तस्य तद्वचनम् श्रुत्वा सीता रौद्रस्य रक्षसः । आर्ता दीनस्वरा दीनम् प्रत्युवाच ततः शनैः ॥१॥
एकविंशः सर्गः 5.21
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
दुःखार्ता रुदती सीता वेपमाना तपस्विनी । चिन्तयन्ती वरारोह पतिमेव पतिव्रता ॥२॥
तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता । निवर्तय मनो मत्तः स्वजने क्रियतां मनः ॥३॥
न मां प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत् । अकार्यम् न मया कार्यमेकपत्न्या विगर्हितम् ॥४॥
कुलम् सम्प्राप्तया पुण्यम् कुले महति जातया । एवमुक्त्वा तु वैदेही रावणम् तम् यशस्विनी ॥५॥
रावणम् पृष्ठतः कृत्वा भूयो वचनम्ब्रवीत् । वाहमौपयिकी भार्या परभार्या सती तव ॥६॥
साधु धर्ममवेक्षस्व साधु साधुव्रतम् चर । यथा तव तथान्येषां दारा रक्ष्या विशाचर ॥७॥
आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् । अतुष्टं स्वेषु दारेषु चपलम् चलितेन्द्रियम् ॥८॥
नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् । इह सन्तो न वा सन्ति सतो वा नानुवर्तसे ॥९॥
तथाहि विपरीता ते बुद्धिराचारवर्जिता । वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः ॥१०॥
राक्षसानामभावाय त्वम् वा न व्रतिपद्यसे । आकृतात्मानमासाद्य राजानमनये रतम् ॥११॥
समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च । तथेयम् त्वाम् समासाद्य लङ्का रत्नौघसम्कुला ॥१२॥
अपराधात्तवैकस्य वचिराद्विनशिष्यति । स्वकृतैर्हन्यमानस्य आवणादीर्घदर्शिनः ॥१३॥
अभिनन्दन्ति भूतानि विनाशे पापकर्मणः । एवं त्वां पापकर्माणम् वक्ष्यन्ति निकृता जनाः ॥१४॥
दिष्ट्यैतद् व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः । शक्या लोभयितुं नाहमैश्वर्येण धनेन वा ॥१५॥
अनन्या राघवेणाहं भास्करेण प्रभा यथा । उपधाय भुजम् तस्य लोकनाथस्य सत्कृतम् ॥१६॥
कथम् नामोपधास्यामि भुजमन्यस्य कस्य चित् । अहमौपयीकी भार्या तस्यैव वसुधापतेः ॥१७॥
व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः । साधु रावण रामेण मां समानय दुःखिताम् ॥१८॥
वने वाशितया सार्थम् करेण्वेव गजाधिपम् । मित्रमौपयिकम् कर्तुम् रामः स्थानम् परीप्सता ॥१९॥
वधम् चानिच्छता घोरं त्वयासौ पुरुषर्षभः । विदितः स हि धर्मज्ञः शरणागतवत्सलः ॥२०॥
तेन मैत्री भवतु ते यदि जीवितुमिच्चसि । प्रसादयस्व त्वं चनं शरणागतवत्सलम् ॥२१॥
मां चास्मै नियतो भूत्वा निर्यातयितुमर्हसि । एवम् हि ते भवेत्स्वस्ति सम्प्रदाय रघूत्तमे ॥२२॥
अन्यथा त्वम् हि कुर्वणो वधम् प्राप्स्यसि रावण । वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम् ॥२३॥
त्वद्विधम् तु न स क्रुद्धो लोकनाथः स राघवः । रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् ॥२४॥
शतक्रतुविसृष्टस्य निर्घोषमशनेरिव । इह शीग्रं सुपर्वाणो ज्वलितास्य इवोरगाः ॥२५॥
इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः । रक्षांसि परिनिघ्नस्तः पुर्यामस्यां समन्ततः ॥२६॥
असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः । राक्षसेन्द्रमहासर्पान् स रामगरुडो महान् ॥२७॥
उद्धरिष्यति वेगेन वैनतेय इवोरगान् । अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः ॥२८॥
असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः । जनस्थाने हतस्थाने निहते रक्षसां बले ॥२९॥
अशक्तेन त्वया रक्षः कृतमेतदसाधु वै । अश्रमम् तु तयोः शून्यं प्रविश्य नरसिम्हयोः ॥३०॥
गोचरं गतयोर्र्भात्रोरपनीता त्वयाधम । न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया ॥३१॥
शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव । तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् ॥३२॥
वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य विग्रहे । क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह ॥३३॥
तोयमल्पमिवादित्यः प्रानानादास्यते शरैः । गिरिं कुबेरस्य गतोऽथवालयम् । सभां गतो वा वरुणस्य राज्ञः । असंशयं दाशरथेर्न मोक्ष्यसे । महाद्रुमः कालहतोऽशनेरिव ॥३४॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे एकविंशः सर्गः ॥