रामायणम्

एकत्रिंशः सर्गः 5.31

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

एवम् बहु विधाम् चिन्ताम् चिन्तयित्व महाकपिः । संश्रवे मधुरम् वाक्यम् वैदेह्या व्याजहार ह ॥१॥

राजा दशरथो नाम रथ कुन्जर वाजिनाम् । पुण्य शीलो महाकीर्तिः ऋजुः आसीन् महायशाः ॥२॥

राजर्षीणां गुणश्रेष्ठस्तपसा चर्षिभिः समः । चक्र वर्ति कुले जातः पुरम् दर समो बले ॥३॥

अहिंसा रतिः अक्षुद्रो घृणी सत्य पराक्रमः । मुख्यः च इक्ष्वाकु वंशस्य लक्ष्मीवाम्ल् लक्ष्मि वर्धनः ॥४॥

पार्थिव व्यञ्जनैः युक्तः पृथु श्रीः पार्थिव ऋषभः । पृथिव्याम् चतुः अन्तयाम् विश्रुतः सुखदः सुखी ॥५॥

तस्य पुत्रः प्रियो ज्येष्ठः तारा अधिप निभ आननः । रामो नाम विशेषज्ञः श्रेष्ठः सर्व धनुष्मताम् ॥६॥

रक्षिता स्वस्य वृत्तस्य स्व जनस्य अपि रक्षिता । रक्षिता जीव लोकस्य धर्मस्य च परम् तपः ॥७॥

तस्य सत्य अभिसंधस्य वृद्धस्य वचनात् पितुः । सभार्यः सह च भ्रात्रा वीरः प्रव्रजितो वनम् ॥८॥

तेन तत्र महाअरण्ये मृगयाम् परिधावता । राक्षसा निहताः शूरा बहवः कामरूपिणः ॥९॥

जन स्थान वधम् श्रुत्वा हतौ च खर दूषणौ । ततः तु अमर्ष अपहृता जानकी रावणेन तु ॥१०॥

वञ्चयित्वा वने रामं मृगरूपेण मायया । स मार्गमाणस्ताम् देवीम् रामः सीतामन्न्दिताम् ॥११॥

आससाद वने मित्रम् सुग्रीवम् नाम वानरम् । ततः स वालिनम् ह्त्वा रामः परपुरम्जयः ॥१२॥

प्रायच्छत्कपिराज्यम् तत्सुग्रीवाय महाबलः । सुग्रीवेणापि संदिष्टा हरयः कामरूपिणः ॥१३॥

दिक्षु सर्वासु ताम् देवीम् विचिन्न्वन्ति सहस्रशः । अहम् सम्पातिवचनाच्छतयोजनमायतम् ॥१४॥

अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान् प्लुतः । यथा रूपाम् यथा वर्णाम् यथा लक्ष्मीम् विनिश्चिताम् ॥१५॥

अश्रौषम् राघवस्य अहम् सा इयम् आसादिता मया । विरराम एवम् उक्त्वा असौ वाचम् वानर पुम्गवः ॥१६॥

जानकी च अपि तत् श्रुत्वा विस्मयम् परमम् गता । ततः सा वक्र केश अन्ता सुकेशी केश सम्वृतम् ॥१७॥

उन्नम्य वदनम् भीरुः शिंशपा वृक्षम् ऐक्षत । निशम्य सीता वचनम् कपेश्च । दिशश्च सर्वाः प्रदिशश्च वीक्ष्य । स्वयम् प्रहर्षं परमं जगाम । सर्वात्मना राममनुस्मरन्ती ॥१८॥

सा तिर्यग् ऊर्ध्वम् च तथा अपि अधस्तान् । निरीक्षमाणा तम् अचिन्त्य बुद्धिम् । ददर्श पिन्ग अधिपतेः अमात्यम् । वात आत्मजम् सूर्यम् इव उदयस्थम् ॥१९॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे एकत्रिंशः सर्गः ॥

Listen to the sarga
0:00