रामायणम्

सप्तदशः सर्गः 5.17

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः कुमुदषण्डाभो निर्मलम् निर्मलोदयः । प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ॥१॥

साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः । चन्द्रमा रश्मभिः शीतैः सिषेवे पवनात्मजम् ॥२॥

स ददर्श ततः सीताम् पूर्णचन्द्रनिभाननाम् । शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ॥३॥

दिदृक्षमाणो वैदेहीम् हनुमान् मारुतात्मजः । स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ॥४॥

एकाक्षीमेककर्णाम् च कर्णप्रावरणाम् तथा । अकर्णाम् शङ्कुकर्णाम् च मस्तकोच्छ्वासनासिकाम् ॥५॥

अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम् । ध्वस्तकेशीम् तथाकेशीम् केशकम्बलधारिणीम् ॥६॥

लम्बकर्णललाटाम् च लम्बोदरपयोधराम् । लम्बोष्ठीं चुबुकोष्ठीं च लम्बास्याम् लम्बजानुकाम् ॥७॥

ह्रस्वाम् दीर्घाम् च कुब्जाम् विकटाम् वामनां तथा । करालाम् भुग्नवक्त्राम् च पिङ्गाक्षीम् विकृताननाम् ॥८॥

विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः । कालायसमहाशूलकूटमुद्गधारिणीः ॥९॥

वराहमृगशार्दूलमहिषाजशिवामुखीः । गजोष्ट्र हयपादीश्च निखातशिरसोपराः ॥१०॥

एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः । गोकर्णीर्हस्तिकर्णीईश्च हरिकर्णीस्तथापराः ॥११॥

अतिनासाश्च तिर्यङ्नासा अनासिकाः । गजनन्निभनासाश्च ललाटोच्च्वासनासिकाः ॥१२॥

हस्तिपादा महापादा गोपादाः पादचूळिकाः । अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः ॥१३॥

अतिमात्रस्यनेत्राश्च दीर्घजिह्वानखास्तथा । अजामुखीर्हस्तिमुखीर्गोमुखाः सूकरीमुखीः ॥१४॥

हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः । शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ॥१५॥

कराळा धूम्रकेशीश्च राक्षसीर्विकृताननाः । पिबन्तीः सततं पानं सदा मां ससुराप्रियाः ॥१६॥

मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः । ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः ॥१७॥

स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् । तस्याधस्ताच्च ताम् देवीम् राजपुत्रीमनिन्दिताम् ॥१८॥

लक्षयामास लक्ष्मीवान् हनुमान् जन्कात्मजाम् । निष्प्रभाम् षोकसन्तप्ताम् मलसम्कुलमूर्धजाम् ॥१९॥

क्षीणपुण्याम् च्युताम् भूमौ ताराम् निपतितामिव । चारित्रव्यपदेशाड्यां भर्तृदर्शनदुर्गताम् ॥२०॥

भूषणैरुत्तमोर्हीनाम् भर्तृवात्सल्यभूषणाम् । राक्षसाधिपसम्रुद्धाम् बन्धुभिश्च विना कृताम् ॥२१॥

वियूथाम् सिम्हसम्रुद्धाम् बद्धाम् गजवधूमिव । चन्द्ररेखाम् पयोदान्ते शारदाब्रैरिवावृताम् ॥२२॥

क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् । स ताम् भर्तवशे युक्तामयुक्ताम् राक्षसीवशे ॥२३॥

अशोकवनिकामध्ये शोकसागरमाप्लुताम् । ताभिः परिवृताम् तत्र सग्रहामिव रोहिणीम् ॥२४॥

ददर्श हनुमान् देवीम् लतामकुसुमामिव । सा मलेन च दिग्धाङ्गीवपुषा चाप्यलंकृता ॥२५॥

मृणाली पङ्कदिग्धेव विभाति च न भाति च । मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ॥२६॥

संवृताम् मृगशाबाक्षीं ददर्श हनुमान् कपिः । ताम् देवीं दीनवदनामदीनां भर्तृतेजसा ॥२७॥

रक्षिताम् स्वेन शीलेन सीतामसितलोचनाम् । ताम् दृष्ट्वा हनुमान् सीताम् मृगशाबनिभेक्षणाम् । मृगकन्यामिव त्रस्ताम् वीक्षमाणाम् समन्ततः ॥२८॥

दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः । सम्घातमिव शोकानाम् दुःखस्योर्मिमिवोथिताम् ॥२९॥

ताम् क्षमां सुविभक्ताङ्गीं विनाभरणशोभिनीम् । प्रहर्षमतुलम् लेभे मारुतिः प्रेक्ष्य मैथिलीम् ॥३०॥

हर्षजानि च सोऽश्रूणि ताम् दृष्ट्वा मदिरेक्षणाम् । मुमुचे हनुमांस्तत्र नमश्चक्रे च राघवम् ॥३१॥

नमस्कृत्वा रामाय लक्ष्मणाय च वीर्यवान् । सीतादर्शनसम्हृष्टो हनुमान् सम्वृतोऽभवत् ॥३२॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे सप्तदशः सर्गः ॥

Listen to the sarga
0:00