तस्याः तत् वचनम् श्रुत्वा हनूमान् हरि यूथपः । दुह्खात् दुह्ख अभिभूतायाः सान्तम् उत्तरम् अब्रवीत् ॥१॥
चतुस्त्रिंशः सर्गः 5.34
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अहम् रामस्य संदेशात् देवि दूतः तव आगतः । वैदेहि कुशली रामः त्वाम् च कौशलम् अब्रवीत् ॥२॥
यो ब्राह्मम् अस्त्रम् वेदान् च वेद वेदविदाम् वरः । स त्वाम् दाशरथी रामो देवि कौशलम् अब्रवीत् ॥३॥
लक्ष्मणः च महातेजा भर्तुः ते अनुचरः प्रियः । कृतवान् शोक सम्तप्तः शिरसा ते अभिवादनम् ॥४॥
सा तयोः कुशलम् देवी निशम्य नर सिम्हयोः । प्रीति सम्हृष्ट सर्व अन्गी हनूमान्तम् अथ अब्रवीत् ॥५॥
कल्याणी बत गथा इयम् लौकिकी प्रतिभाति मे । एहि जीवन्तम् आनदो नरम् वर्ष शतात् अपि ॥६॥
तयोः समागमे तस्मिन् प्रीतिः उत्पादिता अद्भुता । परस्परेण च आलापम् विश्वस्तौ तौ प्रचक्रतुः ॥७॥
तस्याः तत् वचनम् श्रुत्वा हनूमान् हरि यूथपः । सीतायाः शोक दीनायाः समीपम् उपचक्रमे ॥८॥
यथा यथा समीपम् स हनूमान् उपसर्पति । तथा तथा रावणम् सा तम् सीता परिशन्कते ॥९॥
अहो धिग् धिग् कृतम् इदम् कथितम् हि यत् अस्य मे । रूप अन्तरम् उपागम्य स एव अयम् हि रावणः ॥१०॥
ताम् अशोकस्य शाखाम् सा विमुक्त्वा शोक कर्शिता । तस्याम् एव अनवद्य अन्गी धरण्याम् समुपाविशत् ॥११॥
हनुमानपि दुःखार्तां तां दृष्ट्वा भयमोहिताम् । अवन्दत महाबाहुः ततः ताम् जनक आत्मजाम् ॥१२॥
सा च एनम् भय वित्रस्ता भूयो न एव अभ्युदैक्षत । तम् दृष्ट्वा वन्दमानम् तु सीता शशि निभ आनना ॥१३॥
अब्रवीत् दीर्घम् उच्छ्वस्य वानरम् मधुर स्वरा । मायाम् प्रविष्टो मायावी यदि त्वम् रावणः स्वयम् ॥१४॥
उत्पादयसि मे भूयः सम्तापम् तन् न शोभनम् । स्वम् परित्यज्य रूपम् यः परिव्राजक रूपधृत् ॥१५॥
जन स्थाने मया दृष्टः त्वम् स एव असि रावणः । उपवास कृशाम् दीनाम् काम रूप निशा चर ॥१६॥
सम्तापयसि माम् भूयः सम्तापम् तन् न शोभनम् । अथवा नैतदेवं हि यन्मया परिशङ्कितम् ॥१७॥
मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् । यदि रामस्य दूतः त्वम् आगतो भद्रम् अस्तु ते ॥१८॥
पृच्छामि त्वाम् हरि श्रेष्ठ प्रिया राम कथा हि मे । गुणान् रामस्य कथय प्रियस्य मम वानर ॥१९॥
चित्तम् हरसि मे सौम्य नदी कूलम् यथा रयः । अहो स्वप्नस्य सुखता या अहम् एवम् चिर आहृता ॥२०॥
प्रेषितम् नाम पश्यामि राघवेण वन ओकसम् । स्वप्नेऽपि यद्यहम् वीरं राघवम् सहलक्ष्मणम् ॥२१॥
पश्येयम् नावसीदेयम् स्वप्नोऽपि मम मत्सरी । न अहम् स्वप्नम् इमम् मन्ये स्वप्ने दृष्ट्वा हि वानरम् ॥२२॥
न शक्यो अभ्युदयः प्राप्तुम् प्राप्तः च अभ्युदयो मम । किम् नु स्याच् चित्त मोहो अयम् भवेत् वात गतिः तु इयम् ॥२३॥
उन्मादजो विकारो वा स्यात् इयम् मृग तृष्णिका । अथवा न अयम् उन्मादो मोहो अपि उन्माद लक्ष्मणः ॥२४॥
सम्बुध्ये च अहम् आत्मानम् इमम् च अपि वन ओकसम् । इति एवम् बहुधा सीता सम्प्रधार्य बल अबलम् ॥२५॥
रक्षसाम् काम रूपत्वान् मेने तम् राक्षस अधिपम् । एताम् बुद्धिम् तदा कृत्वा सीता सा तनु मध्यमा ॥२६॥
न प्रतिव्याजहार अथ वानरम् जनक आत्मजा । सीतायाः चिन्तितम् बुद्ध्वा हनूमान् मारुत आत्मजः ॥२७॥
श्रोत्र अनुकूलैः वचनैः तदा ताम् सम्प्रहर्षयत् । आदित्य इव तेजस्वी लोक कान्तः शशी यथा ॥२८॥
राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा । विक्रमेण उपपन्नः च यथा विष्णुः महायशाः ॥२९॥
सत्य वादी मधुर वाग् देवो वाचस्पतिः यथा । रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान् ॥३०॥
स्थान क्रोध प्रहर्ता च श्रेष्ठो लोके महारथः । बाहुच् चायाम् अवष्टब्धो यस्य लोको महात्मनः ॥३१॥
अपकृश्ष्य आश्रम पदान् मृग रूपेण राघवम् । शून्ये येन अपनीता असि तस्य द्रक्ष्यसि यत् फलम् ॥३२॥
नचिरात् रावणम् सम्ख्ये यो वधिष्यति वीर्यवान् । रोष प्रमुक्तैः इषुभिः ज्वलद्भिः इव पावकैः ॥३३॥
तेन अहम् प्रेषितो दूतः त्वत् सकाशम् इह आगतः । त्वत् वियोगेन दुह्ख आर्तः स त्वाम् कौशलम् अब्रवीत् ॥३४॥
लक्ष्मणः च महातेजाः सुमित्र आनन्द वर्धनः । अभिवाद्य महाबाहुः सो अपि कौशलम् अब्रवीत् ॥३५॥
रामस्य च सखा देवि सुग्रीवो नाम वानरः । राजा वानर मुख्यानाम् स त्वाम् कौशलम् अब्रवीत् ॥३६॥
नित्यम् स्मरति रामः त्वाम् ससुग्रीवः सलक्ष्मणः । दिष्ट्या जीवसि वैदेहि राक्षसी वशम् आगता ॥३७॥
नचिरात् द्रक्ष्यसे रामम् लक्ष्मणम् च महारथम् । मध्ये वानर कोटीनाम् सुग्रीवम् च अमित ओजसम् ॥३८॥
अहम् सुग्रीव सचिवो हनूमान् नाम वानरः । प्रविष्टो नगरीम् लन्काम् लन्घयित्वा महाउदधिम् ॥३९॥
कृत्वा मूर्ध्नि पद न्यासम् रावणस्य दुरात्मनः । त्वाम् द्रष्टुम् उपयातो अहम् समाश्रित्य पराक्रमम् ॥४०॥
न अहम् अस्मि तथा देवि यथा माम् अवगच्छसि । विशन्का त्यज्यताम् एषा श्रद्धत्स्व वदतो मम ॥४१॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे चतुस्त्रिंशः सर्गः ॥