रामायणम्

अष्टादशः सर्गः 5.18

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तथा विप्रेक्षमाणस्य वनम् पुष्पितपादपम् । विचिन्वतश्च वैदेहीम् किंचिच्चेषा निशाभवत् ॥१॥

षडङ्गवेदविदुषाम् क्रतुप्रवरयाजिनाम् । शुश्राव ब्रह्मघोषान् स विरात्रे ब्रह्मरक्षसाम् ॥२॥

अथ मङ्गलवादित्रशब्दैः श्रुतिमनोहरैः । प्रबुध्यत महाबाहुर्दशग्रीवो महाबलः ॥३॥

विबुध्य तु यथाकालम् राक्षसेन्द्रः प्रतापवान् । स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयात् ॥४॥

भृशं नियुक्तस्तस्याम् च मदनेन मदोत्कटः । न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥५॥

स सर्वाभरणैर्युक्तो बिभच्छ्रियमनुत्तमाम् । तां नगैर्बहुभिर्जुष्टाम् सर्वपुष्पफलोपगैः ॥६॥

वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् । सदामदैश्च विहगैर्विचित्राम् परमाद्भुताम् ॥७॥

ईहामृगैश्च विविधैर्जुष्टां डृष्टिमनोहरैः । वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः ॥८॥

नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् । अशोकवनकामेव प्राविशत्संततद्रुमाम् ॥९॥

अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत् । महेन्द्रमिव पौलस्त्यम्ं देवगन्धर्वयोषितः ॥१०॥

दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः । वालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥११॥

काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः । मण्डलागान् ब्रुसींश्चापि गृह्यान्याः पृष्ठतो ययुः ॥१२॥

काचिद्रत्नमयीं स्थालीं पूर्णां पानस्य ब्राजतम् । दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥१३॥

राजहंसप्रतीकाशं चत्रं पूर्णशशिप्रभम् । सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥१४॥

निद्रामदपरीताक्ष्यो रावनस्योत्तमाः स्त्रियः । अनुजग्मुः पतिं वीरम् घनम् विद्युल्लता इव ॥१५॥

व्याविद्धहारकेयूराः समामृदितवर्णकाः । समागळितकेशान्ताः सस्वेदवदनास्तथा ॥१६॥

घोर्णन्त्यो मदशेषेण निद्रया च शुभाननाः । स्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः ॥१७॥

प्रयान्तं नैरृतपतिं नार्यो मदिरलोचनाः । बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः ॥१८॥

स च कामपराधीनः पतिस्तासां महाबलः । सीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ ॥१९॥

ततः काञ्चीनिनादं च नूपुराणाम् च निस्वनम् । शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ॥२०॥

तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् । द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः ॥२१॥

दीपिकाभिरनेकाभिः समन्तादवभासितम् । गन्धतैलावसिक्ताभिर्द्रियमाणाभिरग्रतः ॥२२॥

कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् । समक्षमिव कन्दर्पमपविद्धशरासनम् ॥२३॥

मथितामृतफेनाभमरजोवस्त्रमुत्तमम् । सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ॥२४॥

तं पत्रविटपे लीनः अत्रपुष्पघनावृतह् । समीपमिव संक्रान्तं निध्यातुमुपचक्रमे ॥२५॥

अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः । रूपयौवनसंपन्ना रावणस्य वरस्तियः ॥२६॥

ताभिः परिवृतो राजा सुरूपाभिर्महायशाः । तस्मृगद्विजसम्घष्टं प्रविष्टः प्रमदावनम् ॥२७॥

क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः । तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥२८॥

वृतः परमनारीभिस्ताराभिरिव चन्द्रामाः । तं ददर्श महातेजास्तेजोवन्तं महाकपिः ॥२९॥

रावणोऽयम् महाबाहुरिति संचिन्त्य वानरः । अवप्लुतो महातेजा हनुमान्मारुतात्मजः ॥३०॥

स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा । पत्रगुह्यान्तरे सक्तो हनुमान् संवृतोऽभवत् ॥३१॥

स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् । दिदृक्षुरसितापाङ्गमुपावर्तत रावणः ॥३२॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे अष्टादशः सर्गः ॥

Listen to the sarga
0:00