रामायणम्

त्रयस्त्रिंशः सर्गः 5.33

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

सोऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः । विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ॥१॥

ताम् अब्रवीन् महातेजा हनूमान् मारुत आत्मजः । शिरसि अञ्जलिम् आधाय सीताम् मधुरया गिरा ॥२॥

का नु पद्म पलाश अक्षी क्लिष्ट कौशेय वासिनी । द्रुमस्य शाखाम् आलम्ब्य तिष्ठसि त्वम् अनिन्दिता ॥३॥

किम् अर्थम् तव नेत्राभ्याम् वारि स्रवति शोकजम् । पुण्डरीक पलाशाभ्याम् विप्रकीर्णम् इव उदकम् ॥४॥

सुराणाम् असुराणाम् च नाग गन्धर्व रक्षसाम् । यक्षाणाम् किम्नराणाम् च का त्वम् भवसि शोभने ॥५॥

का त्वम् भवसि रुद्राणाम् मरुताम् वा वर आनने । वसूनाम् वा वर आरोहे देवता प्रतिभासि मे ॥६॥

किम् नु चन्द्रमसा हीना पतिता विबुध आलयात् । रोहिणी ज्योतिषाम् श्रेष्ठा श्रेष्ठा सर्व गुण अन्विता ॥७॥

कोपात् वा यदि वा मोहात् भर्तारम् असित ईक्षणा ॥८॥

वसिष्ठम् कोपयित्वा त्वम् न असि कल्याणि अरुन्धती । को नु पुत्रः पिता भ्रात भर्ता वा ते सुमध्यमे ॥९॥

अस्माल् लोकात् अमुम् लोकम् गतम् त्वम् अनुशोचसि । रोदनादतिनिःश्वासाद्भूमिसंस्पर्शनादपि ॥१०॥

न त्वाम् देवीमहम् मन्ये राज्ञः संज्ञावधारणात् । व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये ॥११॥

महिषी भूमि पालस्य राज कन्या असि मे मता । रावणेन जन स्थानात् बलात् अपहृता यदि ॥१२॥

सीता त्वम् असि भद्रम् ते तन् मम आचक्ष्व पृच्छतः । यथा हि तव वैदैन्यम् रूपम् चाप्यतिमानुषम् ॥१३॥

तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् । सा तस्य वचनम् श्रुत्वा राम कीर्तन हर्षिता ॥१४॥

उवाच वाक्यम् वैदेही हनूमन्तम् द्रुम आश्रितम् । पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः ॥१५॥

स्नुषा दशरथस्याहम् शत्रुसैन्यप्रतापिनः । दुहिता जनकस्य अहम् वैदेहस्य महात्मनः ॥१६॥

सीता च नाम नाम्ना अहम् भार्या रामस्य धीमतः । समा द्वादश तत्र अहम् राघवस्य निवेशने ॥१७॥

भुन्जाना मानुषान् भोगान् सर्व काम समृद्धिनी । ततः त्रयोदशे वर्षे राज्येन इक्ष्वाकु नन्दनम् ॥१८॥

अभिषेचयितुम् राजा स उपाध्यायः प्रचक्रमे । तस्मिन् सम्भ्रियमाणे तु राघवस्य अभिषेचने ॥१९॥

कैकेयी नाम भर्तारम् देवी वचनम् अब्रवीत् । न पिबेयम् न खादेयम् प्रत्यहम् मम भोजनम् ॥२०॥

एष मे जीवितस्य अन्तो रामो यदि अभिषिच्यते । यत् तत् उक्तम् त्वया वाक्यम् प्रीत्या नृपति सत्तम ॥२१॥

तच् चेन् न वितथम् कार्यम् वनम् गच्छतु राघवः । स राजा सत्य वाग् देव्या वर दानम् अनुस्मरन् ॥२२॥

मुमोह वचनम् श्रुत्वा कैकेय्याः क्रूरम् अप्रियम् । ततः तु स्थविरो राजा सत्य धर्मे व्यवस्थितः ॥२३॥

ज्येष्ठम् यशस्विनम् पुत्रम् रुदन् राज्यम् अयाचत । स पितुः वचनम् श्रीमान् अभिषेकात् परम् प्रियम् ॥२४॥

मनसा पूर्वम् आसाद्य वाचा प्रतिगृहीतवान् । दद्यान् न प्रतिगृह्णीयान् न ब्रूयत् किंचित् अप्रियम् ॥२५॥

अपि जीवित हेतोः हि रामः सत्य पराक्रमः । स विहाय उत्तरीयाणि महाअर्हाणि महायशाः ॥२६॥

विसृज्य मनसा राज्यम् जनन्यै माम् समादिशत् । सा अहम् तस्य अग्रतः तूर्णम् प्रस्थिता वन चारिणी ॥२७॥

न हि मे तेन हीनाया वासः स्वर्गे अपि रोचते । प्राग् एव तु महाभागः सौमित्रिः मित्र नन्दनः ॥२८॥

पूर्वजस्य अनुयात्रा अर्थे द्रुम चीरैः अलम्कृतः । ते वयम् भर्तुः आदेशम् बहु मान्य दृढ व्रताः ॥२९॥

प्रविष्टाः स्म पुरात् दृष्टम् वनम् गम्भीर दर्शनम् । वसतो दण्डक अरण्ये तस्य अहम् अमित ओजसः ॥३०॥

रक्षसा अपहृता भार्या रावणेन दुरात्मना । द्वौ मासौ तेन मे कालो जीवित अनुग्रहः कृतः ॥३१॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ॥

Listen to the sarga
0:00