रामायणम्

षष्टितमः सर्गः 4.66

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अनेक शत साहस्रीम् विषण्णाम् हरि वाहिनीम् । जांबवान् समुदीक्ष्य एवम् हनुमंतम् अथ अब्रवीत् ॥१॥

वीर वानर लोकस्य सर्व शास्त्र विदाम् वर । तूष्णीम् एकांतम् आश्रित्य हनुमन् किम् न जल्पसि ॥२॥

हनुमन् हरि राजस्य सुग्रीवस्य समो हि असि । राम लक्ष्मणयोः च अपि तेजसा च बलेन च ॥३॥

अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः । गरुत्मान् इव विख्यात उत्तमः सर्व पक्षिणाम् ॥४॥

बहुशो हि मया दृष्टः सागरे स महाबलः । भुजगान् उद्धरन् पक्षी महावेगो महायशाः ॥५॥

पक्षयोः यत् बलम् तस्य तावत् भुज बलम् तव । विक्रमः च अपि वेगः च न ते तेन अपहीयते ॥६॥

बलम् बुद्धिः च तेजः च सत्त्वम् च हरि सत्तम । विशिष्टम् सर्व भूतेषु किम् आत्मानम् न सज्जसे ॥७॥

अप्सर अप्सरसाम् श्रेष्ठा विख्याता पुंजिकस्थला । अंजना इति परिख्याता पत्नी केसरिणो हरेः ॥८॥

विख्याता त्रिषु लोकेषु रूपेणा अप्रतिमा भुवि । अभिशापात् अभूत् तात कपित्वे काम रूपिणी ॥९॥

दुहिता वानर इन्द्रस्य कुंजरस्य महात्मनः । मानुषम् विग्रहम् कृत्वा रूप यौवन शालिनी ॥१०॥

विचित्र माल्य आभरणा कदाचित् क्षौम धारिणी । अचरत् पर्वतस्य अग्रे प्रावृड् अंबुद सन्निभे ॥११॥

तस्या वस्त्रम् विशालाक्ष्याः पीतम् रक्त दशम् शुभम् । स्थितायाः पर्वतस्य अग्रे मारुतो अपहरत् शनैः ॥१२॥

स ददर्श ततः तस्या वृत्तौ ऊरू सुसंहतौ । स्तनौ च पीनौ सहितौ सुजातम् चारु च आननम् ॥१३॥

ताम् बलात् आयत श्रोणीम् तनु मध्याम् यशस्विनीम् । दृष्ट्वा एव शुभ सर्वान्गीम् पवनः काम मोहितः ॥१४॥

स ताम् भुजाभ्याम् दीर्घाभ्याम् पर्यष्वजत मारुतः । मन्मथ आविष्ट सर्वान्गो गत आत्मा ताम् अनिन्दिताम् ॥१५॥

सा तु तत्र एव संभ्रांता सुवृत्ता वाक्यम् अब्रवीत् । एक पत्नी व्रतम् इदम् को नाशयितुम् इच्छति ॥१६॥

अंजनाया वचः श्रुत्वा मारुतः प्रत्यभाषत । न त्वाम् हिंसामि सुश्रोणि मा भूत् ते मनसोइ भयम् ॥१७॥

मनसा अस्मि गतो यत् त्वाम् परिष्वज्य यशस्विनि । वीर्यवान् बुद्धि संपन्नः पुत्रः तव भविष्यति ॥१८॥

महासात्त्वो महातेज महाबल पराक्रमः । लंघने प्लवने चैव भविष्यति मया समः ॥१९॥

एवम् उक्ता ततः तुष्टा जननी ते महाकपेः । गुहायाम् त्वाम् महाबाहो प्रजज्ञे प्लवगर्षभ ॥२०॥

अभ्युत्थितम् ततः सूर्यम् बालो दृष्ट्वा महा वने । फलंचेतिजिघृक्षुस्त्वमुत्प्लुत्याभ्युत्पतोदिवम् - यद्वा - फलम् च इति जिघृक्षुः त्वम् उत्प्लुत्य अभिउत्पतो दिवम् ॥२१॥

शतानि त्रीणि गत्वा अथ योजनानाम् महाकपे । तेजसा तस्य निर्धूतो न विषादम् ततो गतः ॥२२॥

त्वाम् अपि उपगतम् तूर्णम् अंतरीक्षम् महाकपे । क्षिप्तम् इन्द्रेण ते वज्रम् कोप आविष्टेन तेजसा ॥२३॥

तदा शैलाग्र शिखरे वामो हनुर् अभज्यत । ततो हि नाम धेयम् ते हनुमान् इति कीर्तितम् ॥२४॥

ततः त्वाम् निहतम् दृष्ट्वा वायुः गन्ध वहः स्वयम् । त्रैलोक्यम् भृश संक्रुद्धो न ववौ वै प्रभंजनः ॥२५॥

संभ्रांताः च सुराः सर्वे त्रैलोक्ये क्षुभिते सति । प्रसादयन्ति संक्रुद्धम् मारुतम् भुवनेश्वराः ॥२६॥

प्रसादिते च पवने ब्रह्मा तुभ्यम् वरम् ददौ । अशस्त्र वध्यताम् तात समरे सत्य विक्रम ॥२७॥

वज्रस्य च निपातेन विरुजम् त्वाम् समीक्ष्य च । सहस्र नेत्रः प्रीत आत्मा ददौ ते वरम् उत्तमम् ॥२८॥

स्वच्छंदतः च मरणम् तव स्यात् इति वै प्रभो । स त्वम् केसरिणः पुत्रः क्षेत्रजो भीम विक्रमः ॥२९॥

मारुतस्य औरसः पुत्रः तेजसा च अपि तत् समः । त्वम् हि वायु सुतो वत्स प्लवने च अपि तत् समः ॥३०॥

वयम् अद्य गत प्राणा भवान् अस्मासु सांप्रतम् । दाक्ष्य विक्रम संपन्नः कपि राज इव अपरः ॥३१॥

त्रिविक्रमे मया तात स शैल वन कानना । त्रिः सप्त कृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ॥३२॥

तथा च ओषधयो अस्माभिः संचिता देव शासनात् । निर्मथ्यम् अमृतम् याभिः तदा तदानीम् नो महत् बलम् ॥३३॥

स इदानीम् अहम् वृद्धः परिहीन पराक्रमः । साम्प्रतम् कालम् अस्माकम् भवान् सर्व गुण अन्वितः ॥३४॥

तत् विजृंभस्व विक्रांतः प्लवताम् उत्तमो हि असि । त्वत् वीर्यम् द्रष्टु कामा इयम् सर्वा वानर वाहिनी ॥३५॥

उत्तिष्ठ हरि शार्दूल लंघयस्व महा अर्णवम् । परा हि सर्व भूतानाम् हनुमन् या गतिः तव ॥३६॥

विषाण्णा हरयः सर्वे हनुमन् किम् उपेक्षसे । विक्रमस्व महावेग विष्णुः त्रीन् विक्रमान् इव ॥३७॥

ततः कपीनाम् ऋषभेण चोदितः प्रतीत वेगः पवन आत्मजः कपिः । प्रहर्षयन् ताम् हरि वीर वाहिनीम् चकार रूपम् महत् आत्मनः तदा ॥३८॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे षट् षष्टितमः सर्गः ॥

Listen to the sarga
0:00