सा सीता तत् वचनम् श्रुत्वा पूर्ण चन्द्र निभ आनना । हनूमन्तम् उवाच इदम् धर्म अर्थ सहितम् वचः ॥१॥
सप्तत्रिंशः सर्गः 5.37
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अमृतम् विष संसृष्टम् त्वया वानर भाषितम् । यच् च न अन्य मना रामो यच् च शोक परायणः ॥२॥
ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे । रज्ज्वा इव पुरुषम् बद्ध्वा कृत अन्तः परिकर्षति ॥३॥
विधिः नूनम् असम्हार्यः प्राणिनाम् प्लवग उत्तम । सौमित्रिम् माम् च रामम् च व्यसनैः पश्य मोहितान् ॥४॥
शोकस्य अस्य कदा पारम् राघवो अधिगमिष्यति । प्लवमानः परिश्रान्तो हत नौः सागरे यथा ॥५॥
राक्षसानाम् क्षयम् कृत्वा सूदयित्वा च रावणम् । लन्काम् उन्मूलिताम् कृत्वा कदा द्रक्ष्यति माम् पतिः ॥६॥
स वाच्यः सम्त्वरस्व इति यावत् एव न पूर्यते । अयम् सम्वत्सरः कालः तावद्त् हि मम जीवितम् ॥७॥
वर्तते दशमो मासो द्वौ तु शेषौ प्लवम्गम । रावणेन नृशंसेन समयो यः कृतो मम ॥८॥
विभीषणेन च भ्रात्रा मम निर्यातनम् प्रति । अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ॥९॥
मम प्रतिप्रदानम् हि रावणस्य न रोचते । रावणम् मार्गते सम्ख्ये मृत्युः काल वशम् गतम् ॥१०॥
ज्येष्ठा कन्या अनला नम विभीषण सुता कपे । तया मम एतत् आख्यातम् मात्रा प्रहितया स्वयम् ॥११॥
आशंस इति हरि श्रेष्ठ क्षिप्रम् माम् प्राप्स्यते पतिः । अन्तः आत्मा हि मे शुद्धः तस्मिन् च बहवो गुणाः ॥१२॥
उत्साहः पौरुषम् सत्त्वम् आनृशंस्यम् कृतज्ञता । विक्रमः च प्रभावः च सन्ति वानर राघवे ॥१३॥
चतुर्दश सहस्राणि राक्षसानाम् जघान यः । जन स्थाने विना भ्रात्रा शत्रुः कः तस्य न उद्विजेत् ॥१४॥
न स शक्यः तुलयितुम् व्यसनैः पुरुष ऋषभः । अहम् तस्य अनुभावज्ञा शक्रस्य इव पुलोमजा ॥१५॥
शर जाल अंशुमान् शूरः कपे राम दिवा करः । शत्रु रक्षोमयम् तोयम् उपशोषम् नयिष्यति ॥१६॥
इति सम्जल्पमानाम् ताम् राम अर्थे शोक कर्शिताम् । अश्रु सम्पूर्ण वदनाम् उवाच हनुमान् कपिः ॥१७॥
श्रुत्वा एव तु वचो मह्यम् क्षिप्रम् एष्यति राघवः । चमूम् प्रकर्षन् महतीम् हरि ऋक्ष गण सम्कुलाम् ॥१८॥
अथवा मोचयिष्यामि ताम् अद्य एव हि राक्षसात् । अस्मात् दुह्खात् उपारोह मम पृष्ठम् अनिन्दिते ॥१९॥
त्वम् हि पृष्ठ गताम् कृत्वा सम्तरिष्यामि सागरम् । शक्तिः अस्ति हि मे वोढुम् लन्काम् अपि सरावणाम् ॥२०॥
अहम् प्रस्रवणस्थाय राघवाय अद्य मैथिलि । प्रापयिष्यामि शक्राय हव्यम् हुतम् इव अनलः ॥२१॥
द्रक्ष्यसि अद्य एव वैदेहि राघवम् सह लक्ष्मणम् । व्यवसाय समायुक्तम् विष्णुम् दैत्य वधे यथा ॥२२॥
त्वत् दर्शन कृत उत्साहम् आश्रमस्थम् महाबलम् । पुरंदरम् इव आसीनम् नाग राजस्य मूर्धनि ॥२३॥
पृष्ठम् आरोह मे देवि मा विकान्क्षस्व शोभने । योगम् अन्विच्छ रामेण शश अन्केन इव रोहिणी ॥२४॥
कथयन्ति इव चन्द्रेण सूर्येण इव सुवर्चला । मत् पृष्ठम् अधिरुह्य त्वम् तर आकाश महाअर्णवम् ॥२५॥
न हि मे सम्प्रयातस्य त्वाम् इतो नयतो अन्गने । अनुगन्तुम् गतिम् शक्ताः सर्वे लन्का निवासिनः ॥२६॥
यथा एव अहम् इह प्राप्तः तथैव अहम् असंशयम् । यास्यामि पश्य वैदेहि त्वाम् उद्यम्य विहायसम् ॥२७॥
मैथिली तु हरि श्रेष्ठात् श्रुत्वा वचनम् अद्भुतम् । हर्ष विस्मित सर्व अन्गी हनूमन्तम् अथ अब्रवीत् ॥२८॥
हनूमन् दूरम् अध्वनम् कथम् माम् वोढुम् इच्छसि । तत् एव खलु ते मन्ये कपित्वम् हरि यूथप ॥२९॥
कथम् वा अल्प शरीरः त्वम् माम् इतो नेतुम् इच्छसि । सकाशम् मानव इन्द्रस्य भर्तुः मे प्लवग ऋषभ ॥३०॥
सीताया वचनम् श्रुत्वा हनूमान् मारुत आत्मजः । चिन्तयामास लक्ष्मीवान् नवम् परिभवम् कृतम् ॥३१॥
न मे जानाति सत्त्वम् वा प्रभावम् वा असित ईक्षणा । तस्मात् पश्यतु वैदेही यत् रूपम् मम कामतः ॥३२॥
इति संचिन्त्य हनुमान् तदा प्लवग सत्तमः । दर्शयामास वैदेह्याः स्वरूपम् अरि मर्दनः ॥३३॥
स तस्मात् पादपात् धीमान् आप्लुत्य प्लवग ऋषभः । ततो वर्धितुम् आरेभे सीता प्रत्यय कारणात् ॥३४॥
मेरु मन्दार सम्काशो बभौ दीप्त अनल प्रभः । अग्रतो व्यवतस्थे च सीताया वानर ऋषभः ॥३५॥
हरिः पर्वत सम्काशः ताम्र वक्त्रो महाबलः । वज्र दम्ष्ट्र नखो भीमो वैदेहीम् इदम् अब्रवीत् ॥३६॥
सपर्वत वन उद्देशाम् साट्ट प्राकार तोरणाम् । लन्काम् इमाम् सनथाम् वा नयितुम् शक्तिः अस्ति मे ॥३७॥
तत् अवस्थाप्य ताम् बुद्धिः अलम् देवि विकान्क्षया । विशोकम् कुरु वैदेहि राघवम् सह लक्ष्मणम् ॥३८॥
तम् दृष्ट्वा अचल सम्काशम् उवाच जनक आत्मजा । पद्म पत्र विशाल अक्षी मारुतस्य औरसम् सुतम् ॥३९॥
तव सत्त्वम् बलम् चैव विजानामि महाकपे । वायोः इव गतिम् च अपि तेजः च अग्निः इव अद्भुतम् ॥४०॥
प्राकृतो अन्यः कथम् च इमाम् भूमिम् आगन्तुम् अर्हति । उदधेः अप्रमेयस्य पारम् वानर पुम्गव ॥४१॥
जानामि गमने शक्तिम् नयने च अपि ते मम । अवश्यम् साम्प्रधार्य आशु कार्य सिद्धिः इह आत्मनः ॥४२॥
अयुक्तम् तु कपि श्रेष्ठ मया गन्तुम् त्वया सह । वायु वेग सवेगस्य वेगो माम् मोहयेत् तव ॥४३॥
अहम् आकाशम् आसक्ता उपरि उपरि सागरम् । प्रपतेयम् हि ते पृष्ठात् भयात् वेगेन गच्छतः ॥४४॥
पतिता सागरे च अहम् तिमि नक्र झष आकुले । भयेयम् आशु विवशा यादसाम् अन्नम् उत्तमम् ॥४५॥
न च शक्ष्ये त्वया सार्धम् गन्तुम् शत्रु विनाशन । कलत्रवति संदेहः त्वयि अपि स्यात् असंशयम् ॥४६॥
ह्रियमाणाम् तु माम् दृष्ट्वा राक्षसा भीम विक्रमाः । अनुगच्छेयुः आदिष्टा रावणेन दुरात्मना ॥४७॥
तैः त्वम् परिवृतः शूरैः शूलम् उद्गर पाणिभिः । भवेः त्वम् संशयम् प्राप्तो मया वीर कलत्रवान् ॥४८॥
सायुधा बहवो व्योम्नि राक्षसाः त्वम् निरायुधः । कथम् शक्ष्यसि सम्यातुम् माम् चैव परिरक्षितुम् ॥४९॥
युध्यमानस्य रक्षोभिः ततः तैः क्रूर कर्मभिः । प्रपतेयम् हि ते पृष्ठत् भय आर्ता कपि सत्तम ॥५०॥
अथ रक्षांसि भीमानि महान्ति बलवन्ति च । कथंचित् साम्पराये त्वाम् जयेयुः कपि सत्तम ॥५१॥
अथवा युध्यमानस्य पतेयम् विमुखस्य ते । पतिताम् च गृहीत्वा माम् नयेयुः पाप राक्षसाः ॥५२॥
माम् वा हरेयुः त्वद्त् हस्तात् विशसेयुः अथ अपि वा । अव्यवस्थौ हि दृश्येते युद्धे जय पराजयौ ॥५३॥
अहम् वा अपि विपद्येयम् रक्षोभिः अभितर्जिता । त्वत् प्रयत्नो हरि श्रेष्ठ भवेन् निष्फल एव तु ॥५४॥
कामम् त्वम् अपि पर्याप्तो निहन्तुम् सर्व राक्षसान् । राघवस्य यशो हीयेत् त्वया शस्तैः तु राक्षसैः ॥५५॥
अथवा आदाय रक्षांसि न्यस्येयुः सम्वृते हि माम् । यत्र ते न अभिजानीयुः हरयो न अपि राघवः ॥५६॥
आरम्भः तु मत् अर्थो अयम् ततः तव निरर्थकः । त्वया हि सह रामस्य महान् आगमने गुणः ॥५७॥
मयि जीवितम् आयत्तम् राघवस्य महात्मनः । भ्रातृऋणाम् च महाबाहो तव राज कुलस्य च ॥५८॥
तौ निराशौ मत् अर्थे तु शोक सम्ताप कर्शितौ । सह सर्व ऋक्ष हरिभिः त्यक्ष्यतः प्राण सम्ग्रहम् ॥५९॥
भर्तुः भक्तिम् पुरः कृत्य रामात् अन्यस्य वानर । न अहम् स्प्रष्टुम् पदा गात्रम् इच्छेयम् वानर उत्तम ॥६०॥
यत् अहम् गात्र संस्पर्शम् रावणस्य गता बलात् । अनीशा किम् करिष्यामि विनाथा विवशा सती ॥६१॥
यदि रामो दशग्रीवम् इह हत्वा सराक्षसम् । माम् इतो गृह्य गच्छेत तत् तस्य सदृशम् भवेत् ॥६२॥
श्रुता हि दृष्टाः च मया पराक्रमा । महात्मनः तस्य रण अवमर्दिनः । न देव गन्धर्व भुजम्ग राक्षसा । भवन्ति रामेण समा हि सम्युगे ॥६३॥
समीक्ष्य तम् सम्यति चित्र कार्मुकम् । महाबलम् वासव तुल्य विक्रमम् । सलक्ष्मणम् को विषहेत राघवम् । हुत अशनम् दीप्तम् इव अनिल ईरितम् ॥६४॥
सलक्ष्मणम् राघवम् आजि मर्दनम् । दिशा गजम् मत्तम् इव व्यवस्थितम् । सहेत को वानर मुख्य सम्युगे । युग अन्त सूर्य प्रतिमम् शर अर्चिषम् ॥६५॥
स मे हरि श्रेष्ठ सलक्ष्मणम् पतिम् । सयूथपम् क्षिप्रम् इह उपपादय । चिराय रामम् प्रति शोक कर्शिताम् । कुरुष्व माम् वानर मुख्य हर्षिताम् ॥६६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे सप्तत्रिंशः सर्गः ॥