रामायणम्

अष्टाविंशः सर्गः 5.28

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

सा राक्षसेन्द्रस्य वचो निशम्य । तद्रावणस्याप्रियमप्रियार्ता । सीता वितत्रास यथा वनान्ते । सिंहाभिपन्ना गजराजकन्या ॥१॥

सा राक्षसीमध्यगता च भीरु । र्वाग्भिर्भृशं रावणतर्जिता च । कान्तारमध्ये विजने विसृष्टा । बालेव कन्या विललाप सीता ॥२॥

सत्यं बतेदं प्रवदन्ति लोके । नाकालमृत्युर्भवतीति सन्तः । यत्राहमेवं परिभर्त्स्यमाना । जीवामि दीना क्षणमप्यपुण्या ॥३॥

सुखाद्विहीनं बहुदुःखपूर्ण । मिदं तु नूनं हृदयं स्थिरं मे । विशीर्यते यन्न सहस्रधाद्य । वज्राहतं शृङ्गमिवाचलस्य ॥४॥

वैवास्ति दोषो मम नूनमत्र । वध्याहमस्याप्रियदर्शनस्य । भावं न चास्याहमनुप्रदातु । मलं द्विजो मन्त्रमिवाद्विजाय ॥५॥

नूनं ममाङ्गान्यचिरादनार्यः । शस्त्रैः शितै श्छेत्स्यति राक्षसेन्द्रः । तस्मिन्ननागच्छति लोकनाथे । गर्भस्थजन्तोरिव शल्यकृन्तः ॥६॥

5.28.6 #7386955b3814 timing uncertain

दुःखं बतेदं मम दुःखिताया । मासौ चिरायाधिगमिष्यतो द्वौ । बद्धस्य वध्यस्य तथा निशान्ते । राजापराधादिव तस्करस्य ॥७॥

हा राम हा लक्ष्मण हा सुमित्रे । हा राममातः सह मे जनन्या । एषा विपद्याम्यहमल्पभाग्या । महार्णवे नौरिव मूढवाता ॥८॥

तरस्विनौ धारयता मृगस्य । सत्त्वेन रूपं मनुजेन्द्रपुत्रौ । नूनं विशस्तौ मम कारणात्तौ । सिंहर्षभौ द्वाविव वैद्युतेन ॥९॥

नूनं स कालो मृगरूपधारी । मामल्पभाग्यां लुलुभे तदानीम् । यत्रार्यपुत्रं विससर्ज मूढा । रामानुजं लक्ष्मणपूर्वजं च ॥१०॥

हा राम सत्यव्रत दीर्घबाहो । हा पूर्णचन्द्रप्रतिमानवक्त्र । हा जीवलोकस्य हितः प्रियश्च । वध्यां न मां वेत्सि हि राक्षसानाम् ॥११॥

अनन्यदैवत्वमियं क्षमा च । भूमौ च शय्या नियमश्च धर्मे । पतिव्रतात्वं विफलं ममेदम् । कृतं कृतघ्नेष्विव मानुषाणाम् ॥१२॥

मोघो हि धर्मश्चरितो मयायं । तथैकपत्नीत्वमिदं निरर्थम् । या त्वां न पश्यामि कृशा विवर्णा । हीना त्वया संगमने निराशा ॥१३॥

पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च । स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं रंस्यसे वीतभयः कृतार्थः ॥१४॥

अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा । मोघं चरित्वाथ तपो व्रतञ्च त्यक्ष्यामि धिग्जीवितमल्पभाग्याम् ॥१५॥

सा जीवितं क्षिप्रमहं त्यजेयं । विषेण शस्त्रेण शितेन वापि । विषस्य दाता न हि मेऽस्ति कश्चि । च्छस्त्रस्य वा वेश्मनि राक्षसस्य ॥१६॥

इतीव देवी बहुधा विलप्य । सर्वात्मना राममनुस्मरन्ती । प्रवेपमाना परिशुष्कवक्त्रा । नगोत्तमं पुष्पितमाससाद ॥१७॥

5.28.17 #5757fd5b9941 timing uncertain

सा शोकतप्ता बहुधा विचिन्त्य । सीताथ वेण्युद्ग्रथनं गृहीत्वा । उद्भुध्य वेण्युद्ग्रथनेन श्रीघ्र । महं गमिष्यामि यमस्य मूलम् ॥१८॥

उपस्थिता सा मृदुसर्वगात्री । शाखां गृहीत्वाथ नगस्य तस्य । तस्यास्तु रामं प्रविचिन्तयन्त्या । रामानुजं स्वं च कुलं शुभाङ्ग्याः ॥१९॥

शोकानिमित्तानि तथा बहूनि । धैर्यार्जितानि प्रवराणि लोके । प्रादुर्निमित्तानि तदा बभूवुः । पुरापि सिद्धान्युपलक्षितानि ॥२०॥

इत्यार्ष्ते श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे अष्टाविंशः सर्गः ॥

Listen to the sarga
0:00