आख्याता गृध्र राजेन समुत्प्लुत्य प्लवंगमाः । संगताः प्रीति संयुक्ता विनेदुः सिंह विक्रमाः ॥१॥
षष्टितमः सर्गः 4.64
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
संपातेः वचनम् श्रुत्वा हरयो रावण क्षयम् । हृष्टाः सागरम् आजग्मुः सीता दर्शन कान्क्षिणः ॥२॥
अभिक्रम्य तु तम् देशम् ददृशुर् भीम विक्रमाः । कृत्स्नम् लोकस्य महतः प्रतिबिंबम् इव स्थितम् ॥३॥
दक्षिणस्य समुद्रस्य समासाद्य उत्तराम् दिशम् । संनिवेशम् ततः चक्रुः सहिता वानर उत्तमाः ॥४॥
प्रसुप्तम् इव च अन्यत्र क्रीडन्तम् इव च अन्यतः । क्वचित् पर्वत मात्रैः च जल राशिभिः आवृतम् ॥५॥
संकुलम् दानव इन्द्रैः च पाताल तल वासिभिः । रोम हर्ष करम् दृष्ट्वा विषेदुः कपिकुंजराः ॥६॥
आकाशम् इव दुष्पारम् सागरम् प्रेक्ष्य वानराः । विषेदुः सहिता सर्वे कथम् कार्यम् इति ब्रुवन् ॥७॥
विषण्णाम् वाहिनीम् दृष्ट्वा सागरस्य निरीक्षणात् । आश्वासयामास हरीन् भय आर्तान् हरि सत्तमः ॥८॥
न विषादे मनः कार्यम् विषादो दोषवत्तरः । विषादो हन्ति पुरुषम् बालम् क्रुद्ध इव उरगः ॥९॥
यो विषादो प्रसहते विक्रमे समुपस्थिते । तेजसा तस्य हीनस्य पुरुष अर्थो न सिद्ध्यति ॥१०॥
तस्याम् रात्र्याम् व्यतीतायाम् अंगदो वानरैः सह । हरि वृद्धैः समागम्य पुनर् मंत्रम् अमंत्रयत् ॥११॥
सा वानराणाम् ध्वजिनी परिवार्य अंगदम् बभौ । वासवम् परिवार्य इव मरुताम् वाहिनी स्थिता ॥१२॥
को अन्यः ताम् वानरीम् सेनाम् शक्तः स्तंभयितुम् भवेत् । अन्यत्र वालि तनयात् अन्यत्र च हनूमतः ॥१३॥
ततः तान् हरि वृद्धान् च तत् च सैन्यम् अरिन्दमः । अनुमान्य अंगदः श्रीमान् वाक्यम् अर्थवत् अब्रवीत् ॥१४॥
क इदानीम् महातेजा लंघयिष्यति सागरम् । कः करिष्यति सुग्रीवम् सत्य सन्धम् अरिन्दमम् ॥१५॥
को वीरो योजन शतम् लंघयेत प्लवंगमाः । इमान् च यूथपान् सर्वान् मोचयेत् को महाभयात् ॥१६॥
कस्य प्रसादात् दारान् च पुत्रान् चैव गृहाणि च । इतो निवृत्ताः पश्येम सिद्ध अर्थाः सुखिनो वयम् ॥१७॥
कस्य प्रसादात् रामम् च लक्ष्मणम् च महाबलम् । अभिगच्छेम संहृष्टाः सुग्रीवम् च महाबलम् ॥१८॥
यदि कश्चित् समर्थो वः सागर प्लवने हरिः । स ददातु इह नः शीघ्रम् पुण्याम् अभय दक्षिणाम् ॥१९॥
अंगदस्य वचः श्रुत्वा न कश्चित् किंचित् अब्रवीत् । स्तिमिता इव अभवत् सर्वा सा तत्र हरि वाहिनी ॥२०॥
पुनर् एव अंगदः प्राह तान् हरीन् हरि सत्तमः । सर्वे बलवताम् श्रेष्ठा भवन्तो दृढ विक्रमाः । व्यपदेश्य कुले जाताः पूजिताः च अपि अभीक्ष्णशः ॥२१॥
न हि वो गमने संगः कदाचित् अपि कस्यचित् भवेत् । ब्रुवध्वम् यस्य या शक्तिः प्लवने प्लवगर्षभाः ॥२२॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे चतुः षष्टितमः सर्गः ॥