ततः पक्षि निनादेन वृक्ष भन्ग स्वनेन च । बभूवुः त्रास सम्भ्रान्ताः सर्वे लन्का निवासिनः ॥१॥
द्विचत्वारिंशः सर्गः 5.42
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
विद्रुताः च भय त्रस्ता विनेदुः मृग पक्षुणः । रक्षसाम् च निमित्तानि क्रूराणि प्रतिपेदिरे ॥२॥
ततो गतायाम् निद्रायाम् राक्षस्यो विकृत आननाः । तत् वनम् ददृशुः भग्नम् तम् च वीरम् महाकपिम् ॥३॥
स ता दृष्ट्व महाबाहुः महासत्त्वो महाबलः । चकार सुमहत् रूपम् राक्षसीनाम् भय आवहम् ॥४॥
ततः तम् गिरि सम्काशम् अतिकायम् महाबलम् । राक्षस्यो वानरम् दृष्ट्वा पप्रच्छुः जनक आत्मजाम् ॥५॥
को अयम् कस्य कुतो वा अयम् किम् निमित्तम् इह आगतः । कथम् त्वया सह अनेन सम्वादः कृत इति उत ॥६॥
आचक्ष्व नो विशाल अक्षि मा भूत् ते सुभगे भयम् । सम्वादम् असित अपान्गे त्वया किम् कृतवान् अयम् ॥७॥
अथ अब्रवीत् तदा साध्वी सीता सर्व अन्ग शोभना । रक्षसाम् काम रूपाणाम् विज्ञाने मम का गतिः ॥८॥
यूयम् एव अस्य जानीत यो अयम् यत् वा करिष्यति । अहिः एव अहेः पादान् विजानाति न संशयः ॥९॥
अहम् अपि अस्य भीता अस्मि न एनम् जानामि को अन्वयम् । वेद्मि राक्षसम् एव एनम् काम रूपिणम् आगतम् ॥१०॥
वैदेह्या वचनम् श्रुत्वा राक्षस्यो विद्रुता द्रुतम् । स्थिताः काश्चित् गताः काश्चित् रावणाय निवेदितुम् ॥११॥
रावणस्य समीपे तु राक्षस्यो विकृत आननाः । विरूपम् वानरम् भीमम् आख्यतुम् उपचक्रमुः ॥१२॥
अशोक वनिका मध्ये राजन् भीम वपुः कपिः । सीतया कृत सम्वादः तिष्ठति अमित विक्रमः ॥१३॥
न च तम् जानकी सीता हरिम् हरिण लोचणा । अस्माभिः बहुधा पृष्टा निवेदयितुम् इच्छति ॥१४॥
वासवस्य भवेत् दूतो दूतो वैश्रवणस्य वा । प्रेषितो वा अपि रामेण सीता अन्वेषण कान्क्षया ॥१५॥
तेन त्वत् भूत रूपेण यत् तत् तव मनो हरम् । नाना मृग गण आकीर्णम् प्रमृष्टम् प्रमदा वनम् ॥१६॥
न तत्र कश्चित् उद्देशो यः तेन न विनाशितः । यत्र सा जानकी सीता स तेन न विनाशितः ॥१७॥
जानकी रक्षण अर्थम् वा श्रमात् वा न उपलभ्यते । अथवा कः श्रमः तस्य सा एव तेन अभिरक्षिता ॥१८॥
चारु पल्लव पत्र आढ्यम् यम् सीता स्वयम् आस्थिता । प्रवृद्धः शिंशपा वृक्षः स च तेन अभिरक्षितः ॥१९॥
तस्य उग्र रूपस्य उग्रम् त्वम् दण्डम् आज्ञातुम् अर्हसि । सीता सम्भाषिता येन तत् वनम् च विनाशितम् ॥२०॥
मनः परिगृहीताम् ताम् तव रक्षो गण ईश्वर । कः सीताम् अभिभाषेत यो न स्यात् त्यक्त जीवितः ॥२१॥
राक्षसीनाम् वचः श्रुत्वा रावणो राक्षस ईश्वरः । हुत अगिः इव जज्वाल कोप सम्वर्तित ईक्षणः ॥२२॥
तस्य क्रुद्धस्य नेत्राभ्याम् प्रापतन्नस्रबिन्दवः । दीप्ताभ्यामिव जज्वाल कोपसंवर्तितेक्षणः ॥२३॥
आत्मनः सदृशान् शूरान् किम्करान् नाम राक्षसान् । व्यादिदेश महातेजा निग्रह अर्थम् हनूमतः ॥२४॥
तेषाम् अशीति साहस्रम् किम्कराणाम् तरस्विनाम् । निर्ययुः भवनात् तस्मात् कूट मुद्गर पाणयः ॥२५॥
महाउदरा महादम्ष्ट्रा घोर रूपा महाबलाः । युद्ध अभिमनसः सर्वे हनूमत् ग्रहण उन्मुखाः ॥२६॥
ते कपिम् तम् समासाद्य तोरणस्थम् अवस्थितम् । अभिपेतुः महावेगाः पतन्गा इव पावकम् ॥२७॥
ते गदाभिः विचित्राभिः परिघैः कान्चन अन्गदैः । आजघ्नुः वानर श्रेष्ठम् शरैः आदित्य सम्निभैः ॥२८॥
मुद्गरैः पट्टिसैः शूलैः प्रासतोमरशक्तिभिः । परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ॥२९॥
हनूमान् अपि तेजस्वी श्रीमान् पर्वत सम्निभः । क्षिताव् आविध्य लान्गूलम् ननाद च महास्वनम् ॥३०॥
स भूत्वा सुमहाकायो हनुमान् मारुतात्मजः । धृष्टमास्फोटयामास लङ्काम् शब्देन पूरयन् ॥३१॥
तस्यस्फोटितशब्देन महता सानुनादिना । पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोयत् ॥३२॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ॥३३॥
दासोऽहम् कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । हनुमान् शत्रुसैन्यानाम् निहन्ता मारुतात्मजः ॥३४॥
न रावणसहस्रम् मे युद्धे प्रतिबलं भवेत् । शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥३५॥
अर्दयित्वा पुरीम् लङ्कामभिवाद्य च मैथिलीम् । समृद्धार्थो गमिष्यामि मिषताम् सर्वरक्षसाम् ॥३६॥
तस्य सन्नाद शब्देन ते अभवन् भय शन्किताः । ददृशुः च हनूमन्तम् संध्या मेघम् इव उन्नतम् ॥३७॥
स्वामि संदेश निह्शन्काः ततः ते राक्षसाः कपिम् । चित्रैः प्रहरणैः भीमैः अभिपेतुः ततः ततः ॥३८॥
स तैः परिवृतः शूरैः सर्वतः स महाबलः । आससाद आयसम् भीमम् परिघम् तोरण आश्रितम् ॥३९॥
स तम् परिघम् आदाय जघान रजनी चरान् । स पन्नगम् इव आदाय स्फुरन्तम् विनता सुतः ॥४०॥
विचचार अम्बरे वीरः परिगृह्य च मारुतिः । स हत्वा राक्षसान् वीरः किम्करान् मारुत आत्मजः ॥४१॥
युद्ध आकान्क्षी पुनः वीरः तोरणम् समुपस्थितः । ततः तस्मात् भयान् मुक्ताः कतिचित् तत्र राक्षसाः ॥४२॥
निहतान् किम्करान् सर्वान् रावणाय न्यवेदयन् । स राक्षसानाम् निहतम् महाबलम् । निशम्य राजा परिवृत्त लोचनः । समादिदेश अप्रतिमम् पराक्रमे । प्रहस्त पुत्रम् समरे सुदुर्जयम् ॥४३॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे द्विचत्वारिंशः सर्गः ॥