रामायणम्

विम्षः सर्गः 5.20

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

स ताम् परिवृतां दीनां निरानन्दां तपस्विनीम् । साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥१॥

मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् । अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्चसि ॥२॥

कामये त्वाम् विशालाक्षि बहुमन्यस्व मां प्रिये । सर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे ॥३॥

नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः । व्यपसर्पतु ते सीते भयम् मत्तः समुत्थितम् ॥४॥

स्वधर्मो रक्षसां भीरु सर्वथैव न संशयः । गमनं वा परस्त्रीणाम् हरणम् सम्प्रमथ्य वा ॥५॥

एवं चैतदकामां तु न त्वां स्प्रक्ष्यामि मैथिलि । कामम् कामः शरीरे मे यथाकामं प्रार्तताम् ॥६॥

देवि नेह भयम् कार्यम् मयि विश्वसिहि प्रिये । प्रणयस्व च तत्वएन मैवम् भूः शिकलालसा ॥७॥

एकवेणी धराशय्या ध्यानं मलिनमम्बरम् । अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ॥८॥

विचित्राणि च माल्यानि चन्दनान्यगरूणि च । विविधानि च वासांसि द्व्यान्याभरणानि च ॥९॥

महार्हणि च पानानि शयनान्यासनानि च । गीतम् नृत्तं च वाद्यं च लभ मं प्राप्य मैथिलि ॥१०॥

स्त्रीरत्नमसि मैवम् भूः कुरु गात्रेषु भूषणम् । मां प्राप्य हि कथम् नु स्यास्त्वमनर्हा सुविग्रहे ॥११॥

इदम् ते चारु सम्जातम् यौवनम् व्यतिवर्तते । यदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव ॥१२॥

त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृक् । न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने ॥१३॥

त्वाम् समाअसाद्य वैदेहि रूपयौवनशालिनीम् । कः पुमानतिवर्तेत साक्षादपि पितामहः ॥१४॥

यद्यत्पश्यामि ते गात्रम् शीतांशुसदृशानने । तस्मिंस्तस्मिन् पृधुश्रोणि चक्षुर्मम निबध्यते ॥१५॥

भव मैथिलि भाया मे मोहमेनम् विसर्जय । बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः ॥१६॥

सर्वापामेव भद्रं ते ममाग्रमहिषी भव । लोकेभो यानि रत्नानि सम्प्रमथ्याहृतानि वै ॥१७॥

तानि मे भीरु सर्वाणि राज्यम् चैतदहं च ते । विजित्य पृथिवीं सर्वां नानानगरमालिनीम् ॥१८॥

जनकाय प्रदास्यामि तव हेतोर्विलासिनि । नेह पश्यामि लोकेऽन्यम् यो मे प्रतिबलो भवेत् ॥१९॥

पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे । असकृत्सम्युगे भग्ना मया विमृदितध्वजाः ॥२०॥

अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः । इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम् ॥२१॥

सप्रभाण्यवसज्यन्तां तवांगे भूषणानि च । साधु पश्यामि ते रूपम् सम्युक्तं प्रतिकर्मणा ॥२२॥

प्रतिकर्माभिसम्युक्ता दाक्षिण्येन वरानने । भुम्क्ष्व भोगान्यथाकामं पिब भीरु रमस्व च ॥२३॥

यथेच्छम् च प्रयच्छ त्वं पृथिवीम् वा धनानि च । ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च ॥२४॥

मत्र्पसादाल्ललन्त्याश्च ललन्तां बान्धवास्तव । बुद्धिं ममानुपश्य त्वम् श्रियम् भद्रे यशश्च मे ॥२५॥

किं करिष्यसि रामेण सुभगे चीरवाससा । निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः ॥२६॥

व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा । न हि वैदेहि रांस्त्वां द्रष्टुं वा प्युपलस्स्यते ॥२७॥

पुरोबलाकैरसितैर्मे घोर्ज्योत्स्नामिवावृताम् । न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः ॥२८॥

हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव । चारुस्मिते चारुदति चारुनेत्रे विलासिनि ॥२९॥

मनो हरसि मे भीरु सुपर्णः पन्न्गं यथा । क्लिष्टकौशेयवसनाम् तन्वीमप्यनलम्कृताम् ॥३०॥

त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् । अन्तः पुरविनासिन्यः स्त्रियः सर्वगुणान्विताः ॥३१॥

यावन्त्यो मम सर्वासामैश्वरम् कुरु जानकि । मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः ॥३२॥

तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा । यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च ॥३३॥

तानि लोकांश्च सुश्रोणि मां च भुम्क्ष्व यथासुखम् । न रामस्तपसा देवि न बलेन विक्रमैः ॥३४॥

न धनेन मया तुल्यस्तेजसा यशसापि वा । पिब विहर रमस्व भुंक्ष्व भोगान् । धननिचौअम् प्रदिशामि मेदिनीम् च । मयि लल ललने यथासुखम् त्वम् । त्वयि च समेत्य ललन्तु बान्धव्वस्ते ॥३५॥

कनकविमलहारभूषिताङ्गी । विहर मया सह भीरु काननानि ॥३६॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे विम्षः सर्गः ॥

Listen to the sarga
0:00