रामायणम्

एकादशः सर्गः 5.11

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अवधूय च ताम् बुद्धिम् बभूव अवस्थितः तदा । जगाम च अपराम् चिन्ताम् सीताम् प्रति महा कपिः ॥१॥

न रामेण वियुक्ता सा स्वप्तुम् अर्हति भामिनी । न भोक्तुम् न अपि अलम्कर्तुम् न पानम् उपसेवितुम् ॥२॥

न अन्यम् नरम् उपस्थातुम् सुराणाम् अपि च ईश्वरम् । न हि राम समः कश्चिद् विद्यते त्रिदशेष्व् अपि ॥३॥

अन्या इयम् इति निश्चित्य पान भूमौ चचार सः । क्रीडितेन अपराः क्लान्ता गीतेन च तथा पराः ॥४॥

नृत्तेन च अपराः क्लान्ताः पान विप्रहताः तथा । मुरजेषु मृदन्गेषु पीठिकासु च संस्थिताः ॥५॥

तथा आस्तरण मुख्य्येषु सम्विष्टाः च अपराः स्त्रियः । अङ्गनानाम् सहस्रेण भूषितेन विभूषणैः ॥६॥

रूप सम्ल्लाप शीलेन युक्त गीत अर्थ भाषिणा । देश काल अभियुक्तेन युक्त वाक्य अभिधायिना ॥७॥

रत अभिरत संसुप्तम् ददर्श हरि यूथपः । तासाम् मध्ये महा बाहुः शुशुभे राक्षस ईश्वरः ॥८॥

गोष्ठे महति मुख्यानाम् गवाम् मध्ये यथा वृषः । स राक्षस इन्द्रः शुशुभे ताभिः परिवृतः स्वयम् ॥९॥

5.11.9 #a5948e02e182 timing uncertain

करेणुभिर् यथा अरण्यम् परिकीर्णो महा द्विपः । सर्व कामैर् उपेताम् च पान भूमिम् महात्मनः ॥१०॥

ददर्श कपि शार्दूलः तस्य रक्षः पतेर् गृहे । मृगाणाम् महिषाणाम् च वराहाणाम् च भागशः ॥११॥

तत्र न्यस्तानि मांसानि पान भूमौ ददर्श सः । रौक्मेषु च विशलेषु भाजनेष्व् अर्ध भक्षितान् ॥१२॥

ददर्श कपि शार्दूल मयूरान् कुक्कुटामः तथा । वराह वार्ध्राणसकान् दधि सौवर्चल आयुतान् ॥१३॥

शल्यान् मृग मयूरामः च हनूमान् अन्ववैक्षत । कृकरान् विविधान् सिद्धामः चकोरान् अर्ध भक्षितान् ॥१४॥

महिषान् एक शल्यामः च चागामः च कृत निष्ठितान् । लेख्यम् उच्च अवचम् पेयम् भोज्यानि विविधानि च ॥१५॥

तथा अम्ल लवण उत्तंसैर् विविधै राग षाडवैः । हार नूपुर केयूरैर् अपविद्धैर् महा धनैः ॥१६॥

पान भाजन विक्षिप्तैः फलैः च विविधैर् अपि । कृत पुष्प उपहारा भूर् अधिकम् पुष्यति श्रियम् ॥१७॥

तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयन आसनैः । पान भूमिर् विना वह्निम् प्रदीप्ता इव उपलक्ष्यते ॥१८॥

बहु प्रकारैर् विविधैर् वर संस्कार संस्कृतैः । मांसैः कुशल सम्युक्तैः पान भूमि गतैः पृथक् ॥१९॥

दिव्याः प्रसन्ना विविधाः सुराः कृत सुरा अपि । शर्कर आसव माध्वीकाः पुष्प आसव फल आसवाः ॥२०॥

वास चूर्णैः च विविधैर् मृष्टाः तैः तैः पृथक् पृथक् । सम्तता शुशुभे भूमिर् माल्यैः च बहु संस्थितैः ॥२१॥

हिरण्मयैः च करकैर् भाजनैः स्फाटिकैर् अपि । जाम्बूनदमयैश्चान्याः करकैरभिवम्वृता ॥२२॥

राजतेषु च कुम्भेषु जाम्बूनदमयेषु च । पान श्रेष्ठम् तदा भूरि कपिः तत्र ददर्श ह ॥२३॥

सो अपश्यत् शात कुम्भानि शीधोर् मणिमयानि च । राजतानि च पूर्णानि भाजनानि महा कपिः ॥२४॥

क्वचिद् अर्ध अवशेषाणि क्वचित् पीतानि सर्वशः । क्वचिन् न एव प्रपीतानि पानानि स ददर्श ह ॥२५॥

क्वचिद् भक्ष्यामः च विविधान् क्वचित् पानानि भागशः । क्वचिद् अन्न अवशेषाणि पश्यन् वै विचचार ह ॥२६॥

क्वचित् प्रभिन्नैः करकैः क्वचिद् आलोडितैर् घटैः । क्वचित् सम्पृक्त माल्यानि जलानि च फलानि च ॥२७॥

5.11.27 #e1a15c3d4541 timing uncertain

शयनानि अत्र नारीणाम् शून्यानि बहुधा पुनः । परस्परम् समाश्लिष्य काश्चित् सुप्ता वर अन्गनाः ॥२८॥

काचिच् च वस्त्रम् अन्यस्या अपहृत्य उपगुह्य च । उपगम्य अबला सुप्ता निद्रा बल पराजिता ॥२९॥

तासाम् उच्च्वास वातेन वस्त्रम् माल्यम् च गात्रजम् । न अत्यर्थम् स्पन्दते चित्रम् प्राप्य मन्दम् इव अनिलम् ॥३०॥

चन्दनस्य च शीतस्य शीधोर् मधु रसस्य च । विविधस्य च माल्यस्य पुष्पस्य विविधस्य च ॥३१॥

बहुधा मारुतः तत्र गन्धम् विविधम् उद्वहन् । स्नानानाम् चन्दनानाम् च धूपानाम् चैव मूर्चितः । प्रववौ सुरभिर् गन्धो विमाने पुष्पके तदा ॥३२॥

श्याम अवदाताः तत्र अन्याः काश्चित् कृष्णा वर अन्गनाः ॥३३॥

काश्चित् कान्चन वर्ण अन्ग्यः प्रमदा राक्षस आलये । तासाम् निद्रा वशत्वाच् च मदनेन विमूर्चितम् ॥३४॥

पद्मिनीनाम् प्रसुप्तानाम् रूपम् आसीद् यथैव हि । एवम् सर्वम् अशेषेण रावण अन्तः पुरम् कपिः ॥३५॥

ददर्श सुमहा तेजा न ददर्श च जानकीम् । निरीक्षमाणः च ततः ताः स्त्रियः स महा कपिः ॥३६॥

जगाम महतीम् चिन्ताम् धर्म साध्वस शन्कितः । पर दार अवरोधस्य प्रसुप्तस्य निरीक्षणम् ॥३७॥

इदम् खलु मम अत्यर्थम् धर्म लोपम् करिष्यति । न हि मे पर दाराणाम् दृष्टिर् विषय वर्तिनी ॥३८॥

अयम् च अत्र मया दृष्टः पर दार परिग्रहः । तस्य प्रादुर् अभूच् चिन्ता पुनर् अन्या मनस्विनः ॥३९॥

निश्चित एक अन्त चित्तस्य कार्य निश्चय दर्शिनी । कामम् दृष्ट्वा मया सर्वा विश्वस्ता रावण स्त्रियः ॥४०॥

न तु मे मनसः किंचिद् वैकृत्यम् उपपद्यते । मनो हि हेतुः सर्वेषाम् इन्द्रियाणाम् प्रवर्तते ॥४१॥

शुभ अशुभास्व् अवस्थासु तच् च मे सुव्यवस्थितम् । न अन्यत्र हि मया शक्या वैदेही परिमार्गितुम् ॥४२॥

स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे । यस्य सत्त्वस्य या योनिः तस्याम् तत् परिमार्ग्यते ॥४३॥

न शक्यम् प्रमदा नष्टा मृगीषु परिमार्गितुम् । तद् इदम् मार्गितम् तावत् शुद्धेन मनसा मया ॥४४॥

रावण अन्तः पुरम् सरम् दृश्यते न च जानकी । देव गन्धर्व कन्याः च नाग कन्याः च वीर्यवान् ॥४५॥

अवेक्षमाणो हनुमान् न एव अपश्यत जानकीम् । ताम् अपश्यन् कपिः तत्र पश्यमः च अन्या वर स्त्रियः ॥४६॥

अपक्रम्य तदा वीरः प्रध्यातुम् उपचक्रमे । स भूयस्तु परम् श्रीमान् मारुतिर्यत्नमास्थितः ॥४७॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे एकादशः सर्गः ॥

Listen to the sarga
0:00