रामायणम्

द्वात्रिंशः सर्गः 5.32

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः शाखा अन्तरे लीनम् दृष्ट्वा चलित मानसा । वेष्टितार्जुनवस्त्रम् तं विद्युत्सम्घातपिङ्गलम् ॥१॥

सा ददर्श कपिम् तत्र प्रश्रितम् प्रिय वादिनम् । पुल्लाशोकोत्कराभासम् तप्तचामिकरेक्षणम् ॥२॥

मैथिली चिन्तयामास स्वप्नो अयम् इति भामिनी । अहो भीममिदं रूपं वानरस्य दुरासदम् ॥३॥

दुर्निरीक्षमिति ज्ञात्वा पुनरेव मुमोह सा । विललाप भृशं सीता करुणम् भयमोहिता ॥४॥

रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी । रुरोद बहुधा सीता मन्दम् मन्दस्वरा सती ॥५॥

सा तम् दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम् । मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी ॥६॥

सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम् । ददर्श पिङ्गप्रवरं महार्हं वातात्मजं बुद्धिमतां वरिष्ठम् ॥७॥

सा तम् समीक्ष्य एव भृशम् विसम्ज्ञा गत असु कल्पा इव बभूव सीता । चिरेण सम्ज्ञाम् प्रतिलभ्य चैव चैव विचिन्तयामास विशाल नेत्रा ॥८॥

स्वप्नो मया अयम् विकृतो अद्य दृष्टः शाखा मृगः शास्त्र गणैः निषिद्धः । स्वस्ति अस्तु रामाय सलक्ष्मणाय तथा पितुः मे जनकस्य राज्ञः ॥९॥

स्वप्नो अपि न अयम् न हि मे अस्ति निद्रा । शोकेन दुह्खेन च पीडितायाः । सुखम् हि मे न अस्ति यतो अस्मि हीना । तेन इन्दु पूर्ण प्रतिम आननेन ॥१०॥

रामेति रामेति सदैव बुद्ध्या विचिन्त्या वाचा ब्रुवती तमेव । तस्यानुरूपं च कथां तदर्था मेवं प्रपश्यामि तथा शृणोमि ॥११॥

अहम् हि तस्य अद्य मनो भवेन सम्पीडिता तत् गत सर्व भावा । विचिन्तयन्ती सततम् तम् एव तथैव पश्यामि तथा शृणोमि ॥१२॥

मनो रथः स्यात् इति चिन्तयामि । तथा अपि बुद्ध्या च वितर्कयामि । किम् कारणम् तस्य हि न अस्ति रूपम् । सुव्यक्त रूपः च वदति अयम् माम् ॥१३॥

नमो अस्तु वाचः पतये सवज्रिणे स्वयम्भुवे चैव हुत अशनाय । अनेन च उक्तम् यत् इदम् मम अग्रतो वन ओकसा तच् च तथा अस्तु न अन्यथा ॥१४॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे द्वात्रिंशः सर्गः ॥

Listen to the sarga
0:00