ततः स कपि शार्दूलः तेन वाक्येन हर्षितः । सीताम् उवाच तत् श्रुत्वा वाक्यम् वाक्य विशारदः ॥१॥
अष्टत्रिंशः सर्गः 5.38
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
युक्त रूपम् त्वया देवि भाषितम् शुभ दर्शने । सदृशम् स्त्री स्वभावस्य साध्वीनाम् विनयस्य च ॥२॥
स्त्रीत्वम् न तु समर्थम् हि सागरम् व्यतिवर्तितुम् । माम् अधिष्ठाय विस्तीर्णम् शत योजनम् आयतम् ॥३॥
द्वितीयम् कारणम् यच् च ब्रवीषि विनय अन्विते । रामात् अन्यस्य न अर्हामि संस्पर्शम् इति जानकि ॥४॥
एतत् ते देवि सदृशम् पत्न्याः तस्य महात्मनः । का हि अन्या त्वाम् ऋते देवि ब्रूयात् वचनम् ईदृशम् ॥५॥
श्रोष्यते चैव काकुत्स्थः सर्वम् निरवशेषतः । चेष्टितम् यत् त्वया देवि भाषितम् मम च अग्रतः ॥६॥
कारणैः बहुभिः देवि राम प्रिय चिकीर्षया । स्नेह प्रस्कन्न मनसा मया एतत् समुदीरितम् ॥७॥
लन्काया दुष्प्रवेशत्वात् दुस्तरत्वान् महाउदधेः । सामर्थ्यात् आत्मनः चैव मया एतत् समुदाहृतम् ॥८॥
इच्छामि त्वाम् समानेतुम् अद्य एव रघु बन्धुना । गुरु स्नेहेन भक्त्या च न अन्यथा तत् उदाहृतम् ॥९॥
यदि न उत्सहसे यातुम् मया सार्धम् अनिन्दिते । अभिज्ञानम् प्रयच्छ त्वम् जानीयात् राघवो हि यत् ॥१०॥
एवम् उक्ता हनुमता सीता सुर सुत उपमा । उवाच वचनम् मन्दम् बाष्प प्रग्रथित अक्षरम् ॥११॥
इदम् श्रेष्ठम् अभिज्ञानम् ब्रूयाः त्वम् तु मम प्रियम् । शैलस्य चित्र कूटस्य पादे पूर्व उत्तरे तदा ॥१२॥
तापस आश्रम वासिन्याः प्राज्य मूल फल उदके । तस्मिन् सिद्ध आश्रमे देशे मन्दाकिन्या अदूरतः ॥१३॥
तस्य उपवन षण्डेषु नाना पुष्प सुगन्धिषु । विहृत्य सलिल क्लिन्ना तव अन्के समुपाविशम् || पर्यायेण प्रसुप्तः च मम अन्के भरत अग्रजः ॥१४॥
ततो मांस समायुक्तो वायसः पर्यतुण्डयत् । तम् अहम् लोष्टम् उद्यम्य वारयामि स्म वायसम् ॥१५॥
दारयन् स च माम् काकः तत्र एव परिलीयते । न च अपि उपरमन् मांसात् भक्ष अर्थी बलि भोजनः ॥१६॥
उत्कर्षन्त्याम् च रशनाम् क्रुद्धायाम् मयि पक्षिणे । स्रंसमाने च वसने ततो दृष्टा त्वया हि अहम् ॥१७॥
त्वया विहसिता च अहम् क्रुद्धा सम्लज्जिता तदा । भक्ष्य गृद्धेन कालेन दारिता त्वाम् उपागता ॥१८॥
आसीनस्य च ते श्रान्ता पुनः उत्सन्गम् आविशम् । क्रुध्यन्ती च प्रहृष्टेन त्वया अहम् परिसान्त्विता ॥१९॥
बाष्प पूर्ण मुखी मन्दम् चक्षुषी परिमार्जती । लक्षिता अहम् त्वया नाथ वायसेन प्रकोपिता ॥२०॥
परिश्रमात्प्रसुप्ता च राघवाङ्के ऽप्य्हम् चिरम् । पर्याय़ेण प्रसुप्तश्च ममाङ्के भरताग्रजः ॥२१॥
स तत्र पुनरे वाथ वायसः समुपागमत् । ततः सुप्तप्रबुद्धाम् माम् रामस्याङ्कात्समुत्थिताम् ॥२२॥
वायसः सहसागम्य विददार स्तनान्तरे । पुनः पुनर्थोत्पत्य विददार स मां भृशम् ॥२३॥
ततः समुक्षितो रामो मुक्तैः शोणितबिन्दुभिः । वयसेन ततस्तेन बलवत्क्लिश्यमानया ॥२४॥
स मया बोधितः श्रीमान् सुखसुप्तः परम्तपः । स माम् दृष्ट्वा महाबाहुर्वितुन्नाम् स्तनयोस्तदा ॥२५॥
आशी विष इव क्रुद्धः श्वसान् वाक्यम् अभाषथाः । केन ते नाग नास ऊरु विक्षतम् वै स्तन अन्तरम् ॥२६॥
कः क्रीडति सरोषेण पन्च वक्त्रेण भोगिना । वीक्षमाणः ततः तम् वै वायसम् समवैक्षथाः ॥२७॥
नखैः सरुधिरैः तीक्ष्णैः माम् एव अभिमुखम् स्थितम् । पुत्रः किल स शक्रस्य वायसः पतताम् वरः ॥२८॥
धरा अन्तर चरः शीघ्रम् पवनस्य गतौ समः । ततः तस्मिन् महाबाहुः कोप सम्वर्तित ईक्षणः ॥२९॥
वायसे कृतवान् क्रूराम् मतिम् मतिमताम् वर । स दर्भ संस्तरात् गृह्य ब्रह्मणो अस्त्रेण योजयः ॥३०॥
स दीप्त इव काल अग्निः जज्वाल अभिमुखो द्विजम् । स तम् प्रदीप्तम् चिक्षेप दर्भम् तम् वायसम् प्रति ॥३१॥
ततस्तम् वायसम् दर्भः सोम्बरेऽनुजगाम ह । अनुसृष्टः तदा कालो जगाम विविधाम् गतिम् ॥३२॥
त्राण काम इमम् लोकम् सर्वम् वै विचचार ह । स पित्रा च परित्यक्तः सुरैः सर्वैः महर्षिभिः ॥३३॥
त्रीन् लोकान् सम्परिक्रम्य त्वाम् एव शरणम् गतः । स तम् निपतितम् भूमौ शरण्यः शरणा गतम् ॥३४॥
वध अर्हम् अपि काकुत्स्थ कृपया पर्यपालयः । परिद्यूनम् विषण्णम् च स त्वम् आयान्तम् उक्तवान् ॥३५॥
मोघम् कर्तुम् न शक्यम् तु ब्राह्मम् अस्त्रम् तत् उच्यताम् । हिनस्तु दक्षिणाक्षित्वच्छर इत्यथ सोऽब्रवीत् ॥३६॥
ततः तस्य अक्षि काकस्य हिनस्ति स्म स दक्षिणम् । दत्त्वा स दक्षिणम् नेत्रम् प्राणेभ्यः परिरक्षितः ॥३७॥
स रामाय नमस्कृत्वा राज्ञे दशरथाय च । विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥३८॥
मत् कृते काक मात्रे अपि ब्रह्म अस्त्रम् समुदीरितम् । कस्मात् यो माम् हरत् त्वत्तः क्षमसे तम् मही पते ॥३९॥
स कुरुष्व महाउत्साहम् कृपाम् मयि नर ऋषभ । त्वया नाथवती नाथ ह्यनाथा इव दृश्यते ॥४०॥
आनृशंस्यम् परो धर्मः त्वत्त एव मया श्रुतः । जानामि त्वाम् महावीर्यम् महाउत्साहम् महाबलम् ॥४१॥
अपार पारम् अक्षोभ्यम् गाम्भीर्यात् सागर उपमम् । भर्तारम् ससमुद्राया धरण्या वासव उपमम् ॥४२॥
एवम् अस्त्रविदाम् श्रेष्ठः सत्त्ववान् बलवान् अपि । किम् अर्थम् अस्त्रम् रक्षह्सु न योजयसि राघव ॥४३॥
न नागा न अपि गन्धर्वा न असुरा न मरुत् गणाः । रामस्य समरे वेगम् शक्ताः प्रति समाधितुम् ॥४४॥
तस्या वीर्यवतः कश्चित् यदि अस्ति मयि सम्भ्रमः । किम् अर्थम् न शरैः तीक्ष्णैः क्षयम् नयति राक्षसान् ॥४५॥
भ्रातुः आदेशम् आदाय लक्ष्मणो वा परम् तपः । कस्य हेतोः न माम् वीरः परित्राति महाबलः ॥४६॥
यदि तौ पुरुष व्याघ्रौ वाय्व् इन्द्र सम तेजसौ । सुराणाम् अपि दुर्धर्षो किम् अर्थम् माम् उपेक्षतः ॥४७॥
मम एव दुष्कृतम् किंचिन् महत् अस्ति न संशयः । समर्थाव् अपि तौ यन् माम् न अवेक्षेते परम् तपौ ॥४८॥
वैदेह्या वचनम् श्रुत्वा करुणम् साशुभाषितम् । अथाब्रवीन्महातेजा हनुमान् मारुतात्मजः ॥४९॥
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे । रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ॥५०॥
कथम् चिद्भवती दृष्टा न कालः परिदेवितुम् । इमम् मुहूर्तम् दुःखानाम् द्रक्ष्यस्यन्तमनिन्दिते ॥५१॥
तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ । त्वद्दर्शनकृतोत्साहौ लङ्काम् भस्मीकरिष्यतः ॥५२॥
हत्वा च समरे क्रूतम् रावणम् सहबान्धवम् । राघवस्त्वाम् विशालाक्षि नेष्यति स्वाम् पुरीम् प्रति ॥५३॥
ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः । सुग्रीवो वापि तेजस्वी हरयोऽपि समागताः ॥५४॥
इत्युक्तवति तस्मिंस्तु सीता सुरसुतोपमा । उवाच शोकसंतप्ता हनुमन्तं प्लवंगमम् ॥५५॥
कौसल्या लोक भर्तारम् सुषुवे यम् मनस्विनी । तम् मम अर्थे सुखम् पृच्छ शिरसा च अभिवादय ॥५६॥
स्रजः च सर्व रत्नानि प्रिया याः च वर अन्गनाः । ऐश्वर्यम् च विशालायाम् पृथिव्याम् अपि दुर्लभम् ॥५७॥
पितरम् मातरम् चैव सम्मान्य अभिप्रसाद्य च । अनुप्रव्रजितो रामम् सुमित्रा येन सुप्रजाः ॥५८॥
आनुकूल्येन धर्म आत्मा त्यक्त्वा सुखम् अनुत्तमम् । अनुगच्छति काकुत्स्थम् भ्रातरम् पालयन् वने ॥५९॥
सिम्ह स्कन्धो महाबाहुः मनस्वी प्रिय दर्शनः । पितृवत् वर्तते रामे मातृवन् माम् समाचरन् ॥६०॥
प्रियमाणाम् तदा वीरो न तु माम् वेद लक्ष्मणः । वृद्ध उपसेवी लक्ष्मीवान् शक्तो न बहु भाषिता ॥६१॥
राज पुत्रः प्रिय श्रेष्ठः सदृशः श्वशुरस्य मे । मत्तः प्रियतरो नित्यम् भ्राता रामस्य लक्ष्मणः ॥६२॥
नियुक्तो धुरि यस्याम् तु ताम् उद्वहति वीर्यवान् । यम् दृष्ट्वा राघवो न एव वृद्धम् आर्यम् अनुस्मरत् ॥६३॥
स मम अर्थाय कुशलम् वक्तव्यो वचनान् मम । मृदुः नित्यम् शुचिः दक्षः प्रियो रामस्य लक्ष्मणः ॥६४॥
यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् । त्वमस्मिन् कार्यनिर्योगे प्रमाण हरिसत्तम ॥६५॥
राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् । इदम् ब्रूयाः च मे नाथम् शूरम् रामम् पुनः पुनः ॥६६॥
जीवितम् धारयिष्यामि मासम् दशरथ आत्मज । ऊर्ध्वम् मासान् न जीवेयम् सत्येन अहम् ब्रवीमि ते ॥६७॥
रावणेन उपरुद्धाम् माम् निकृत्या पाप कर्मणा । त्रातुम् अर्हसि वीर त्वम् पातालात् इव कौशिकीम् ॥६८॥
ततो वस्त्र गतम् मुक्त्वा दिव्यम् चूडा मणिम् शुभम् । प्रदेयो राघवाय इति सीता हनुमते ददौ ॥६९॥
प्रतिगृह्य ततो वीरो मणि रत्नम् अनुत्तमम् । अन्गुल्या योजयामास न हि अस्या प्राभवत् भुजः ॥७०॥
मणि रत्नम् कपि वरः प्रतिगृह्य अभिवाद्य च । सीताम् प्रदक्षिणम् कृत्वा प्रणतः पार्श्वतः स्थितः ॥७१॥
हर्षेण महता युक्तः सीता दर्शनजेन सः । हृदयेन गतो रामम् शरीरेण तु विष्ठितः ॥७२॥
मणि वरम् उपगृह्य तम् महाअर्हम् । जनक नृप आत्मजया धृतम् प्रभावात् । गिरि वर पवन अवधूत मुक्तः । सुखित मनाः प्रतिसम्क्रमम् प्रपेदे ॥७३॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे अष्टत्रिंशः सर्गः ॥