प्रसक्ताश्रुमुखी त्वेवं ब्रुवती जनकात्मजा । अधोगतमुखी बाला विलप्तुमुपचक्रमे ॥१॥
षड्विंशः सर्गः 5.26
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती । उपावृत्ता किशोरीव विवेष्टन्ती महीतले ॥२॥
राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा । रावणेन प्रमथ्याहमानीता क्रोशती बलात् ॥३॥
राक्षसीवशमापन्ना भर्त्स्यमाना सुदारुणम् । चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ॥४॥
न हि मे जीविते नार्थो नै वार्थैर्न च भूषणैः । वसन्त्या राक्षसीमध्ये विना रामं महारथम् ॥५॥
अश्मसारमिदं नूनथवाप्यजरामरम् । हृदयं मम येनेदं न दुःखेनावशीर्यते ॥६॥
धिङ्मामनार्यामसतीं याहं तेन विना कृता । मुहूर्तमपि रक्षामि जीवितं पापजीविता ॥७॥
का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना । भर्तारं सागरान्ताया वसुधायाः प्रियंवदम् ॥८॥
भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् । न चाप्यहं चिरं कुःखं सहेयं प्रियवर्जिता ॥९॥
चरणेनापि सव्येन न स्पृशेयं निशाचरम् । रावणं किं पुनरहं कावयेयं विगर्हतम् ॥१०॥
प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् । यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति ॥११॥
चिन्ना भिन्ना विभक्ता वा दीप्तेवाग्नौ प्रदीपिता । रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम् ॥१२॥
ख्यातः प्राज्ञः कृतज्ञ्शश्च राघवः । सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ॥१३॥
राक्षसानां सहस्राणि जनस्थाने चतुर्दश । येनैकेन निरस्तानि स मां किं नाभिपद्यते ॥१४॥
निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा । समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ॥१५॥
विराधो दण्डकारण्ये येन राक्षसपुङ्गवः । रणे रामेण निहतः स मां किं नाभिपद्यते ॥१६॥
कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा । न तु राघवबाणानां गतिरोधो भविष्यति ॥१७॥
किं नु तत्कारणं येन रामो दृढपराक्रमः । रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते ॥१८॥
इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः । जानन्नपि स तेजस्वी धर्षणं मर्षयिष्यति ॥१९॥
हृतेति योऽधिगत्वा मां राघवाय निवेदयेत् । गृध्रारजोऽपि स रणे रावणेन निपातितः ॥२०॥
कृतं कर्म महत्तेन मां तथाभ्यवपद्यता । तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ॥२१॥
यदि मामिह जानीयाद्वर्तमानां स राघवः । अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम् ॥२२॥
विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् । रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ॥२३॥
ततो निहतनाथानां राक्षसीनां गृहे गृहे । यथाहमेवं रुदती तथा भुयो न संशयः ॥२४॥
अन्विष्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः । न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ॥२५॥
चिताधुमाकुलपथा गृध्रमण्डलसंकुला । अचिरेण तु लङ्केयं श्मशानसदृशी भवेत् ॥२६॥
अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम् । दुष्प्रस्थानोऽयमाख्याति सर्वेषाम् वो विपर्ययम् ॥२७॥
यादृशानीह दृशन्ते लङ्कायामशुभानि वै । अचिरेणैव कालेन भविष्यति हतप्रभा ॥२८॥
नूनं लङ्का हते पापे रावणे राक्षसाधमे । शोषं यास्यति दुर्धर्षा प्रमदा विधव यथा ॥२९॥
पुण्योत्सव समृद्धा च नष्टभर्र्ती सराक्षसी । भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना ॥३०॥
नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे । श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् ॥३१॥
सान्धकारा हतद्योता हतराक्षसपुङ्गवा । भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ॥३२॥
यदि नाम स शूरो मां रामो रक्तान्तालोचनः । जानीयद्वर्तमानां हि रावणस्य निवेशने ॥३३॥
अनेन तु नृशंसेन रावणेनाधमेन मे । समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः ॥३४॥
स च मे विहितो मृत्युरस्मिन् दुष्टे न वर्तते । अकार्यं ये न जानन्ति नैरृताः पापकारिणः ॥३५॥
अधर्मात्तु महोत्पातो भविष्यति हि सांप्रतम् । नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः ॥३६॥
ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिस्यति । साहं कथं करिष्यामि तं विना प्रियदर्शनम् ॥३७॥
रामम् रक्तान्तनयनमपश्यन्ती सुकुःखिता । यदि कश्चित् प्रदाता मे विषस्याद्य भवेदिह ॥३८॥
क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना । नाजानाज्जिवतीं रामः स मां लक्ष्मणपूर्वजः ॥३९॥
जानन्तौ तौ न कुर्यातां नोर्य्वां हि मम मार्गणम् । नूनं ममैव शोकेन स नीरो लक्ष्मणाग्रजः ॥४०॥
देवलोकमितो यातस्त्यक्त्वा देहं महीतले । धन्या देवाह् सगन्धर्वाः सिद्धाश्च परमर्षयः ॥४१॥
मम पश्यन्ति ये नाथं रामं राजीवलोचनम् । अथवा न हि तस्यार्थो द्कर्मकामस्य धीमतः ॥४२॥
मया रामस्य राजर्षेर्भार्यया परमात्मनः । दृश्यमाने भवेत्प्रीतिः सौहृदं नास्त्यपश्यतः ॥४३॥
नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति । किं नु मे न गुणाः केचित्किं वा भाग्यक्षयो मम ॥४४॥
याहं सीदामि रामेण हीना मुख्येन भामिनी । श्र्यो हि हीवितान्मर्तुं विहीनाया महात्मनः ॥४५॥
रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् । अथवा न्यस्तशस्त्रौ तौ वने मूलफलाशिनौ ॥४६॥
भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ । अथवा राक्षसेन्द्रेण रावणेन दुरात्मना ॥४७॥
चद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ । साहमेवंगते काले मर्तुमिच्छामि सर्वथा ॥४८॥
न च मे विहितो मृत्युरस्मिन् दुःखेऽपि वर्तते । धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः ॥४९॥
जितात्मनो महाभागा येषां न स्तः प्रियाप्रिये । प्रियान्न संभवेद्दुःखमप्रियादधिकं भयम् ॥५०॥
ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् । साहंत्युक्ता प्रियेणैव रामेन विदितात्मना ॥५१॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे षड्विंशः सर्गः ॥