अथ तासां वदन्तीनां परुषं दारुणं बहु । राक्षसीनामसौम्यानां रुरोद जनकात्मजा ॥१॥
पञ्चविंशः सर्गः 5.25
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी । उवाच परमत्रस्ताबाष्पगद्गदया गिरा ॥२॥
न मानुषी राक्षसस्य भार्या भवितुमर्हति । कामं खादत मां सर्वा न करिष्यामि वो वचः ॥३॥
सा राक्षसीमध्यगता सीता सुरसुतोपमा । न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ॥४॥
वेपते स्माधिकं सीता विशन्ती वाङ्गमात्मनः । वने यथा परिभ्रष्टा मृगी कोकैरिवार्दिता ॥५॥
सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् । चिन्तयामास शोकेन भर्तारं भग्नमानसा ॥६॥
सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः । चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति ॥७॥
सा वेपमाना पतिता प्रवाते कदळी यथा । राक्षसीनां भयत्रस्ता विवर्णवदनाभवत् ॥८॥
तस्याः सा दीर्घविपुला वेपन्त्या सीतया तदा । ददृशे कम्पिनी वेणी व्याळीव परिसर्पती ॥९॥
सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना । आर्ता व्यसृजदश्रूणि मैथिली विललाप च ॥१०॥
हा रामेति च दुःखार्ता हा पुनर्लक्ष्मणेति च । हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी ॥११॥
लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः । अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ॥१२॥
यदाहमेवं क्रूराभी राक्षसीभिरिहार्दिता । जीवामि हीना रामेण मुहूर्तमपि दुःखिता ॥१३॥
एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत् । समुद्रमथ्ये नौः पूर्णा वायुवेगैरिवाहता ॥१४॥
भर्तारं तमपश्यन्ती राक्षसीवशमागता । सीदामि खलु शोकेन कूलं तोयहतं यथा ॥१५॥
तं पद्मदळपत्राक्षं सिंहविक्रान्तगामिनम् । धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ॥१६॥
सर्वथा तेन हीनाया रामेण विदितात्मना । तीक्ष्णंविषमिवास्वाद्यदुर्लभं मम जीवितम् ॥१७॥
कीदृशं तु महापापं मया जन्मान्तरे कृतम् । येनेदं प्राप्यते दुःखं मया घोरं सुदारुणं ॥१८॥
जीवितं त्यक्तुंइच्छामि शोकेन महता वृता । राक्षसीभिश्च रक्ष्यन्त्या रामो नासाद्यते मया ॥१९॥
धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् । न शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम् ॥२०॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे पञ्चविंशः सर्गः ॥