मणिम् दत्त्वा ततः सीता हनूमन्तम् अथ अब्रवीत् । अभिज्ञानम् अभिज्ञातम् एतत् रामस्य तत्त्वतः ॥१॥
एकोनचत्वारिंशः सर्गः 5.39
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
मणिम् तु दृष्ट्वा रामो वै त्रयाणाम् संस्मरिष्यति । वीरो जनन्या मम च राज्ञो दशरथस्य च ॥२॥
स भूयः त्वम् समुत्साहे चोदितो हरि सत्तम । अस्मिन् कार्य समारम्भे प्रचिन्तय यत् उत्तरम् ॥३॥
त्वम् अस्मिन् कार्य निर्योगे प्रमाणम् हरि सत्तम । हनुमन् यत्नमास्थाय दुःखक्षयकरो भव ॥४॥
तस्य चिन्तय यो यत्नो दुह्ख क्षय करो भवेत् । स तथा इति प्रतिज्ञाय मारुतिः भीम विक्रमः ॥५॥
शिरसा आवन्द्य वैदेहीम् गमनाय उपचक्रमे । ज्ञात्वा सम्प्रस्थितम् देवी वानरम् मारुत आत्मजम् ॥६॥
बाष्प गद्गदया वाचा मैथिली वाक्यम् अब्रवीत् । कुशलम् हनुमन् ब्रूयाः सहितौ राम लक्ष्मणौ ॥७॥
सुग्रीवम् च सह अमात्यम् वृद्धान् सर्वान् च वानरान् । ब्रुयस्त्वाम् वानरश्रेष्ठ कुशलम् धर्मसम्हितम् ॥८॥
यथा च स महाबाहुः माम् तारयति राघवः । अस्मात् दुह्ख अम्बु सम्रोधात् त्वम् समाधातुम् अर्हसि ॥९॥
जीवन्तीम् माम् यथा रामः सम्भावयति कीर्तिमान् । तत् त्वया हनुमन् वाच्यम् वाचा धर्मम् अवाप्नुहि ॥१०॥
नित्यम् उत्साह युक्ताः च वाचः श्रुत्वा मया ईरिताः । वर्धिष्यते दाशरथेः पौरुषम् मत् अवाप्तये ॥११॥
मत् संदेश युता वाचः त्वत्तः श्रुत्वा एव राघवः । पराक्रम विधिम् वीरो विधिवत् सम्विधास्यति ॥१२॥
सीतायाः तत् वचः श्रुत्वा हनुमान् मारुत आत्मजः । शिरसि अञ्जलिम् आधाय वाक्यम् उत्तरम् अब्रवीत् ॥१३॥
क्षिप्रम् एष्यति काकुत्स्थो हरि ऋक्ष प्रवरैः वृतः । यस्ते युधि विजित्य अरीन् शोकम् व्यपनयिष्यति ॥१४॥
न हि पश्यामि मर्त्येषु न अमरेष्व् असुरेषु वा । यस्तस्य ष्खिपतो बाणान् स्थातुम् उत्सहते अग्रतः ॥१५॥
अपि अर्कम् अपि पर्जन्यम् अपि वैवस्वतम् यमम् । स हि सोढुम् रणे शक्तः तव हेतोः विशेषतः ॥१६॥
स हि सागर पर्यन्ताम् महीम् शासितुम् ईहते । त्वन् निमित्तो हि रामस्य जयो जनक नन्दिनि ॥१७॥
तस्य तत् वचनम् श्रुत्वा सम्यक् सत्यम् सुभाषितम् । जानकी बहु मेने अथ वचनम् च इदम् अब्रवीत् ॥१८॥
ततः तम् प्रस्थितम् सीता वीक्षमाणा पुनः पुनः । भर्तुः स्नेह अन्वितम् वाक्यम् सौहार्दात् अनुमानयत् ॥१९॥
यदि वा मन्यसे वीर वस एक अहम् अरिम् दम । कस्मिंश्चित् सम्वृते देशे विश्रान्तः श्वो गमिष्यसि ॥२०॥
मम चेत् अल्प भाग्यायाः साम्निध्यात् तव वीर्यवान् । अस्य शोकस्य महतो मुहूर्तम् मोक्षणम् भवेत् ॥२१॥
गते हि हरि शार्दूल पुनः आगमनाय तु । प्राणानाम् अपि संदेहो मम स्यान् न अत्र संशयः ॥२२॥
तव अदर्शनजः शोको भूयो माम् परितापयेत् । दुह्खात् दुह्ख परामृष्टाम् दीपयन्न् इव वानर ॥२३॥
अयम् च वीर संदेहः तिष्ठति इव मम अग्रतः । सुमहान् त्वत् सहायेषु हरि ऋक्षेषु हरि ईश्वर ॥२४॥
कथम् नु खलु दुष्पारम् तरिष्यन्ति महाउदधिम् । तानि हरि ऋक्ष सैन्यानि तौ वा नर वर आत्मजौ ॥२५॥
त्रयाणाम् एव भूतानाम् सागरस्य इह लन्घने । शक्तिः स्यात् वैनतेयस्य तव वा मारुतस्य वा ॥२६॥
तत् अस्मिन् कार्य निर्योगे वीर एवम् दुरतिक्रमे । किम् पश्यसि समाधानम् त्वम् हि कार्यविदाम् वरः ॥२७॥
कामम् अस्य त्वम् एव एकः कार्यस्य परिसाधने । पर्याप्तः पर वीरघ्न यशस्यः ते बल उदयः ॥२८॥
बलैः समग्रैः यदि माम् रावणम् जित्य सम्युगे । विजयी स्व पुरम् यायात् तत् तु मे स्यात् यशः करम् ॥२९॥
शरैस्तु सम्कुलाम् कृत्वा लन्काम् पर बल अर्दनः । माम् नयेत् यदि काकुत्स्थः तत् तस्य सदृशम् भवेत् ॥३०॥
तत् यथा तस्य विक्रान्तम् अनुरूपम् महात्मनः । भवेत् आहव शूरस्य तथा त्वम् उपपादय ॥३१॥
तत् अर्थ उपहितम् वाक्यम् सहितम् हेतु सम्हितम् । निशम्य हनुमान् शेषम् वाक्यम् उत्तरम् अब्रवीत् ॥३२॥
देवि हरि ऋक्ष सैन्यानाम् ईश्वरः प्लवताम् वरः । सुग्रीवः सत्त्व सम्पन्नः तव अर्थे कृत निश्चयः ॥३३॥
स वानर सहस्राणाम् कोटीभिः अभिसम्वृतः । क्षिप्रम् एष्यति वैदेहि राक्षसानाम् निबर्हणः ॥३४॥
तस्य विक्रम सम्पन्नाः सत्त्ववन्तो महाबलाः । मनः सम्कल्प सम्पाता निदेशे हरयः स्थिताः ॥३५॥
येषाम् न उपरि न अधस्तान् न तिर्यक् सज्जते गतिः । न च कर्मसु सीदन्ति महत्स्व् अमित तेजसः ॥३६॥
असकृत् तैः महाउत्सहैः ससागर धरा धरा । प्रदक्षिणी कृता भूमिः वायु मार्ग अनुसारिभिः ॥३७॥
मत् विशिष्टाः च तुल्याः च सन्ति तत्र वन ओकसः । मत्तः प्रत्यवरः कश्चिन् न अस्ति सुग्रीव सम्निधौ ॥३८॥
अहम् तावत् इह प्राप्तः किम् पुनः ते महाबलाः । न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हि इतरे जनाः ॥३९॥
तत् अलम् परितापेन देवि शोको व्यपैतु ते । एक उत्पातेन ते लन्काम् एष्यन्ति हरि यूथपाः ॥४०॥
मम पृष्ठ गतौ तौ च चन्द्र सूर्याव् इव उदितौ । त्वत् सकाशम् महासत्त्वौ नृसिम्हाव् आगमिष्यतः ॥४१॥
तौ हि वीरौ नर वरौ सहितौ राम लक्ष्मणौ । आगम्य नगरीम् लन्काम् सायकैः विधमिष्यतः ॥४२॥
सगणम् रावणम् हत्वा राघवो रघु नन्दनः । त्वाम् आदाय वर आरोहे स्व पुरम् प्रतियास्यति ॥४३॥
तत् आश्वसिहि भद्रम् ते भव त्वम् काल कान्क्षिणी । नचिरात् द्रक्ष्यसे रामम् प्रज्वजन्तम् इव अनिलम् ॥४४॥
निहते राक्षस इन्द्रे च सपुत्र अमात्य बान्धवे । त्वम् समेष्यसि रामेण शश अन्केन इव रोहिणी ॥४५॥
क्षिप्रम् त्वम् देवि शोकस्य पारम् यास्यसि मैथिलि । रावणम् चैव रामेण निहतम् द्रक्ष्यसे अचिरात् ॥४६॥
एवम् आश्वस्य वैदेहीम् हनूमान् मारुत आत्मजः । गमनाय मतिम् कृत्वा वैदेहीम् पुनः अब्रवीत् ॥४७॥
तम् अरिघ्नम् कृत आत्मानम् क्षिप्रम् द्रक्ष्यसि राघवम् । लक्ष्मणम् च धनुष् पाणिम् लन्का द्वारम् उपस्थितम् ॥४८॥
नख दम्ष्ट्र आयुधान् वीरान् सिम्ह शार्दूल विक्रमान् । वानरान् वारण इन्द्र आभान् क्षिप्रम् द्रक्ष्यसि सम्गतान् ॥४९॥
शैल अम्बुद निकाशानाम् लन्का मलय सानुषु । नर्दताम् कपि मुख्यानाम् आर्ये यूथानि अनेकशः ॥५०॥
स तु मर्मणि घोरेण ताडितो मन्मथ इषुणा । न शर्म लभते रामः सिम्ह अर्दित इव द्विपः ॥५१॥
मा रुदो देवि शोकेन मा भूत् ते मनसो अप्रियम् । शची इव पथ्या शक्रेण भर्त्रा नाथवती हि असि ॥५२॥
रामात् विशिष्टः को अन्यो अस्ति कश्चित् सौमित्रिणा समः । अग्नि मारुत कल्पौ तौ भ्रातरौ तव संश्रयौ ॥५३॥
न अस्मिन् चिरम् वत्स्यसि देवि देशे । रक्षो गणैः अध्युषितो अतिरौद्रे । न ते चिरात् आगमनम् प्रियस्य । क्षमस्व मत् साम्गम काल मात्रम् ॥५४॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्धरकाण्डे एकोनचत्वारिंशः सर्गः ॥