॥
न मे दशरथ स्नेहात् पुत्रेण उत्पादितम् प्रियम् । तस्य तु एवम् ब्रुवाणस्य संहतैः वानरैः सह ॥८॥
उत्पेततुः तदा पक्षौ समक्षम् वन चारिणाम् । स दृष्ट्वा स्वाम् तनुम् पक्षैः उद्गतैः अरुण च्छदैः ॥९॥
प्रहर्षम् अतुलम् लेभे वानरान् च इदम् अब्रवीत् । निशाकरस्य राजर्षेः प्रभावात् अमित ओजसः ॥१०॥
आदित्य रश्मि निर्दग्धौ पक्षौ पुनः उपस्थितौ । यौवने वर्तमानस्य मम आसीत् यः पराक्रमः ॥११॥
तम् एव अद्य अवगच्छामि बलम् पौरुषम् एव च । सर्वथा क्रियताम् यत्नः सीताम् अधिगमिष्यथ ॥१२॥
पक्ष लाभो मम अयम् वः सिद्धि प्रत्यय कारकः । इति उक्त्वा तान् हरीन् सर्वान् संपातिः पतगोत्तम ॥१३॥
उत्पपात गिरेः शृंगात् जिज्ञासुः ख गमो गतिम् । तस्य तत् वचनम् श्रुत्वा प्रतिसंहृष्ट मानसाः । बभूवुः हरि शार्दूला विक्रम अभ्युदय उन्मुखाः ॥१४॥
अथ पवन समान विक्रमाः प्लवग वराः प्रतिलब्ध पौरुषाः । अभिजित् अभिमुखाम् दिशम् ययुः जनक सुता परिमार्गण उन्मुखाः ॥१५॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे त्रि षष्टितमः सर्गः ॥