इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः । संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ॥१॥
त्रयोविंशः सर्गः 5.23
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
निष्क्रन्ते राक्षसेन्द्र तु पुनरन्तःपुरं गते । राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ॥२॥
ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्चिताः । परं पुरुषया वाचा वैदेहीमिदमब्रवन् ॥३॥
पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः । दशग्रीवस्य भार्यात्वं सीते न बहुमन्यसे ॥४॥
ततस्वएकजटा नाम राक्षसी वाक्यमब्रवीत् । अमन्त्य्र क्रोधताम्राक्षी सीतां करतलोदरीम् ॥५॥
प्रजापतीनाम् षण्णं तु चतुर्थो यः प्रजापतिः । मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ॥६॥
पुलस्त्यस्य तु तेजस्वी महार्षिर्मानसः सुतः । नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ॥७॥
तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः । तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ॥८॥
मयोक्तं चारुसर्वाङ्गि वाक्यम् किं नाममन्यसे । ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् ॥९॥
विवर्त्य नयने कोपान्मार्जारसदृशेक्षणा । येन देवास्त्रायस्त्रिंशद्देवराजश्च निर्जताः ॥१०॥
तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि । ततस्तु प्रघसा नाम राक्षसी क्रोधमूर्छिता ॥११॥
भर्त्सयनी तदा घोरमिदं वचनमब्रवीत् । वीर्योत्सिक्तस्य शूरस्य सम्ग्रामे न निवर्तिनः ॥१२॥
बलिनो वीर्ययुक्तस्य भार्यात्वम् किं न लप्स्यसे । प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः ॥१३॥
सर्वासां च महाभागां त्वामुपैष्यति रावणः । समृद्धम् स्त्रीसहस्रेण नानारत्नोपशोभितम् ॥१४॥
अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः । अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत् ॥१५॥
असकृद्देवता युद्धे नागगन्धर्वदानवाः । निर्जिताः समरे येन सते पार्श्वमुपागतः ॥१६॥
तस्य सर्वसमृद्धस्य रावणस्य महात्मनः । किमद्य राक्षसेन्द्रस्य भार्यात्वं नेच्छऽधमे ॥१७॥
ततस्तु दुर्मुखी नाम राक्षसी वाक्यमब्रवीत् । यस्य सूर्यो न तपति भीतो यस्य च मारुतः ॥१८॥
न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि । पुष्टवृष्टं च तरवो मुमुचुर्यस्य वै भयात् ॥१९॥
शैलाश्च सुभ्रु पानीयम् जलदाश्च यदेच्छति । तस्य नैरृतराजस्य राजराजस्य भामिनि ॥२०॥
किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि । साधु ते तत्त्वतो देवि कथितं साधु भामिनि ॥२१॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे त्रयोविंशः सर्गः ॥