ताम् तु राम कथाम् श्रुत्वा वैदेही वानर ऋषभात् । उवाच वचनम् सान्त्वम् इदम् मधुरया गिरा ॥१॥
पञ्चत्रिंशः सर्गः 5.35
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
क्व ते रामेण संसर्गः कथम् जानासि लक्ष्मणम् । वानराणाम् नराणाम् च कथम् आसीत् समागमः ॥२॥
यानि रामस्य लिन्गानि लक्ष्मणस्य च वानर । तानि भूयः समाचक्ष्व न माम् शोकः समाविशेत् ॥३॥
कीदृशम् तस्य संस्थानम् रूपम् रामस्य कीदृशम् । कथम् ऊरू कथम् बाहू लक्ष्मणस्य च शंस मे ॥४॥
एवम् उक्तः तु वैदेह्या हनूमान् मारुत आत्मजः । ततो रामम् यथा तत्त्वम् आख्यातुम् उपचक्रमे ॥५॥
जानन्ती बत दिष्ट्या माम् वैदेहि परिपृच्छसि । भर्तुः कमल पत्र अक्षि सम्ख्यानम् लक्ष्मणस्य च ॥६॥
यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै । लक्षितानि विशाल अक्षि वदतः शृणु तानि मे ॥७॥
रामः कमल पत्र अक्षः सर्व भूत मनो हरः । रूप दाक्षिण्य सम्पन्नः प्रसूतो जनक आत्मजे ॥८॥
तेजसा आदित्य सम्काशः क्षमया पृथिवी समः । बृहस्पति समो बुद्ध्या यशसा वासव उपमः ॥९॥
रक्षिता जीव लोकस्य स्व जनस्य च रक्षिता । रक्षिता स्वस्य वृत्तस्य धर्मस्य च परम् तपः ॥१०॥
रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता । मर्यादानाम् च लोकस्य कर्ता कारयिता च सः ॥११॥
अर्चिष्मान् अर्चितो अत्यर्थम् ब्रह्म चर्य व्रते स्थितः । साधूनाम् उपकारज्ञः प्रचारज्ञः च कर्मणाम् ॥१२॥
राज विद्या विनीतः च ब्राह्मणानाम् उपासिता । श्रुतवान् शील सम्पन्नो विनीतः च परम् तपः ॥१३॥
यजुः वेद विनीतः च वेदविद्भिः सुपूजितः । धनुः वेदे च वेदे च वेद अन्गेषु च निष्ठितः ॥१४॥
विपुल अंसो महाबाहुः कम्बु ग्रीवः शुभ आननः । गूढ जत्रुः सुताम्र अक्षो रामो देवि जनैः श्रुतः ॥१५॥
दुन्दुभि स्वन निर्घोषः स्निग्ध वर्णः प्रतापवान् । समः सम विभक्त अन्गो वर्णम् श्यामम् समाश्रितः ॥१६॥
त्रिस्थिरः त्रिप्रलम्बः च त्रिसमः त्रिषु च उन्नतः । त्रिवलीवान् त्र्यवनतः चतुः व्यन्गः त्रिशीर्षवान् ॥१७॥
त्रिवलीवांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान् । चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः ॥१८॥
चतुष् कलः चतुः लेखः चतुष् किष्कुः चतुः समः । चतुर्दश सम द्वन्द्वः चतुः दष्टः चतुः गतिः ॥१९॥
दश पद्मो दश बृहत् त्रिभिः व्याप्तो द्वि शुक्लवान् । षड् उन्नतो नव तनुः त्रिभिः व्याप्नोति राघवः ॥२०॥
सत्य धर्म परः श्रीमान् सम्ग्रह अनुग्रहे रतः । देश काल विभागज्ञः सर्व लोक प्रियम् वदः ॥२१॥
भ्राता च तस्य द्वैमात्रः सौमित्रिः अपराजितः । अनुरागेन रूपेण गुणैः चैव तथा विधः ॥२२॥
तावुभौ नरशार्डूलौ त्वद्दर्शनसमुत्सुकौ । विचिन्वनौ महीम् कृत्स्नामस्माभिरभिसम्गातौ ॥२३॥
त्वाम् एव मार्गमाणो तौ विचरन्तौ वसुम् धराम् । ददर्शतुः मृग पतिम् पूर्वजेन अवरोपितम् ॥२४॥
ऋश्यमूकस्य पृष्ठे तु बहु पादप सम्कुले । भ्रातुः भार्य आर्तम् आसीनम् सुग्रीवम् प्रिय दर्शनम् ॥२५॥
वयम् तु हरि राजम् तम् सुग्रीवम् सत्य सम्गरम् । परिचर्यामहे राज्यात् पूर्वजेन अवरोपितम् ॥२६॥
ततः तौ चीर वसनौ धनुः प्रवर पाणिनौ । ऋश्यमूकस्य शैलस्य रम्यम् देशम् उपागतौ ॥२७॥
स तौ दृष्ट्वा नर व्याघ्रौ धन्विनौ वानर ऋषभः । अभिप्लुतो गिरेः तस्य शिखरम् भय मोहितः ॥२८॥
ततः स शिखरे तस्मिन् वानर इन्द्रो व्यवस्थितः । तयोः समीपम् माम् एव प्रेषयामास सत्वरः ॥२९॥
ताव् अहम् पुरुष व्याघ्रौ सुग्रीव वचनात् प्रभू । रूप लक्षण सम्पन्नौ कृत अञ्जलिः उपस्थितः ॥३०॥
तौ परिज्ञात तत्त्व अर्थौ मया प्रीति समन्वितौ । पृष्ठम् आरोप्य तम् देशम् प्रापितौ पुरुष ऋषभौ ॥३१॥
निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने । तयोः अन्योन्य सम्भाषात् भृशम् प्रीतिः अजायत ॥३२॥
ततस्तौ प्रीतिसंपन्नौ हरि ईश्वर नर ईश्वरौ । परस्पर कृत आश्वासौ कथया पूर्व वृत्तया ॥३३॥
तम् ततः सान्त्वयामास सुग्रीवम् लक्ष्मण आग्रजः । स्त्री हेतोः वालिना भ्रात्रा निरस्तम् उरु तेजसा ॥३४॥
ततः त्वन् नाशजम् शोकम् रामस्य अक्लिष्ट कर्मणः । लक्ष्मणो वानर इन्द्राय सुग्रीवाय न्यवेदयत् ॥३५॥
स श्रुत्वा वानर इन्द्रः तु लक्ष्मणेन ईरितम् वचः । तदा आसीन् निष्प्रभो अत्यर्थम् ग्रह ग्रस्त इव अंशुमान् ॥३६॥
ततः त्वत् गात्र शोभीनि रक्षसा ह्रियमाणया । यानि आभरण जालानि पातितानि मही तले ॥३७॥
तानि सर्वाणि रामाय आनीय हरि यूथपाः । सम्हृष्टा दर्शयाम् आसुः गतिम् तु न विदुः तव ॥३८॥
तानि रामाय दत्तानि मया एव उपहृतानि च । स्वनवन्ति अवकीर्णन्ति तस्मिन् विहत चेतसि ॥३९॥
तानि अन्के दर्शनीयानि कृत्वा बहु विधम् ततः । तेन देव प्रकाशेन देवेन परिदेवितम् ॥४०॥
पश्यतः तस्या रुदतः ताम्यतः च पुनः पुनः । प्रादीपयन् दाशरथेः तानि शोक हुत अशनम् ॥४१॥
शयितम् च चिरम् तेन दुह्ख आर्तेन महात्मना । मया अपि विविधैः वाक्यैः कृच्छ्रात् उत्थापितः पुनः ॥४२॥
तानि दृष्ट्वा महाअर्हाणि दर्शयित्वा मुहुः मुहुः । राघवः सह सौमित्रिः सुग्रीवे स न्यवेदयत् ॥४३॥
स तव अदर्शनात् आर्ये राघवः परितप्यते । महता ज्वलता नित्यम् अग्निना इव अग्नि पर्वतः ॥४४॥
त्वत् कृते तम् अनिद्रा च शोकः चिन्ता च राघवम् । तापयन्ति महात्मानम् अग्नि अगारम् इव अग्नयः ॥४५॥
तव अदर्शन शोकेन राघवः प्रविचाल्यते । महता भूमि कम्पेन महान् इव शिला उच्चयः ॥४६॥
कानानानि सुरम्याणि नदी प्रस्रवणानि च । चरन् न रतिम् आप्नोति त्वम् अपश्यन् नृप आत्मजे ॥४७॥
स त्वाम् मनुज शार्दूलः क्षिप्रम् प्राप्स्यति राघवः । समित्र बान्धवम् हत्वा रावणम् जनक आत्मजे ॥४८॥
सहितौ राम सुग्रीवाव् उभाव् अकुरुताम् तदा । समयम् वालिनम् हन्तुम् तव च अन्वेषणम् तथा ॥४९॥
ततस्ताभ्याम् कुमाराभ्याम् वीराभ्याम् स हरीश्वरः । किष्किन्धाम् समूपागम्य वाली युद्धे निपातितः ॥५०॥
ततो निहत्य तरसा रामो वालिनम् आहवे । सर्व ऋष्क हरि सम्घानाम् सुग्रीवम् अकरोत् पतिम् ॥५१॥
राम सुग्रीवयोः ऐक्यम् देवि एवम् समजायत । हनूमन्तम् च माम् विद्धि तयोः दूतम् इह आगतम् ॥५२॥
स्व राज्यम् प्राप्य सुग्रीवः समनीय महाहरीन् । त्वत् अर्थम् प्रेषयामास दिशो दश महाबलान् ॥५३॥
आदिष्टा वानर इन्द्रेण सुग्रीवेण महाओजसः । अद्रि राज प्रतीकाशाः सर्वतः प्रस्थिता महीम् ॥५४॥
ततस्ते मार्गमाणा वै सुग्रीववचनातुराः । चरन्ति वसुधाम् कृत्स्नाम् वयमन्ये च वानराः ॥५५॥
अन्गदो नाम लक्ष्मीवान् वालि सूनुः महाबलः । प्रस्थितः कपि शार्दूलः त्रिभाग बल सम्वृतः ॥५६॥
तेषाम् नो विप्रनष्टानाम् विन्ध्ये पर्वत सत्तमे । भृशम् शोक परीतनाम् अहो रात्र गणा गताः ॥५७॥
ते वयम् कार्य नैराश्यात् कालस्य अतिक्रमेण च । भयाच् च कपि राजस्य प्राणान् त्यक्तुम् व्यवस्थिताः ॥५८॥
विचित्य वन दुर्गाणि गिरि प्रस्रवणानि च । अनासाद्य पदम् देव्याः प्राणान् त्यक्तुम् व्यवस्थिताः ॥५९॥
दृष्ट्वा प्रायोपविष्टांश्च सर्वान्वानरपुङ्गवान् । भृशम् शोक अर्णवे मग्नः पर्यदेवयत् अन्गदः ॥६०॥
तव नाशम् च वैदेहि वालिनः च तथा वधम् । प्राय उपवेशम् अस्माकम् मरणम् च जटायुषः ॥६१॥
तेषाम् नः स्वामि संदेशान् निराशानाम् मुमूर्षताम् । कार्य हेतोः इव आयातः शकुनिः वीर्यवान् महान् ॥६२॥
गृध्र राजस्य सोदर्यः सम्पातिः नाम गृध्र राट् । श्रुत्वा भ्रातृ वधम् कोपात् इदम् वचनम् अब्रवीत् ॥६३॥
यवीयान् केन मे भ्राता हतः क्व च विनाशितः । एतत् आख्यातुम् इच्छामि भवद्भिः वानर उत्तमाः ॥६४॥
अन्गदो अकथयत् तस्य जन स्थाने महत् वधम् । रक्षसा भीम रूपेण त्वाम् उद्दिश्य यथा तथम् ॥६५॥
जटायोः तु वधम् श्रुत्वा दुह्हितः सो अरुण आत्मजः । त्वाम् आह स वर आरोहे वसन्तीम् रावण आलये ॥६६॥
तस्य तत् वचनम् श्रुत्वा सम्पातेः प्रीति वर्धनम् । अन्गद प्रमुखाः सर्वे ततः सम्प्रस्थिता वयम् ॥६७॥
विन्ध्यादुत्थाय सम्प्राप्ताः सागरस्यान्तमुत्तरम् । त्वत् दर्शन कृत उत्साहा हृष्टाः तुष्टाः प्लवम्गमाः ॥६८॥
अङ्गदप्रमुखाः सर्वे वेलोपान्तमुपस्थिताः । चिन्ताम् जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः ॥६९॥
अथ अहम् हरि सैन्यस्य सागरम् दृश्य सीदतः । व्यवधूय भयम् तीव्रम् योजनानाम् शतम् प्लुतः ॥७०॥
लन्का च अपि मया रात्रौ प्रविष्टा राक्षस आकुला । रावणः च मया दृष्टः त्वम् च शोक निपीडिता ॥७१॥
एतत् ते सर्वम् आख्यातम् यथा वृत्तम् अनिन्दिते । अभिभाषस्व माम् देवि दूतो दाशरथेः अहम् ॥७२॥
त्वम् माम् राम कृत उद्योगम् त्वन् निमित्तम् इह आगतम् । सुग्रीव सचिवम् देवि बुध्यस्व पवन आत्मजम् ॥७३॥
कुशली तव काकुत्स्थः सर्व शस्त्रभृताम् वरः । गुरोः आराधने युक्तो लक्ष्मणः च सुलक्षणः ॥७४॥
तस्य वीर्यवतो देवि भर्तुः तव हिते रतः । अहम् एकः तु सम्प्राप्तः सुग्रीव वचनात् इह ॥७५॥
मया इयम् असहायेन चरता काम रूपिणा । दक्षिणा दिग् अनुक्रान्ता त्वन् मार्ग विचय एषिणा ॥७६॥
दिष्ट्या अहम् हरि सैन्यानाम् त्वन् नाशम् अनुशोचताम् । अपनेष्यामि सम्तापम् तव अभिगम शंसनात् ॥७७॥
दिष्ट्या हि न मम व्यर्थम् देवि सागर लन्घनम् । प्राप्स्यामि अहम् इदम् दिष्ट्या त्वत् दर्शन कृतम् यशः ॥७८॥
राघवः च महावीर्यः क्षिप्रम् त्वाम् अभिपत्स्यते । समित्र बान्धवम् हत्वा रावणम् राक्षस अधिपम् ॥७९॥
कौरजो नाम वैदेहि गिरीणाम् उत्तमो गिरिः । ततो गच्छति गो कर्णम् पर्वतम् केसरी हरिः ॥८०॥
स च देव ऋषिभिः दृष्टः पिता मम महाकपिः । तीर्थे नदी पतेः पुण्ये शम्ब सादनम् उद्धरत् ॥८१॥
तस्य अहम् हरिणः क्षेत्रे जातो वातेन मैथिलि । हनूमान् इति विख्यातो लोके स्वेन एव कर्मणा ॥८२॥
विश्वासार्थम् तु वैदेहि भर्तुरुक्ता मया गुणाः । विश्वास अर्थम् तु वैदेहि भर्तुः उक्ता मया गुणाः ॥८३॥
एवम् विश्वासिता सीता हेतुभिः शोक कर्शिता । उपपन्नैः अभिज्ञानैः दूतम् तम् अवगच्छति ॥८४॥
अतुलम् च गता हर्षम् प्रहर्षेण तु जानकी । नेत्राभ्याम् वक्र पक्ष्माभ्याम् मुमोच आनन्दजम् जलम् ॥८५॥
चारु तच् च आननम् तस्याः ताम्र शुक्ल आयत ईक्षणम् । अशोभत विशाल अक्ष्या राहु मुक्त इव उडु राट् ॥८६॥
हनूमन्तम् कपिम् व्यक्तम् मन्यते न अन्यथा इति सा । अथ उवाच हनूमान् ताम् उत्तरम् प्रिय दर्शनाम् ॥८७॥
एतत्ते सर्वमाख्यातम् समाश्वसिहि मैथिलि । किम् करोमि कथम् वा ते रोचते प्रतियाम्यहम् ॥८८॥
हते असुरे सम्यति शम्ब सादने । कपि प्रवीरेण महर्षि चोदनात् । ततो अस्मि वायु प्रभवो हि मैथिलि । प्रभावतः तत् प्रतिमः च वानरः ॥८९॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे पञ्चत्रिंशः सर्गः ॥