रामायणम्

षट्त्रिंशः सर्गः 5.36

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

भूय एव महातेजा हनूमान् मारुत आत्मजः । अब्रवीत् प्रश्रितम् वाक्यम् सीता प्रत्यय कारणात् ॥१॥

वानरो अहम् महाभागे दूतो रामस्य धीमतः । राम नाम अन्कितम् च इदम् पश्य देवि अन्गुलीयकम् ॥२॥

प्रत्ययार्थम् तवानीतम् तेन दत्तम् महात्मना । समाश्वसिहि भद्रम् ते क्षीण दुह्ख फला हि असि ॥३॥

गृहीत्वा प्रेक्षमाणा सा भर्तुः कर विभूषणम् । भर्तारम् इव सम्प्राप्ता जानकी मुदिता अभवत् ॥४॥

चारु तत् वदनम् तस्याः ताम्र शुक्ल आयत ईक्षणम् । अशोभत विशालाक्ष्या राहु मुक्त इव उडु राट् ॥५॥

ततः सा ह्रीमती बाला भर्तुः संदेश हर्षिता । परितुट्षा प्रियम् श्रुत्वा प्राशंसत महाकपिम् ॥६॥

विक्रान्तः त्वम् समर्थः त्वम् प्राज्ञः त्वम् वानर उत्तम । येन इदम् राक्षस पदम् त्वया एकेन प्रधर्षितम् ॥७॥

शत योजन विस्तीर्णः सागरो मकर आलयः । विक्रम श्लाघनीयेन क्रमता गोष्पदी कृतः ॥८॥

न हि त्वाम् प्राकृतम् मन्ये वनरम् वनर ऋषभ । यस्य ते न अस्ति सम्त्रासो रावणान् न अपि सम्भ्रमः ॥९॥

अर्हसे च कपि श्रेष्ठ मया समभिभाषितुम् । यदि असि प्रेषितः तेन रामेण विदित आत्मना ॥१०॥

प्रेषयिष्यति दुर्धर्षो रामो न हि अपरीक्षितम् । पराक्रमम् अविज्ञाय मत् सकाशम् विशेषतः ॥११॥

दिष्ट्या च कुशली रामो धर्म आत्मा धर्म वत्सलः । लक्ष्मणः च महातेजाः सुमित्र आनन्द वर्धनः ॥१२॥

कुशली यदि काकुत्स्थः किम् नु सागर मेखलाम् । महीम् दहति कोपेन युग अन्त अग्निः इव उत्थितः ॥१३॥

अथवा शक्तिमन्तौ तौ सुराणाम् अपि निग्रहे । मम एव तु न दुह्खानाम् अस्ति मन्ये विपर्ययः ॥१४॥

कच्चिच् च व्यथते रामः कच्चिन् न परिपत्यते । उत्तराणि च कार्याणि कुरुते पुरुष उत्तमः ॥१५॥

कच्चिन् न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति । कच्चिन् पुरुष कार्याणि कुरुते नृपतेः सुतः ॥१६॥

द्विविधम् त्रिविध उपायम् उपायम् अपि सेवते । विजिगीषुः सुहृत् कच्चिन् मित्रेषु च परम् तपः ॥१७॥

कच्चिन् मित्राणि लभते मित्रैः च अपि अभिगम्यते । कच्चित् कल्याण मित्रः च मित्रैः च अपि पुरः कृतः ॥१८॥

कच्चित् आशास्ति देवानाम् प्रसादम् पार्थिव आत्मजः । कच्चित् पुरुष कारम् च दैवम् च प्रतिपद्यते ॥१९॥

कच्चिन् न विगत स्नेहो विवासान् मयि राघवः । कच्चिन् माम् व्यसनात् अस्मान् मोक्षयिष्यति वानरः ॥२०॥

सुखानाम् उचितो नित्यम् असुखानाम् अनूचितः । दुह्खम् उत्तरम् आसाद्य कच्चित् रामो न सीदति ॥२१॥

कौसल्यायाः तथा कच्चित् सुमित्रायाः तथैव च । अभीक्ष्णम् श्रूयते कच्चित् कुशलम् भरतस्य च ॥२२॥

मन् निमित्तेन मान अर्हः कच्चित् शोकेन राघवः । कच्चिन् न अन्य मना रामः कच्चिन् माम् तारयिष्यति ॥२३॥

कच्चित् अक्षाउहिणीम् भीमाम् भरतो भ्रातृ वत्सलः । ध्वजिनीम् मन्त्रिभिः गुप्ताम् प्रेषयिष्यति मत् कृते ॥२४॥

वानर अधिपतिः श्रीमान् सुग्रीवः कच्चित् एष्यति । मत् कृते हरिभिः वीरैः वृतो दन्त नख आयुधैः ॥२५॥

कच्चिच् च लक्ष्मणः शूरः सुमित्रा आनन्द वर्धनः । अस्त्रवित् शर जालेन राक्षसान् विधमिष्यति ॥२६॥

रौद्रेण कच्चित् अस्त्रेण रामेण निहतम् रणे । द्रक्ष्यामि अल्पेन कालेन रावणम् ससुहृज् जनम् ॥२७॥

कच्चिन् न तद्त् हेम समान वर्णम् । तस्य आननम् पद्म समान गन्धि । मया विना शुष्यति शोक दीनम् । जल क्षये पद्मम् इव आतपेन ॥२८॥

धर्म अपदेशात् त्यजतः च राज्याम् । माम् च अपि अरण्यम् नयतः पदातिम् । न आसीत् व्यथा यस्य न भीः न शोकः । कच्चित् स धैर्यम् हृदये करोति ॥२९॥

न च अस्य माता न पिता न च अन्यः न । स्नेहात् विशिष्टो अस्ति मया समो वा । तावद्त् हि अहम् दूत जिजीविषेयम् । यावत् प्रवृत्तिम् शृणुयाम् प्रियस्य ॥३०॥

इति इव देवी वचनम् महाअर्थम् । तम् वानर इन्द्रम् मधुर अर्थम् उक्त्वा । श्रोतुम् पुनः तस्य वचो अभिरामम् । राम अर्थ युक्तम् विरराम रामा ॥३१॥

सीताया वचनम् श्रुत्वा मारुतिः भीम विक्रमः । शिरसि अञ्जलिम् आधाय वाक्यम् उत्तरम् अब्रवीत् ॥३२॥

न त्वाम् इहस्थाम् जानीते रामः कमल लोचनः । तेन त्वामिहस्थाम् जानीते रामः कमललोचने ॥३३॥

श्रुत्वा एव तु वचो मह्यम् क्षिप्रम् एष्यति राघवः । चमूम् प्रकर्षन् महतीम् हरि ऋष्क गण सम्कुलाम् ॥३४॥

विष्टम्भयित्वा बाण ओघैः अक्षोभ्यम् वरुण आलयम् । करिष्यति पुरीम् लन्काम् काकुत्स्थः शान्त राक्षसाम् ॥३५॥

तत्र यदि अन्तरा मृत्युः यदि देवाः सह असुराः । स्थास्यन्ति पथि रामस्य स तान् अपि वधिष्यति ॥३६॥

तव अदर्शनजेन आर्ये शोकेन स परिप्लुतः । न शर्म लभते रामः सिम्ह अर्दित इव द्विपः ॥३७॥

दर्दरेण च ते देवि शपे मूल फलेन च । मलयेन च विन्ध्येन मेरुणा मन्दरेण च ॥३८॥

यथा सुनयनं वल्गु बिम्बौष्ठं चारुकुण्डलम् । मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ॥३९॥

क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ । शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि ॥४०॥

न मांसं राघवो भुङ्क्ते न चापि मधुसेवते । वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ॥४१॥

न एव दंशान् न मशकान् न कीटान् न सरी सृपान् । राघवो अपनयेत् गत्रात् त्वत् गतेन अन्तः आत्मना ॥४२॥

नित्यम् ध्यान परो रामो नित्यम् शोक परायणः । न अन्यच् चिन्तयते किंचित् स तु काम वशम् गतः ॥४३॥

अनिद्रः सततम् रामः सुप्तो अपि च नर उत्तमः । सीतेति मधुराम् वाणीम् व्याहरन् प्रतिबुध्यते ॥४४॥

दृष्ट्वा फलम् वा पुष्पम् वा यच् च अन्यत् स्त्री मनो हरम् । बहुशो हा प्रियेति एवम् श्वसन् त्वाम् अभिभाषते ॥४५॥

स देवि नित्यम् परितप्यमानः । त्वाम् एव सीतेति अभिभाषमाणः । धृत व्रतो राज सुतो महात्मा । तव एव लाभाय कृत प्रयत्नः ॥४६॥

सा राम सम्कीर्तन वीत शोका । रामस्य शोकेन समान शोका । शरन् मुखेन अम्बुद शेष । निशा इव वैदेह सुता बभूव ॥४७॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे षट्त्रिंशः सर्गः ॥

Listen to the sarga
0:00