रामायणम्

एकोनविंशः सर्गः 5.19

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता । रूपयौवनसम्पन्नं भूषणोत्तमभूषितम् ॥१॥

ततो दृष्ट्वैव वैदेही रावणम् राक्षसाधिपम् । प्रावेपत वरारोहा प्रवाते कदली यथा ॥२॥

आच्छाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ । उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी ॥३॥

दशग्रीवस्तु वैदेहीम् रक्षितां राक्षसीगणैः । ददर्श दीनाम् दुःखार्तां नावं सन्नामिवार्णवे ॥४॥

असंवृतायामासीनाम् धरण्याम् संशितव्रताम् । चिनां प्रपतितां भूमौ शाखामिव वनस्पतेः ॥५॥

मलमण्डनचित्राङ्गीम् मण्डनार्हाममण्डिताम् । मृणाली पङ्कदिग्धेव विभाति न विभाति च ॥६॥

समीपम् राजसिम्हस्य रामस्य विदितात्मनः । सङ्कल्पहयसम्युक्तैर्यान्तीमिव मनोरथैः ॥७॥

शुष्यन्तीम् रुदतीमेकां ध्यानशोकपरायणाम् । दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम् ॥८॥

चेष्टमानां तथाविष्टां पन्नगेन्द्रवधूमिव । धूप्यमानाम् ग्रहेणेव रोहिणीं धूमकेतुना ॥९॥

वृत्तशीलकुले जातामाचारवति धार्मिके । पुनः संस्कारमापन्नां जातामिव च दुष्कुले ॥१०॥

अभूतेनापवादेन कीर्तीम् निपतितामिव । अम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥११॥

5.19.11 #ee7d71202aa9 timing uncertain

सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम् । प्रज्ञामिव परिक्षीणामाशां प्रतिहतामिव ॥१२॥

आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव । दीप्तामिव दिशं काले पूजामपहृतामिव ॥१३॥

पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव । प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम् ॥१४॥

वेदीमिव परामृष्टां शान्तामग्निशिखामिव । पौर्णमासीमिव निशां राहुग्रस्तेन्दुमण्डलाम् ॥१५॥

उत्कृष्टपर्णकमलां वित्रासितविहङ्गमाम् । हस्तिहस्तपरामृष्टमाकुलां पद्मिनीमिव ॥१६॥

पतिशोकातुरां शुष्कां नदीं विस्रावितामिव । परया मृजया हीनाम् कृष्णपक्षनिशामिव ॥१७॥

सुकुमारीम् सुजाताङ्गीं रत्न गर्भगृहोचिताम् । तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ॥१८॥

गृहीतामाळितां स्तम्भे यूथपेन विनाकृताम् । निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव ॥१९॥

एकया दीर्घया वेण्या शोभमानामयत्नतः । नीलया नीरदापाये वनराज्या महीमिव ॥२०॥

उपवासेन शोकेन ध्यानेन च भयेन च । परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम् ॥२१॥

आयाचमानाम् दुःखार्तां प्राञ्जलिं देवतामिव । भावेन रघुमुख्यस्य दशग्रीवपराभवम् ॥२२॥

समीक्षमाणां रुदतीमनिन्दितां । सुपक्ष्मताम्रायतशुक्ललोचनाम् । अनुव्रतां राममतीव मैथिलीं । प्रलोभयामास वधाय रावणः ॥२३॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे एकोनविंशः सर्गः ॥

Listen to the sarga
0:00