ततः स किम्करान् हत्वा हनूमान् ध्यानम् आस्थितः । वनम् भग्नम् मया चैत्य प्रासादो न विनाशितः ॥१॥
त्रिचत्वारिंशः सर्गः 5.43
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
तस्मात् प्रासादम् अपि एवम् इमम् विध्वंसयामि अहम् । इति संचिन्त्य हनुमान् मनसा दर्शयन् बलम् ॥२॥
चैत्य प्रासादम् आप्लुत्य मेरु शृन्गम् इव उन्नतम् । आरुरोह हरि श्रेष्ठो हनूमान् मारुत आत्मजः ॥३॥
आरुह्य गिरिसम्काशम् प्रासादम् हरियूथपः । बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः ॥४॥
सम्प्रधृष्य च दुर्धर्षः चैत्य प्रासादम् उन्नतम् । हनूमान् प्रज्वलम्ल् लक्ष्म्या पारियात्रा उपमो अभवत् ॥५॥
स भूत्वा तु महाकायो हनूमान् मारुत आत्मजः । धृष्टम् आस्फोटयामास लन्काम् शब्देन पूरयन् ॥६॥
तस्य आस्फोटित शब्देन महता श्रोत्र घातिना । पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः ॥७॥
अस्त्रविज्जयताम् रामो लक्ष्मणः च महाबलः । राजा जयति सुग्रीवो राघवेन अभिपालितः ॥८॥
दासो अहम् कोसल इन्द्रस्य रामस्य अक्लिष्ट कर्मणः । हनुमान् शत्रु सैन्यानाम् निहन्ता मारुत आत्मजः ॥९॥
न रावण सहस्रम् मे युद्धे प्रतिबलम् भवेत् । शिलाभिः तु प्रहरतः पादपैः च सहस्रशः ॥१०॥
अर्दयित्वा पुरीम् लन्काम् अभिवाद्य च मैथिलीम् । समृद्ध अर्थो गमिष्यामि मिषताम् सर्व रक्षसाम् ॥११॥
एवम् उक्त्वा विमानस्थः चैत्यस्थान् हरि पुम्गवः । ननाद भीम निर्ह्रादो रक्षसाम् जनयन् भयम् ॥१२॥
तेन शब्देन महता चैत्य पालाः शतम् ययुः । गृहीत्वा विविधान् अस्त्रान् प्रासान् खड्गान् परश्वधान् ॥१३॥
विसृजन्तो महाक्सया मारुतिम् पर्यवारयन् । ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ॥१४॥
अजघ्नर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः । आवर्त इव गन्गायाः तोयस्य विपुलो महान् ॥१५॥
परिक्षिप्य हरि श्रेष्ठम् स बभौ रक्षसाम् गणः । ततो वात आत्मजः क्रुद्धो भीम रूपम् समास्थितः ॥१६॥
प्रासादस्य महान् तस्य स्तम्भम् हेम परिष्कृतम् । उत्पाटयित्वा वेगेन हनूमान् मारुत आत्मजः ॥१७॥
ततः तम् भ्रामयामास शत धारम् महाबलः । तत्र चाग्निः समभवत्प्रासादश्चाप्यदह्यत ॥१८॥
दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः । स राक्षस शतम् हत्वा वज्रेण इन्द्र इव असुरान् ॥१९॥
अन्तरिक्ष स्थितः श्रीमान् इदम् वचनम् अब्रवीत् । मादृशानाम् सहस्राणि विसृष्टानि महात्मनाम् ॥२०॥
बलिनाम् वानर इन्द्राणाम् सुग्रीव वश वर्तिनाम् । अटन्ति वसुधाम् कृत्स्नाम् वयमये च वानराः ॥२१॥
दशनागबलाः केचित्केचिद्दशगुणोत्तराः । केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥२२॥
सन्ति चौघबलाः केचित्केचिद्वायुबलोपमाः । अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः ॥२३॥
ईदृग्विधैस्तु हरिभिर्वऋतो दन्तनखायुधैः । शतैः शत सहस्रैः च कोटीभिः अयुतैः अपि ॥२४॥
आगमिष्यति सुग्रीवः सर्वेषाम् वो निषूदनः । न इयम् अस्ति पुरी लन्का न यूयम् न च रावणः ॥२५॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः ॥