श्रुत्वा तु वचनम् तस्य वायु सूनोः महात्मनः । उवाच आत्म हितम् वाक्यम् सीता सुर सुत उपमा ॥१॥
चत्वारिंशः सर्गः 5.40
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
त्वाम् दृष्ट्वा प्रिय वक्तारम् सम्प्रहृष्यामि वानर । अर्ध सम्जात सस्य इव वृष्टिम् प्राप्य वसुम् धरा ॥२॥
यथा तम् पुरुष व्याघ्रम् गात्रैः शोक अभिकर्शितैः । संस्पृशेयम् सकामा अहम् तथा कुरु दयाम् मयि ॥३॥
अभिज्ञानम् च रामस्य दत्तम् हरि गण उत्तम । क्षिप्ताम् ईषिकाम् काकस्य कोपात् एक अक्षि शातनीम् ॥४॥
मनः शिलायाः तिकलो गण्ड पार्श्वे निवेशितः । त्वया प्रनष्टे तिलके तम् किल स्मर्तुम् अर्हसि ॥५॥
स वीर्यवान् कथम् सीताम् हृताम् समनुमन्यसे । वसन्तीम् रक्षसाम् मध्ये महाइन्द्र वरुण उपम ॥६॥
एष चूडा मणिः दिव्यो मया सुपरिरक्षितः । एतम् दृष्ट्वा प्रहृष्यामि व्यसने त्वाम् इव अनघ ॥७॥
एष निर्यातितः श्रीमान् मया ते वारि सम्भवः । अतः परम् न शक्ष्यामि जीवितुम् शोक लालसा ॥८॥
असह्यानि च दुह्खानि वाचः च हृदयच् चिदः । राक्षसीनाम् सुघोराणाम् त्वत् कृते मर्षयामि अहम् ॥९॥
धारयिष्यामि मासम् तु जीवितम् शत्रु सूदन । मासात् ऊर्ध्वम् न जीविष्ये त्वया हीना नृप आत्मज ॥१०॥
घोरो राक्षस राजो अयम् दृष्टिः च न सुखा मयि । त्वाम् च श्रुत्वा विपद्यन्तम् न जीवेयम् अहम् क्षणम् ॥११॥
वैदेह्या वचनम् श्रुत्वा करुणम् स अश्रु भाषितम् । अथ अब्रवीन् महातेजा हनुमान् मारुत आत्मजः ॥१२॥
त्वत् शोक विमुखो रामो देवि सत्येन ते शपे । रामे शोक अभिभूते तु लक्ष्मणः परितप्यते ॥१३॥
कथंचित् भवती दृष्टा न कालः परिशोचितुम् । इमम् मुहूर्तम् दुह्खानाम् अन्तम् द्रक्ष्यसि भामिनि ॥१४॥
ताव् उभौ पुरुष व्याघ्रौ राज पुत्राव् अनिन्दितौ । त्वत् दर्शन कृत उत्साहौ लन्काम् भस्मी करिष्यतः ॥१५॥
हत्वा तु समरे क्रूरम् रावणम् सह बान्धवम् । राघवौ त्वाम् विशाल अक्षि स्वाम् पुरीम् प्रापयिष्यतः ॥१६॥
यत् तु रामो विजानीयात् अभिज्ञानम् अनिन्दिते । प्रीति सम्जननम् तस्य भूयः त्वम् दातुम् अर्हसि ॥१७॥
सा अब्रवीत् दत्तम् एव इह मया अभिज्ञानम् उत्तमम् । एतत् एव हि रामस्य दृष्ट्वा मत् केश भूषणम् ॥१८॥
श्रद्धेयम् हनुमन् वाक्यम् तव वीर भविष्यति । स तम् मणि वरम् गृह्य श्रीमान् प्लवग सत्तमः ॥१९॥
प्रणम्य शिरसा देवीम् गमनाय उपचक्रमे । तम् उत्पात कृत उत्साहम् अवेक्ष्य हरि पुम्गवम् ॥२०॥
वर्धमानम् महावेगम् उवाच जनक आत्मजा । अश्रु पूर्ण मुखी दीना बाष्प गद्गदया गिरा ॥२१॥
हनूमन् सिम्ह सम्काशौ भ्रातरौ राम लक्ष्मणौ । सुग्रीवम् च सह अमात्यम् सर्वान् ब्रूया अनामयम् ॥२२॥
यथा च स महाबाहुः माम् तारयति राघवः । अस्मात् दुह्ख अम्बु सम्रोधात् तत् समाधातुम् अर्हसि ॥२३॥
इमम् च तीव्रम् मम शोक वेगम् । रक्षोभिः एभिः परिभर्त्सनम् च । ब्रूयाः तु रामस्य गतः समीपम् । शिवः च ते अध्वा अस्तु हरि प्रवीर ॥२४॥
स राज पुत्र्या प्रतिवेदित अर्थः । कपिः कृत अर्थः परिहृष्ट चेताः । तत् अल्प शेषम् प्रसमीक्ष्य कार्यम् । दिशम् हि उदीचीम् मनसा जगाम ॥२५॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे चत्वारिंशः सर्गः ॥