ततः ते राक्षस इन्द्रेण चोदिता मन्त्रिणः सुताः । निर्ययुः भवनात् तस्मात् सप्त सप्त अर्चि वर्चसः ॥१॥
पञ्चचत्वारिंशः सर्गः 5.45
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
महाबल परीवारा धनुष्मन्तो महाबलाः । कृत अस्त्रा अस्त्रविदाम् श्रेष्ठाः परस्पर जय एषिणः ॥२॥
हेम जाल परिक्षिप्तैः ध्वजवद्भिः पताकिभिः । तोयद स्वन निर्घोषैः वाजि युक्तैः महारथैः ॥३॥
तप्त कान्चन चित्राणि चापानि अमित विक्रमाः । विस्फारयन्तः सम्हृष्टाः तडिद्वन्त इव अम्बुदाः ॥४॥
जनन्यः ताः ततः तेषाम् विदित्वा किम्करान् हतान् । बभूवुः शोक सम्भ्रान्ताः सबान्धव सुहृत् जनाः ॥५॥
ते परस्पर सम्घर्षाः तप्त कान्चन भूषणाः । अभिपेतुः हनूमन्तम् तोरणस्थम् अवस्थितम् ॥६॥
सृजन्तो बाण वृष्टिम् ते रथ गर्जित निह्स्वनाः । वृष्टिमन्त इव अम्भोदा विचेरुः नैरृत ऋषभाः ॥७॥
अवकीर्णः ततः ताभिः हनूमान् शर वृष्टिभिः । अभवत् सम्वृत आकारः शैल राड् इव वृष्टिभिः ॥८॥
स शरान् वन्चयामास तेषाम् आशु चरः कपिः । रथ वेगान् च वीराणाम् विचरन् विमले अम्बरे ॥९॥
स तैः क्रीडन् धनुष्मद्भिः व्योम्नि वीरः प्रकाशते । धनुष्मद्भिः यथा मेघैः मारुतः प्रभुः अम्बरे ॥१०॥
स कृत्वा निनदम् घोरम् त्रासयन् ताम् महाचमूम् । चकार हनुमान् वेगम् तेषु रक्षह्सु वीर्यवान् ॥११॥
तलेन अभिहनत् कांश्चित् पादैः कांश्चित् परम् तपः । मुष्टिना अभ्यहनत् कांश्चिन् नखैः कांश्चित् व्यदारयत् ॥१२॥
प्रममाथ उरसा कांश्चित् ऊरुभ्याम् अपरान् कपिः । केचित् तस्य एव नादेन तत्र एव पतिता भुवि ॥१३॥
ततः तेष्व् अवपन्नेषु भूमौ निपतितेषु च । तत् सैन्यम् अगमत् सर्वम् दिशो दश भय अर्दितम् ॥१४॥
विनेदुः विस्वरम् नागा निपेतुः भुवि वाजिनः । भग्न नीड ध्वजच् चत्रैः भूः च कीर्णा अभवत् रथैः ॥१५॥
स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि । विविधैश्च स्वरैर्लङ्का ननाद विकृतम् तदा ॥१६॥
स तान् प्रवृद्धान् विनिहत्य राक्षसान् । महाबलः चण्ड पराक्रमः कपिः । युयुत्सुः अन्यैः पुनः एव राक्षसैः । तत् एव वीरो अभिजगाम तोरणम् तत् ॥१७॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ॥