रामायणम्

चतुर्विंशः सर्गः 5.24

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः सीतामुपागम्य राक्षस्यो विकृताननाः । परुषं परुषा नार्य ऊचुस्तां वाक्यमप्रियम् ॥१॥

किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे । महार्हशयनोपेते न वासमनुमन्यसे ॥२॥

मानुषी मानुषस्यैव भार्यात्वं बहुमन्यसे । प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि ॥३॥

त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम् । भर्तारमुपसंगम्य विहरस्व यथासुखम् ॥४॥

मानुषी मानुषं तं तु राममिच्छसि शोभने । राज्याद्भ्राष्टमसिद्धार्थं विक्लबं त्वमनिन्दिते ॥५॥

राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा । नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥६॥

यदिदम् लोकविद्विष्टमुदाहरथ संगताः । नैतन्मनसि वाक्यं मे किल्बिषं प्रतिभाति वः ॥७॥

न मानुषी राक्षसस्य भार्या भवितुमर्हति । कामं खादत मां सर्वा न करिष्यामि वो वचः ॥८॥

दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः । तं नित्यमनुरक्तास्मि यथा सूर्यं सुवर्चला ॥९॥

यथा शची महाभागा शक्रं समुपतिष्ठति । अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा ॥१०॥

लोपामुद्रा यथागस्त्यं सुकन्याच्यवनं यथा । सावित्री सत्यवन्तं च कपिलं श्रीमती यथा ॥११॥

सौदासं मदयन्तीव केशिनी सगरं यथा । नैषधं दमयन्तीव भैमी पतिमनुव्रता ॥१२॥

तथाहमिक्ष्वाकुवरं रामं पतिमनुव्रता । सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्चिताः ॥१३॥

भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः । अवलीनः स निर्वाक्यो हनुमान् शिंशुपाद्रुमे ॥१४॥

सीतां संतर्जयन्तीस्ता राक्ससीरशृणोत् कपिः । तामभिक्रम्य संक्रुद्दा वेपमानां समन्ततः ॥१५॥

भृशं संलिलिहुर्दीप्तान् प्रलब्मन् दशनच्छदान् । ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् ॥१६॥

नेयमर्हति भर्तारं रावणं राक्षसाधिपम् । सा भर्तस्यमाना भीमाभी राक्षसीभिर्वरानना ॥१७॥

सबाष्पमपसर्पन्ती शिंशुपां तामुपागमत् । ततस्तां शिंशुपां सीता राक्षसीभिः समावृता ॥१८॥

अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता । तां कृशां दीनवदनां मलिनाम्बरधारिणीम् ॥१९॥

भर्त्सयांचक्रिरे सीतां राक्षस्यस्ताम् समन्ततः । ततस्तां विनता नाम राक्षसी भीमदर्शना ॥२०॥

अब्रवीत्कुपिताकारा कराळा निर्णतोदरी । सीते पर्याप्तमेतावद्भर्तुः स्नेहो निदर्शितः ॥२१॥

सर्वात्रातिकृतं भद्रे व्यसनायोपकल्पते । परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः ॥२२॥

ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि । रावणं भ्ज भर्तारं भर्तारं सर्वरक्षसाम् ॥२३॥

विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् । दक्षिणं त्यागशीलं च सर्वस्य प्रियदर्शनम् ॥२४॥

मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय । दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ॥२५॥

अद्यप्रभृति सर्वेषां लोकनामीश्वरी भव । अग्नेः स्वाहा यथा देवी शिची वेन्द्रस्य शोभने ॥२६॥

किं ते रामेण वैदेहि कृपणेन गतायिषा । एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यपि ॥२७॥

अस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् । अन्या तु विकटा नाम लबमानपयोधरा ॥२८॥

अब्रवीत्कुपिता सीतां मुष्टिमुद्यम्य गर्जती । बहून्य्प्रियरूपाणि वचनानि सुदुर्मते ॥२९॥

अनुक्रोशान्मऋदुत्वाच्च सोढानि तव मैथिलि । न च नः कुरुषे वाक्यं हितं कालपुरुस्कृतम् ॥३०॥

अनीतासि समुद्रस्य पारमन्यैर्दुरासदम् । रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि ॥३१॥

रावणस्य गृहे रुद्धामस्माभिस्तु सुरक्षिताम् । न त्वां शक्तः परित्रातुमपि साक्षात्पुरन्दरः ॥३२॥

कुरुष्व हितवादिन्या वचनं मम मैथिलि । अलमश्रुप्रपातेन त्यज शोकमन्र्थकम् ॥३३॥

भज प्रीतिं च हर्षं च त्यजैतां नित्यदैन्यताम् । सीते राक्षसराजेन सह क्रीड यथासुखम् ॥३४॥

जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् । यावन्न ते व्यतिक्रामेत्तावत्सुखमवाप्नुहि ॥३५॥

उद्यानानि च रम्याणि पर्वतोपवनानि च । सह राक्षसराजेन चर त्वं मदिरेक्षणे ॥३६॥

स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि । रावणं भज भर्तारं भ्र्तारं सर्वरक्षसाम् ॥३७॥

उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि । यदि मे व्याहृतं वाक्यं न यथावत्करिष्यसि ॥३८॥

ततश्चण्डोदरी नाम राक्षसी क्रोधमूर्छिता । भ्रामयन्ती महच्चूलमिदं वचनम्ब्रवीत् ॥३९॥

इमां हरिणलोलाक्षीं त्रासोत्कम्पिपयोधरां । रावणेन हृतां दृष्ट्वा दौहृदो मे महानभूत् ॥४०॥

यकृत्ल्पीहमथोत्पीडं हृदयं च सबन्धनम् । अन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः ॥४१॥

ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् । कण्ठमस्या नृशंसायाः पीडयाम किमास्यते ॥४२॥

निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह । नात्र कश्चन संदेहः खादतेति स वक्ष्यति ॥४३॥

ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् । विशस्येमां ततः सर्वाः समान् कुरुत पीलुकान् ॥४४॥

विभजाम ततः सर्वा विवादो मे न रोचते । पेयमानीयतां क्षिप्रं लेह्यमुच्चावचं बहु ॥४५॥

ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् । अजामुख्या यदुक्तं हि तदेव मम रोचते ॥४६॥

सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी । मानुषं मां समास्वाद्य नृत्यामोथ निकुम्भिलाम् ॥४७॥

एवं संभर्त्स्यमाना सा सीता सुरसुतोपमा । राक्षसीभिः सुघोराभिर्धैर्यमुत्सृज्य रोदिति ॥४८॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे चतुर्विंशः सर्गः ॥

Listen to the sarga
0:00