संदिष्टो राक्षस इन्द्रेण प्रहस्तस्य सुतो बली । जम्बु माली महादम्ष्ट्रो निर्जगाम धनुः धरः ॥१॥
चतुश्चत्वारिंशः सर्गः 5.44
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
रक्त माल्य अम्बर धरः स्रग्वी रुचिर कुण्डलः । महान् विवृत्त नयनः चण्डः समर दुर्जयः ॥२॥
धनुः शक्र धनुः प्रख्यम् महत् रुचिर सायकम् । विस्फारयाणो वेगेन वज्र अशनि सम स्वनम् ॥३॥
तस्य विस्फार घोषेण धनुषो महता दिशः । प्रदिशः च नभः चैव सहसा समपूर्यत ॥४॥
रथेन खर युक्तेन तम् आगतम् उदीक्ष्य सः । हनूमान् वेग सम्पन्नो जहर्ष च ननाद च ॥५॥
तम् तोरण विटन्कस्थम् हनूमन्तम् महाकपिम् । जम्बु माली महाबाहुः विव्याध निशितैः शरैः ॥६॥
अर्ध चन्द्रेण वदने शिरसि एकेन कर्णिना । बाह्वोः विव्याध नाराचैः दशभिः तम् कपि ईश्वरम् ॥७॥
तस्य तत् शुशुभे ताम्रम् शरेण अभिहतम् मुखम् । शरदि इव अम्बुजम् फुल्लम् विद्धम् भास्कर रश्मिना ॥८॥
तत्तस्य रक्तम् रक्तेन रञ्जितम् शुशुभे मुखम् । यथाकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ॥९॥
चुकोप बाण अभिहतो राक्षसस्य महाकपिः । ततः पार्श्वे अतिविपुलाम् ददर्श महतीम् शिलाम् ॥१०॥
तरसा ताम् समुत्पाट्य चिक्षेप बलवत् बली । ताम् शरैः दशभिः क्रुद्धः ताडयामास राक्षसः ॥११॥
विपन्नम् कर्म तत् दृष्ट्वा हनूमान् चण्ड विक्रमः । सालम् विपुलम् उत्पाट्य भ्रामयामास वीर्यवान् ॥१२॥
भ्रामयन्तम् कपिम् दृष्ट्वा साल वृक्षम् महाबलम् । चिक्षेप सुबहून् बाणान् जम्बु माली महाबलः ॥१३॥
सालम् चतुर्भिः चिच्छेद वानरम् पन्चभिः भुजे । उरसि एकेन बाणेन दशभिः तु स्तन अन्तरे ॥१४॥
स शरैः पूरित तनुः क्रोधेन महता वृतः । तम् एव परिघम् गृह्य भ्रामयामास वेगितः ॥१५॥
अतिवेगो अतिवेगेन भ्रामयित्वा बल उत्कटः । परिघम् पातयामास जम्बु मालेः महाउरसि ॥१६॥
तस्य चैव शिरो न अस्ति न बाहू न च जानुनी । न धनुः न रथो न अश्वाः तत्र अदृश्यन्त न इषवः ॥१७॥
स हतः तरसा तेन जम्बु माली महारथः । पपात निहतो भूमौ चूर्णित अन्ग विभूषणः ॥१८॥
जम्बु मालिम् च निहतम् किम्करान् च महाबलान् । चुक्रोध रावणः श्रुत्वा कोप सम्रक्त लोचनः ॥१९॥
स रोष सम्वर्तित ताम्र लोचनः । प्रहस्त पुत्रे निहते महाबले । अमात्य पुत्रान् अतिवीर्य विक्रमान् । समादिदेश आशु निशा चर ईश्वरः ॥२०॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ॥