रामायणम्

षष्टितमः सर्गः 4.65

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अथ अंगद वचः श्रुत्वा सर्वे ते वानर उत्तमाः । स्वम् स्वम् गतौ समुत्साहम् ऊचुः तत्र यथा क्रमम् ॥१॥

गजो गवाक्षो गवयः शरभो गंधमादनः । मैन्दः च द्विविदः चैव सुषेणो जांबवान् तथा ॥२॥

आबभाषे गजः तत्र प्लवेयम् दश योजनम् । गवाक्षो योजनानि आह गमिष्यामि इति विंशतिम् ॥३॥

शरभो वानरः तत्र वानरान् तान् उवाच ह । त्रिंशत् गमिष्यामि योजनानाम् प्लवंगमाः ॥४॥

ऋषरभो वानरः तत्र वानरान् तान् उवाच ह । चत्वारिंशत् गमिष्यामि योजनानाम् न संशयः ॥५॥

वानरान् तु महातेजा अब्रवीत् गंधमादनः । योजनानाम् गमिष्यामि पंचाशत् तु न संशयः ॥६॥

मैन्दः तु वानरः तत्र वानरान् तान् उवाच ह । योजनानाम् परम् षष्टिम् अहम् प्लवितुम् उत्सहे ॥७॥

ततः तत्र महातेजा द्विविदः प्रत्यभाषत । गमिष्यामि न संदेहः सप्ततिम् योजनानि अहम् ॥८॥

सुषेणः तु महातेजाः सत्त्ववान् कपि सत्तमः । अशीतिम् प्रतिजाने अहम् योजनानाम् पराक्रमे ॥९॥

तेषाम् कथयताम् तत्र सर्वान् तान् अनुमान्य च । ततो वृद्धतमः तेषाम् जांबवान् प्रत्यभाषत ॥१०॥

पूर्वम् अस्माकम् अपि आसीत् कश्चित् गति पराक्रमः । ते वयम् वयसः पारम् अनुप्राप्ताः स्म सांप्रतम् ॥११॥

किम् तु न एवम् गते शक्यम् इदम् कार्यम् उपेक्षितुम् । यद् अर्थम् कपि राजः च रामः च कृत निश्चयौ ॥१२॥

सांप्रतम् कालम् अस्माकम् या गतिः ताम् निबोधत । नवतिम् योजनानाम् तु गमिष्यामि न संशयः ॥१३॥

तान् च सर्वान् हरि श्रेष्ठान् जांबवान् इदम् अब्रवीत् । न खलु एतावत् एव आसीत् गमने मे पराक्रमः ॥१४॥

मया वैरोचने यज्ञे प्रभविष्णुः सनातनः । प्रदक्षिणी कृतः पूर्वम् क्रममाणः त्रिविक्रमः ॥१५॥

स इदानीम् अहम् वृद्धः प्लवने मन्दविक्रमः । यौवने च तदा आसीत् मे बलम् अप्रतिमम् परम् ॥१६॥

संप्रति एतावत् एव अद्य शक्यम् मे गमने स्वतः । न एतावता च संसिद्धिः कार्यस्य अस्य भविष्यति ॥१७॥

अथ उत्तरम् उदार अर्थम् अब्रवीत् अंगदः तदा । अनुमान्य महाप्राज्ञो जांबवंतम् महाकपिम् ॥१८॥

अहम् एतत् गमिष्यामि योजनानाम् शतम् महत् । निवर्तने तु मे शक्तिः स्यात् न वा इति न निश्चितम् ॥१९॥

तम् उवाच हरि श्रेष्ठो जांबवान् वाक्य कोविदः । ज्ञायते गमने शक्तिः तव हरि ऋक्ष सत्तम ॥२०॥

कामम् शत सहस्रम् वा न हि एष विधिः उच्यते । योजनानाम् भवान् शक्तो गन्तुम् प्रतिनिवर्तितुम् ॥२१॥

न हि प्रेषयिता तात स्वामी प्रेष्यः कथंचन । भवता अयम् जनः सर्वः प्रेष्यः प्लवग सत्तम ॥२२॥

भवान् कलत्रम् अस्माकम् स्वामि भावे व्यवस्थितः । स्वामी कलत्रम् सैन्यस्य गतिः एषा परंतप ॥२३॥

अपि वै एतस्य कार्यस्य भवान् मूलम् अरिम् दम । तस्मात् कलत्रवत् तात प्रतिपाल्यः सदा भवान् ॥२४॥

मूलम् अर्थस्य संरक्ष्यम् एष कार्यविदाम् नयः । मूले हि सति सिध्यन्ति गुणाः पुष्प फल उदयः ॥२५॥

तद् भवान् अस्य कार्यस्य साधनम् सत्य विक्रमः । बुद्धि विक्रम संपन्नो हेतुः अत्र परंतपः ॥२६॥

गुरुः च गुरु पुत्रः च त्वम् हि नः कपि सत्तम । भवन्तम् आश्रित्य वयम् समर्था हि अर्थ साधने ॥२७॥

उक्त वाक्यम् महाप्राज्ञम् जांबवंतम् महाकपिः । प्रत्युवाच उत्तरम् वाक्यम् वालि सूनुः अथ अंगदः ॥२८॥

यदि न अहम् गमिष्यामि न अन्यो वानर पुंगवः । पुनः खलु इदम् अस्माभिः कार्यम् प्रायोपवेशनम् ॥२९॥

न हि अकृत्वा हरि पतेः संदेशम् तस्य धीमतः । तत्र अपि गत्वा प्राणानाम् न पश्यामि परिरक्षणम् ॥३०॥

स हि प्रसादे च अत्यर्थम् कोपे च हरिः ईश्वरः । अतीत्य तस्य संदेशम् विनाशो गमने भवेत् ॥३१॥

तत् तथा हि अस्य कार्यस्य न भवति अन्यथा गतिः । तत् भवान् एव दृष्ट अर्थः संचिंतयितुम् अर्हति ॥३२॥

सः अंगदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः । जांबवान् उत्तमम् वाक्यम् प्रोवाच इदम् ततो अंगदम् ॥३३॥

तस्य ते वीर कार्यस्य न किंचित् परिहास्यते । एष संचोदयामि एनम् यः कार्यम् साधयिष्यति ॥३४॥

ततः प्रतीतम् प्लवताम् वरिष्ठम् एकांतम् आश्रित्य सुखोपविष्टम् । संचोदयामास हरि प्रवीरो हरिप्रवीरम् हनुमंतम् एव ॥३५॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे पंच षष्टितमः सर्गः ॥

Listen to the sarga
0:00