रामायणम्

एकोनत्रिंशः सर्गः 5.29

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तथा गताम् ताम् व्यथिताम् अनिन्दिताम् । व्यपेत हर्षाम् परिदीन मानसाम् । शुभाम् निमित्तानि शुभानि भेजिरे । नरम् श्रिया जुष्टम् इव उपजीविनः ॥१॥

तस्याः शुभम् वामम् अराल पक्ष्म । राजी वृतम् कृष्ण विशाल शुक्लम् । प्रास्पन्दत एकम् नयनम् सुकेश्या । मीन आहतम् पद्मम् इव अभिताम्रम् ॥२॥

भुजः च चार्व् अन्चित पीन वृत्तः । पर अर्ध्य काल अगुरु चन्दन अर्हः । अनुत्तमेन अध्युषितः प्रियेण । चिरेण वामः समवेपत आशु ॥३॥

गज इन्द्र हस्त प्रतिमः च पीनः । तयोः द्वयोः सम्हतयोः सुजातः । प्रस्पन्दमानः पुनः ऊरुः अस्या । रामम् पुरस्तात् स्थितम् आचचक्षे ॥४॥

शुभम् पुनः हेम समान वर्णम् । ईषत् रजो ध्वस्तम् इव अमल अक्ष्याः । वासः स्थितायाः शिखर अग्र दन्त्याः । किंचित् परिस्रंसत चारु गात्र्याः ॥५॥

एतैः निमित्तैः अपरैः च सुभ्रूः । सम्बोधिता प्राग् अपि साधु सिद्धैः । वात आतप क्लान्तम् इव प्रनष्टम् । वर्षेण बीजम् प्रतिसम्जहर्ष ॥६॥

तस्याः पुनः बिम्ब फल उपम ओष्ठम् । स्वक्षि भ्रु केश अन्तम् अराल पक्ष्म । वक्त्रम् बभासे सित शुक्ल दम्ष्ट्रम् । राहोः मुखाच् चन्द्र इव प्रमुक्तः ॥७॥

सा वीत शोका व्यपनीत तन्द्री । शान्त ज्वरा हर्ष विबुद्ध सत्त्वा । अशोभत आर्या वदनेन शुक्ले । शीत अन्शुना रात्रिः इव उदितेन ॥८॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे एकोनत्रिंशः सर्गः ॥

Listen to the sarga
0:00