रामायणम्

सप्तविंशः सर्गः 5.27

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

इत्युक्ताह् सीतया घोरं राक्षस्यः क्रोधमूर्छिताः । काश्चिज्जग्मुस्तदाख्यातुं रावणस्य दुरात्मनः ॥१॥

ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः । पुनः पुरुषमेकार्थमनर्थार्थमथाब्रुवन् ॥२॥

अद्येदानीं तवानार्ये सीते पापविनिश्चये । राक्षस्यो भक्षयिष्यन्ति मांसमेतद्यथासुखम् ॥३॥

सीतां ताभिरनार्याभिर्दृष्ट्वा संतर्जितां तदा । राक्षसी त्रिजटा वृद्धा शयाना वाक्यमब्रवीत् ॥४॥

आत्मानं खादतानार्या न सीतां भक्षयिष्यथ । जनकस्य सुतामिष्टां सुन्नषां दशरथस्य च ॥५॥

स्वप्नो ह्यद्य मया दृष्टो दारुनो रोमहर्षणः । राक्षसानामभावाय भर्तुरस्या भवाय च ॥६॥

एवमुक्टास्त्रिजटया राक्षस्यः क्रोधमूर्छिताः । सर्वा एवाब्रुवन्भीतास्त्रिजटां तामिदं वचः ॥७॥

कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि । तासां श्रुत्वा तु वचनं राक्षसीनां मुखाच्य्चुतम् ॥८॥

उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम् । गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् ॥९॥

युक्तां हंससह्रेण स्वयमास्थाय राघवः । शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः ॥१०॥

स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता । सागरेण परिक्षिप्तं स्वेतं पर्वतमास्थिता ॥११॥

रामेण संगता सीता भास्करेण प्रभा यथा । राघवश्च मया दृष्टश्च तुर्दंष्ट्रं महागजम् ॥१२॥

ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा ॥१३॥

शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ । ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः ॥१४॥

भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता । भर्तुरङ्कात्समुत्पत्य ततः कमललोचना ॥१५॥

चन्द्रसूर्यौ मया दृष्टा पाणिना परिमार्जती । ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः ॥१६॥

सीतया च विशालाक्ष्या लङ्काया उपरिस्थितः पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् ॥१७॥

इहोपयातः काकुथ्सः सीतया सह भार्य या । लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान् ॥१८॥

आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् । उत्तरां दिशमालोक्य जगाम पुरुष्त्तमः ॥१९॥

एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः । लक्ष्मणेन सह भ्रात्रा सीतया सह राघवः ॥२०॥

न हि रामो महातेजाः शोक्यो जेतुं सुरासुरैः । राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव ॥२१॥

रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः । रक्तवासाह् पिबन् मत्तः करवीरकृतस्रजः ॥२२॥

विमानात्पुष्पकादद्य रावणः पतितो भुवि । कृष्यमाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः ॥२३॥

रथेन खरयुक्तेन रक्तमाल्यानुलेपनः । पिबंस्तैलं हसन्नृतन् भ्रान्तचित्ताकुलेन्द्रियः ॥२४॥

गर्दभेन ययौ शीग्रं दक्षिणां दिशमास्थितः । पुनरेव मया दृष्टो रावणो राक्षसेश्वरः ॥२५॥

पतितोऽवाक्छिरा भूमौ गर्दभाद्भयमोहितः । सहसोत्थाय संभ्रान्तो भयार्तो मदविह्वलः ॥२६॥

उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन् बहु । दुर्गन्धं दुस्सहं घोरं तिमिरं नरकोपमम् ॥२७॥

मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः । कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी ॥२८॥

काळी कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति । एवं तत्र मया दृष्टह् कुम्भकर्णो निशाचरः ॥२९॥

रावणस्य सुताः सर्वे दृष्टास्तैलसमुक्षिताः । वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् ॥३०॥

उष्ट्रेण कुम्भकर्णश्च प्रयाता दक्षिणां दिशम् । एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीसणः ॥३१॥

शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः । शङ्खदुन्दुभिनिर्घोषैर्नृत्तगीतैरलङ्कृतः ॥३२॥

आरुह्य शैलसंकाशं मेघस्तनितनिस्वनम् । चतुर्धन्तं गजं दिव्यमास्ते तत्र विभीषणः ॥३३॥

चतुर्भिः सचिवैः सार्धं वहायसमुपस्थितः । समाजश्च मया दृष्टो गीतवादित्रनिःस्वनः ॥३४॥

पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् । लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जरा ॥३५॥

सागरे पतिता दृष्टा भग्नगोपुरतोरणा । लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता ॥३६॥

दग्धा रामस्य दूतेन वानरेण तरस्विना । सीत्वा तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः ॥३७॥

लङ्कायाण् भस्मरूक्षायां सर्वा राक्षसयोषितः । कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः ॥३८॥

रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे । अपगच्छत नश्यध्वं सीतामाप्नोति राघवः ॥३९॥

घातयेत्परमामर्षी युष्मान् सार्धं हि राक्षनैः । प्रियां बहुमतां भार्यां वनवासमनुव्रताम् ॥४०॥

भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः । तदलं क्रूरवाक्यैश्च सान्त्वमेवाभिधीयताम् ॥४१॥

अभियाचाम वैदेहीमेतद्धि मम रोचते । यस्यामेवंविधः स्वप्नो दुःखितायां प्रदृश्यते ॥४२॥

सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् । भर्त्सितामपि याचध्वं राक्सस्यः किं विवक्षया ॥४३॥

राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् । प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ॥४४॥

अलमेषा परित्रारुं राक्षस्यो महातो भयात् । अपि चास्या विशालाक्ष्या न किंचिदुपलक्षये ॥४५॥

विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षणम् । चायावैगुण्यमात्रं तु शङ्के दुःखमुपस्थितम् ॥४६॥

अदुःखार्हमिमां देवीं वैहायसमुपस्थिताम् । अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम् ॥४७॥

राक्षसेन्द्रविनाशं च विजयं राघवस्य च । निमित्तभूतमेतत्तु श्रोतुमस्या महत्प्रियम् ॥४८॥

दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् । ईषच्च हृषितो वास्या दक्षिणाया ह्यदक्षिणः ॥४९॥

अकस्मादेव वैदेह्या बहुरेकः प्रकम्पते । करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः ॥५०॥

वेपमानः सूचयति राघवं पुरतः स्थितम् । पक्षी च शाखानिलयं प्रविष्टः । पुनः पुनश्चोत्तमसान्त्ववादी । सुस्वागतं वाचमुदीरयानः । पुनः पुनश्चोदयतीव हृष्टः ॥५१॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे सप्तविंशः सर्गः ॥

Listen to the sarga
0:00