हतान् मन्त्रि सुतान् बुद्ध्वा वानरेण महात्मना । रावणः सम्वृत आकारः चकार मतिम् उत्तमाम् ॥१॥
ष्ट्चत्वारिंशः सर्गः 5.46
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
स विरूप अक्ष यूप अक्षौ दुर्धरम् चैव राक्षसम् । प्रघसम् भास कर्णम् च पन्च सेना अग्र नायकान् ॥२॥
संदिदेश दशग्रीवो वीरान् नय विशारदान् । हनूमत् ग्रहणे व्यग्रान् वायु वेग समान् युधि ॥३॥
यात सेना अग्रगाः सर्वे महाबल परिग्रहाः । सवाजि रथ मातन्गाः स कपिः शास्यताम् इति ॥४॥
यत् तैः च खलु भाव्यम् स्यात् तम् आसाद्य वन आलयम् । कर्म च अपि समाधेयम् देश काल विरोधितम् ॥५॥
न हि अहम् तम् कपिम् मन्ये कर्मणा प्रतितर्कयन् । सर्वथा तन् महत् भूतम् महाबल परिग्रहम् ॥६॥
भवेत् इन्द्रेण वा सृष्टम् अस्मत् अर्थम् तपो बलात् । सनाग यक्ष गन्धर्वा देव असुर महर्षयः ॥७॥
युष्माभिः सहितैः सर्वैः मया सह विनिर्जिताः । तैः अवश्यम् विधातव्यम् व्यलीकम् किंचित् एव नः ॥८॥
तत् एव न अत्र संदेहः प्रसह्य परिगृह्यताम् । न अवमन्यो भवद्भिः च हरिः क्रूर पराक्रमः ॥९॥
दृष्टा हि हरयः शीघ्रा मया विपुल विक्रमाः । वाली च सह सुग्रीवो जाम्बवान् च महाबलः ॥१०॥
नीलः सेना पतिः चैव ये च अन्ये द्विविद आदयः । न एव तेषाम् गतिः भीमा न तेजो न पराक्रमः ॥११॥
न मतिः न बल उत्साहो न रूप परिकल्पनम् । महत् सत्त्वम् इदम् ज्ञेयम् कपि रूपम् व्यवस्थितम् ॥१२॥
प्रयत्नम् महत् आस्थाय क्रियताम् अस्य निग्रहः । कामम् लोकाः त्रयः स इन्द्राः ससुर असुर मानवाः ॥१३॥
भवताम् अग्रतः स्थातुम् न पर्याप्ता रण अजिरे । तथा अपि तु नयज्ञेन जयम् आकान्क्षता रणे ॥१४॥
आत्मा रक्ष्यः प्रयत्नेन युद्ध सिद्धिः हि चन्चला । ते स्वामि वचनम् सर्वे प्रतिगृह्य महाओजसः ॥१५॥
समुत्पेतुः महावेगा हुत अश सम तेजसः । रथैः च मत्तैः नागैः च वाजिभिः च महाजवैः ॥१६॥
शस्त्रैः च विविधैः तीक्ष्णैः सर्वैः च उपचिता बलैः । ततः तम् ददृशुः वीरा दीप्यमानम् महाकपिम् ॥१७॥
रश्मिमन्तम् इव उद्यन्तम् स्व तेजो रश्मि मालिनम् । तोरणस्थम् महावेगम् महासत्त्वम् महाबलम् ॥१८॥
महामतिम् महाउत्साहम् महाकायम् महाबलम् । तम् समीक्ष्य एव ते सर्वे दिक्षु सर्वास्व् अवस्थिताः ॥१९॥
तैः तैः प्रहरणैः भीमैः अभिपेतुः ततः ततः । तस्य पन्च आयसाः तीक्ष्णाः सिताः पीत मुखाः शराः ॥२०॥
शिरस्ति उत्पल पत्र आभा दुर्धरेण निपातिताः । स तैः पन्चभिः आविद्धः शरैः शिरसि वानरः ॥२१॥
उत्पपात नदन् व्योम्नि दिशो दश विनादयन् । ततः तु दुर्धरो वीरः सरथः सज्ज कार्मुकः ॥२२॥
किरन् शर शतैः नैकैः अभिपेदे महाबलः । स कपिः वारयामास तम् व्योम्नि शर वर्षिणम् ॥२३॥
वृष्टिमन्तम् पयोदान्ते पयोदम् इव मारुतः । अर्द्यमानः ततः तेन दुर्धरेण अनिल आत्मजः ॥२४॥
चकार निनदम् भूयो व्यवर्धत च वेगवान् । स दूरम् सहसा उत्पत्य दुर्धरस्य रथे हरिः ॥२५॥
निपपात महावेगो विद्युत् राशिः गिराव् इव । ततः तम् मथित अष्ट अश्वम् रथम् भग्न अक्ष कूवरम् ॥२६॥
विहाय न्यपतत् भूमौ दुर्धरः त्यक्त जीवितः । तम् विरूप अक्ष यूप अक्षौ दृष्ट्वा निपतितम् भुवि ॥२७॥
सम्जात रोषौ दुर्धर्षाव् उत्पेततुः अरिम् दमौ । स ताभ्याम् सहसा उत्पत्य विष्ठितो विमले अम्बरे ॥२८॥
मुद्गराभ्याम् महाबाहुः वक्षसि अभिहतः कपिः । तयोः वेगवतोः वेगम् विनिहत्य महाबलः ॥२९॥
निपपात पुनः भूमौ सुपर्ण सम विक्रमः । स साल वृक्षम् आसाद्य समुत्पाट्य च वानरः ॥३०॥
ताव् उभौ राक्षसौ वीरौ जघान पवन आत्मजः । ततः तान् त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना ॥३१॥
अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् । भास कर्णः च सम्क्रुद्धः शूलम् आदाय वीर्यवान् ॥३२॥
एकतः कपि शार्दूलम् यशस्विनम् अवस्थितौ । पट्टिशेन शित अग्रेण प्रघसः प्रत्यपोथयत् ॥३३॥
भास कर्णः च शूलेन राक्षसः कपि सत्तमम् । स ताभ्याम् विक्षतैः गात्रैः असृग् दिग्ध तनू रुहः ॥३४॥
अभवत् वानरः क्रुद्धो बाल सूर्य सम प्रभः । समुत्पाट्य गिरेः शृन्गम् समृग व्याल पादपम् ॥३५॥
जघान हनुमान् वीरो राक्षसौ कपि कुन्जरः । ततः तेष्व् अवसन्नेषु सेना पतिषु पन्चसु ॥३६॥
बलम् तत् अवशेषम् तु नाशयामास वानरः । अश्वैः अश्वान् गजैः नागान् योधैः योधान् रथै रथान् ॥३७॥
स कपिः नाशयामास सहस्र अक्ष इव असुरान् । हतैः नागैः च तुरगैः भग्न अक्षैः च महारथैः ॥३८॥
हतैः च राक्षसैः भूमी रुद्ध मार्गा समन्ततः । ततः कपिः तान् ध्वजिनी पतीन् रणे । निहत्य वीरान् सबलान् सवाहनान् । तत् एव वीरः परिगृह्य तोरणम् । कृत क्षणः काल इव प्रजा क्षये ॥३९॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे ष्ट्चत्वारिंशः सर्गः ॥