स च वाग्भिः प्रशस्ताभिः गमिष्यन् पूजितः तया । तस्मात् देशात् अपक्रम्य चिन्तयामास वानरः ॥१॥
एकचत्वारिंशः सर्गः 5.41
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अल्प शेषम् इदम् कार्यम् दृष्टा इयम् असित ईक्षणा । त्रीन् उपायान् अतिक्रम्य चतुर्थ इह दृश्यते ॥२॥
न साम रक्षह्सु गुणाय कल्पते । न दनम् अर्थ उपचितेषु वर्तते । न भेद साध्या बल दर्पिता जनाः । पराक्रमः तु एष मम इह रोचते ॥३॥
न च अस्य कार्यस्य पराक्रमात् ऋते । विनिश्चयः कश्चित् इह उपपद्यते । हृत प्रवीराः तु रणे हि राक्षसाः । कथंचित् ईयुः यत् इह अद्य मार्दवम् ॥४॥
कार्ये कर्मणि निर्दिष्टः यो बहूनि अपि साधयेत् । पूर्व कार्य विरोधेन स कार्यम् कर्तुम् अर्हति ॥५॥
न हि एकः साधको हेतुः स्वल्पस्य अपि इह कर्मणः । यो हि अर्थम् बहुधा वेद स समर्थो अर्थ साधने ॥६॥
इह एव तावत् कृत निश्चयो हि अहम् । यदि व्रजेयम् प्लवग ईश्वर आलयम् । पर आत्म सम्मर्द विशेष तत्त्ववित् । ततः कृतम् स्यान् मम भर्तृ शासनम् ॥७॥
कथम् नु खल्व् अद्य भवेत् सुख आगतम् । प्रसह्य युद्धम् मम राक्षसैः सह । तथैव खल्व् आत्म बलम् च सारवत् । समानयेन् माम् च रणे दश आननः ॥८॥
ततः समासाद्य रणे दशाननं । समन्त्रिवर्गम् सबलप्रयायिनम् । हृदि स्थितम् तस्य मतम् बलं च वै । सुखेन मत्त्वाऽहमितः पुनर्व्रजे ॥९॥
इदम् अस्य नृशंसस्य नन्दन उपमम् उत्तमम् । वनम् नेत्र मनः कान्तम् नाना द्रुम लता युतम् ॥१०॥
इदम् विध्वंसयिष्यामि शुष्कम् वनम् इव अनलः । अस्मिन् भग्ने ततः कोपम् करिष्यति स रावणः ॥११॥
ततो महत् साश्व महारथ द्विपम् । बलम् समानेष्व् अपि राक्षस अधिपः । त्रिशूल काल आयस पट्टिश आयुधम् । ततो महत् युद्धम् इदम् भविष्यति ॥१२॥
अहम् तु तैः सम्यति चण्ड विक्रमैः । समेत्य रक्षोभिः असम्ग विक्रमः । निहत्य तत् रावण चोदितम् बलम् । सुखम् गमिष्यामि कपि ईश्वर आलयम् ॥१३॥
ततो मारुतवत् क्रुद्धो मारुतिः भीम विक्रमः । ऊरु वेगेन महता द्रुमान् क्षेप्तुम् अथ आरभत् ॥१४॥
ततः तद्त् हनुमान् वीरो बभन्ज प्रमदा वनम् । मत्त द्विज समाघुष्टम् नाना द्रुम लता युतम् ॥१५॥
तत् वनम् मथितैः वृक्षैः भिन्नैः च सलिल आशयैः । चूर्णितैः पर्वत अग्रैः च बभूव अप्रिय दर्शनम् ॥१६॥
नानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयैः । ताम्रैः किलसयैः क्लान्तैः क्लान्तद्रुमलतायितम् ॥१७॥
न बभौ तद्वनम् तत्र दावानलहतम् यथा । व्याकुलावरणा रेजुर्विह्वला इव ता लताः ॥१८॥
लता गृहैः चित्र गृहैः च नाशितैः । महाउरगैः व्याल मृगैः च निर्धुतैः । शिला गृहैः उन्मथितैः तथा गृहैः । प्रनष्ट रूपम् तत् अभून् महत् वनम् ॥१९॥
साविह्वलाऽशोकलताप्रताना । वनस्थली शोकलताप्रताना । जाता दशास्यप्रमदावनस्य । कपेर्बलाद्धि प्रमदावनस्य ॥२०॥
स तस्य कृत्वा जगतीपतेर्महा । न्महत् व्यलीकम् मनसो महात्मनः । युयुत्सुः एको बहुभिः महाबलैः । श्रिया ज्वलन् तोरणम् आश्रितः कपिः ॥२१॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे एकचत्वारिंशः सर्गः ॥