सीताय वचनं श्रुत्वा परुषं राक्षसेश्वरः । प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनम् ॥१॥
द्वाविंशः सर्गः 5.22
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा । यथा यथा प्रियम् वक्ता परिभूतस्तथा तथा ॥२॥
संनियच्चति मे क्रोधं त्वयि कामः समुत्थितः । द्रवतोऽमार्गमासाद्य हयानिव सुसारथिः ॥३॥
वामः कामो मनुष्याणाम् यस्मिन् किल निबध्यते । जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ॥४॥
एतस्मात्कारणान्न त्वां घातयामि वरानने । वधार्हमवमानार्हां मिथ्याप्रव्रजिते रताम् ॥५॥
परुषाणीह वाक्यानि यानि यानि ब्रवीषि माम् । तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः ॥६॥
एकमुक्त्वा तु विअदेशीं रावणो राक्षसाधिपः । क्रोधसंरम्भसम्युक्तः सीतामुत्तरमब्रवीत् ॥७॥
द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः । ततः शयनमारोह मम त्वं वरवर्णिनि ॥८॥
ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारम् मामनिच्चतीम् । मम त्वां प्रातराशार्थमालभन्ते महानसे ॥९॥
तां तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम् । देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः ॥१०॥
औष्ठप्रकारैरपरा वक्त्रनेत्रैस्तथापराः । सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ॥११॥
ताभिराश्वासिता सीता रावणम् राक्षसाधिपम् । उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् ॥१२॥
नूनम् न ते जनः कश्चिदस्ति निःश्रेयसे स्थितः । निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् ॥१३॥
मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः । त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः ॥१४॥
राक्षसाधम रामस्य भार्याममिततेजसः । उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे ॥१५॥
यथा दृप्तश्च मातङ्गः शशश्च सहितौ वने । तथा द्विरदवद्रामस्त्वं नीच शशवत् स्मृतः ॥१६॥
स त्वमिक्ष्वाकुनाथम् वै क्षिपन्निह न लज्जसे । चक्षुषोर्विषयम् तस्य न तावदुपगच्छसि ॥१७॥
इवे ते नयने क्रूते विरूपे कृष्णपिङ्गले । क्षितौ न पतिते कस्मान्मामनार्य निरीक्षतः ॥१८॥
तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च । कथं व्याहरतो मां ते न जिह्वा व्यवशीर्यते ॥१९॥
असंदेशात्तु रामस्य तपसश्चामपालनात् । न त्वां कुर्मि दशग्रीव भस्म भर्मार्ह तेजसा ॥२०॥
नापहर्तुमहं शक्या त्वया रामस्य धीमतः । विधिस्तव वधार्थाय विहितो नात्र संशयः ॥२१॥
शूरेण धनदभ्रात्रा बलैः समुदितेन च । अपिह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम् ॥२२॥
सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः । विनृत्य नयने क्रूरे जानकीमन्ववैक्षत ॥२३॥
नीलजीमूतसम्काशो महाभुजशिरोधरः । सिंहसत्त्वगतिः श्रीमान् दीप्त जिह्वग्रलोचनः ॥२४॥
चलाग्रमकुटप्रांशुश्चित्रमाल्यानुलेपनः । रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः ॥२५॥
श्रोणिसूत्रेण महता मेचकेन सुसम्वृतः । अमृतोत्पादनद्धेन भुजगेनेव मन्दरः ॥२६॥
ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः । शुशुभेऽचलसंकाशः शृङ्गाभ्यामिव मन्दरः ॥२७॥
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः । रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ॥२८॥
स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान् । श्मशानचैत्यप्रतिमो भूषितोऽपि भयम्करः ॥२९॥
अवेक्षमाणो वैदेहीं कोपसम्रक्तलोचनः । उवाच रावणः सीतां भुजङ्ग इव निःश्वसन् ॥३०॥
अनयेनाभिसम्पन्नमर्थहीनमनुव्रते । नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा ॥३१॥
इत्युक्त्वा मैथिलीम् राजा रावणः शत्रुरावणः । संदिदेश ततः सर्वा राक्षसीर्गोरदर्शनाः ॥३२॥
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा । गोकर्णीं हस्तिकर्णीम् च लम्बकर्णीमकर्णिकाम् ॥३३॥
हस्तिपाद्यश्वपाद्यौ च गोपादीं पादचूळिकाम् । एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ॥३४॥
अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् । अतिमात्रास्यनेत्राम् च दीर्घजिह्वमजिह्विकाम् ॥३५॥
अनासिकां सिम्हमुखीं गोमुखीम् सूकरीमुखीम् । यथा मद्वशगा सीता क्ष्प्रं भवति जानकी ॥३६॥
तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च । प्रतिलोमानुलोमैश्च सामदानादिभेदनैः ॥३७॥
अवर्जयत वैदेहीं दण्डस्योद्यमनेन च । इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः ॥३८॥
काममन्युपरीतात्मा जानकीं पर्यतर्जयत् । उपगम्य ततः शीघ्रं राक्षसी धान्यमालिनी ॥३९॥
परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् । मया क्रीड महाराज सीतया किं तवानया ॥४०॥
विवर्णया कृपणया मानुष्या राक्षसेश्वर । नूनमस्या महाराज न दिव्यान् भोगसत्तमान् ॥४१॥
विदधात्यमरश्रेष्ठस्तव बाहुबलार्जितान् । अकामां कामयानस्य शरीरमुपतप्यते ॥४२॥
इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना । एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली ॥४३॥
प्रहसन्मेघसम्काशो राक्षसः स न्यवर्तत । प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम् ॥४४॥
ज्वलद्भास्करवर्णाभम् प्रविवेश निवेशनम् । देवगन्धर्वकन्याश्च नागकन्याश्च सर्वतः ॥४५॥
परिवार्य दशग्रीवं विविशुस्तं गृहोत्तमम् । स मैथिलीं ध्रम परामवस्थितां । प्रवेपमानां परिभर्स्य रावणः । विहाय सीतां मदनेन मोहितः । स्वमेव वेश्म प्रविवेश भास्वरम् ॥४६॥
इत्यार्षे शीर्मद्रामायणे आदिकाव्ये सुन्दरकाण्डे द्वाविंशः सर्गः ॥