रामायणम्

त्रिंशः सर्गः 5.30

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

हनुमान् अपि विक्रान्तः सर्वम् शुश्राव तत्त्वतः । सीतायाः त्रिजटायाः च राक्षसीनाम् च तर्जनम् ॥१॥

अवेक्षमाणः ताम् देवीम् देवताम् इव नन्दने । ततो बहु विधाम् चिन्ताम् चिन्तयामास वानरः ॥२॥

याम् कपीनाम् सहस्राणि सुबहूनि अयुतानि च । दिक्षु सर्वासु मार्गन्ते सा इयम् आसादिता मया ॥३॥

चारेण तु सुयुक्तेन शत्रोः शक्तिम् अवेक्षिता । गूढेन चरता तावत् अवेक्षितम् इदम् मया ॥४॥

राक्षसानाम् विशेषः च पुरी च इयम् अवेक्षिता । राक्षस अधिपतेः अस्य प्रभावो रावणस्य च ॥५॥

युक्तम् तस्य अप्रमेयस्य सर्व सत्त्व दयावतः । समाश्वासयितुम् भार्याम् पतिदर्शन कान्क्षिणीम् ॥६॥

अहम् आश्वासयामि एनाम् पूर्ण चन्द्र निभ आननाम् । अदृष्ट दुह्खाम् दुह्खस्य न हि अन्तम् अधिगच्छतीम् ॥७॥

यदि हि अहम् इमाम् देवीम् शोक उपहत चेतनाम् । अनाश्वास्य गमिष्यामि दोषवत् गमनम् भवेत् ॥८॥

गते हि मयि तत्र इयम् राज पुत्री यशस्विनी । परित्राणम् अविन्दन्ती जानकी जीवितम् त्यजेत् ॥९॥

मया च स महाबाहुः पूर्ण चन्द्र निभ आननः । समाश्वासयितुम् न्याय्यः सीता दर्शन लालसः ॥१०॥

निशा चरीणाम् प्रत्यक्षम् अक्षमम् च अभिभाषणम् । कथम् नु खलु कर्तव्यम् इदम् कृच्छ्र गतो हि अहम् ॥११॥

अनेन रात्रि शेषेण यदि न आश्वास्यते मया । सर्वथा न अस्ति संदेहः परित्यक्ष्यति जीवितम् ॥१२॥

रामः च यदि पृच्छेन् माम् किम् माम् सीता अब्रवीत् वचः । किम् अहम् तम् प्रतिब्रूयाम् असम्भाष्य सुमध्यमाम् ॥१३॥

सीता संदेश रहितम् माम् इतः त्वरया गतम् । निर्दहेत् अपि काकुत्स्थः क्रुद्धः तीव्रेण चक्षुषा ॥१४॥

यदि चेत् योजयिष्यामि भर्तारम् राम कारणात् । व्यर्थम् आगमनम् तस्य ससैन्यस्य भविष्यति ॥१५॥

अन्तरम् तु अहम् आसाद्य राक्षसीनाम् इह स्थितः । शनैः आश्वासयिष्यामि सम्ताप बहुलाम् इमाम् ॥१६॥

अहम् हि अतितनुः चैव वनरः च विशेषतः । वाचम् च उदाहरिष्यामि मानुषीम् इह संस्कृताम् ॥१७॥

यदि वाचम् प्रदास्यामि द्विजातिः इव संस्कृताम् । रावणम् मन्यमाना माम् सीता भीता भविष्यति ॥१८॥

वानरस्य विशेषेण कथं स्यादभिभाषणम्म् । अवश्यम् एव वक्तव्यम् मानुषम् वाक्यम् अर्थवत् ॥१९॥

मया सान्त्वयितुम् शक्या न अन्यथा इयम् अनिन्दिता । सा इयम् आलोक्य मे रूपम् जानकी भाषितम् तथा ॥२०॥

रक्षोभिः त्रासिता पूर्वम् भूयः त्रासम् गमिष्यति । ततो जात परित्रासा शब्दम् कुर्यान् मनस्विनी ॥२१॥

जानमाना विशाल अक्षी रावणम् काम रूपिणम् । सीतया च कृते शब्दे सहसा राक्षसी गणः ॥२२॥

नाना प्रहरणो घोरः समेयात् अन्तक उपमः । ततो माम् सम्परिक्षिप्य सर्वतो विकृत आननाः ॥२३॥

वधे च ग्रहणे चैव कुर्युः यत्नम् यथा बलम् । गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् ॥२४॥

दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः । मम रूपम् च सम्प्रेक्ष्य वनम् विचरतो महत् ॥२५॥

राक्षस्यो भय वित्रस्ता भवेयुः विकृत आननाः । ततः कुर्युः समाह्वानम् राक्षस्यो रक्षसाम् अपि ॥२६॥

राक्षस इन्द्र नियुक्तानाम् राक्षस इन्द्र निवेशने । ते शूल शर निस्त्रिंश विविध आयुध पाणयः ॥२७॥

आपतेयुः विमर्दे अस्मिन् वेगेन उद्विग्न कारिणः । सम्क्रुद्धः तैः तु परितो विधमन् रक्षसाम् बलम् ॥२८॥

शक्नुयम् न तु सम्प्राप्तुम् परम् पारम् महाउदधेः । माम् वा गृह्णीयुः आप्लुत्य बहवः शीघ्र कारिणः ॥२९॥

स्यात् इयम् च अगृहीत अर्था मम च ग्रहणम् भवेत् । हिंसा अभिरुचयो हिंस्युः इमाम् वा जनक आत्मजाम् ॥३०॥

विपन्नम् स्यात् ततः कार्यम् राम सुग्रीवयोः इदम् । उद्देशे नष्ट मार्गे अस्मिन् राक्षसैः परिवारिते ॥३१॥

सागरेण परिक्षिप्ते गुप्ते वसति जानकी । विशस्ते वा गृहीते वा रक्षोभिः मयि सम्युगे ॥३२॥

न अन्यम् पश्यामि रामस्य सहायम् कार्य साधने । विमृशन् च न पश्यामि यो हते मयि वानरः ॥३३॥

शत योजन विस्तीर्णम् लन्घयेत महाउदधिम् । कामम् हन्तुम् समर्थो अस्मि सहस्राणि अपि रक्षसाम् ॥३४॥

न तु शक्ष्यामि सम्प्राप्तुम् परम् पारम् महाउदधेः । असत्यानि च युद्धानि संशयो मे न रोचते ॥३५॥

कः च निह्संशयम् कार्यम् कुर्यात् प्राज्ञः ससंशयम् । एष दोषो महान् हि स्यान् मम सीता अभिभाषणे ॥३६॥

प्राण त्यागः च वैदेह्या भवेत् अनभिभाषणे । भूताः च अर्था विनश्यन्ति देश काल विरोधिताः ॥३७॥

विक्लवम् दूतम् आसाद्य तमः सूर्य उदये यथा । अर्थ अनर्थ अन्तरे बुद्धिः निश्चिता अपि न शोभते ॥३८॥

घातयन्ति हि कार्याणि दूताः पण्डित मानिनः । न विनश्येत् कथम् कार्यम् वैक्लव्यम् न कथम् भवेत् ॥३९॥

लन्घनम् च समुद्रस्य कथम् नु न वृथा भवेत् । कथम् नु खलु वाक्यम् मे शृणुयान् न उद्विजेत च ॥४०॥

इति संचिन्त्य हनुमान् चकार मतिमान् मतिम् । रामम् अक्लिष्ट कर्माणम् स्व बन्धुम् अनुकीर्तयन् ॥४१॥

न एनाम् उद्वेजयिष्यामि तत् बन्धु गत मानसाम् । इक्ष्वाकूणाम् वरिष्ठस्य रामस्य विदित आत्मनः ॥४२॥

शुभानि धर्म युक्तानि वचनानि समर्पयन् । श्रावयिष्यामि सर्वाणि मधुराम् प्रब्रुवन् गिरम् ॥४३॥

श्रद्धास्यति यथा हि इयम् तथा सर्वम् समादधे । इति स बहु विधम् महाअनुभावो । जगति पतेः प्रमदाम् अवेक्षमाणः । मधुरम् अवितथम् जगाद वाक्यम् । द्रुम विटप अन्तरम् आस्थितो ॥४४॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे त्रिंशः सर्गः ॥

Listen to the sarga
0:00