सेना पतीन् पन्च स तु प्रमापितान् । हनूमता सानुचरान् सवाहनान् । समीक्ष्य राजा समर उद्धत उन्मुखम् । कुमारम् अक्षम् प्रसमैक्षत अक्षतम् ॥१॥
सप्तचत्वारिंशः सर्गः 5.47
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
स तस्य दृष्टि अर्पण सम्प्रचोदितः । प्रतापवान् कान्चन चित्र कार्मुकः । समुत्पपात अथ सदसि उदीरितो । द्विजाति मुख्यैः हविषा इव पावकः ॥२॥
ततो महत् बाल दिवा कर प्रभम् । प्रतप्त जाम्बू नद जाल सम्ततम् । रथाम् समास्थाय ययौ स वीर्यवान् । महाहरिम् तम् प्रति नैरृत ऋषभः ॥३॥
ततः तपः सम्ग्रह संचय अर्जितम् । प्रतप्त जाम्बू नद जाल शोभितम् । पताकिनम् रत्न विभूषित ध्वजम् । मनो जव अष्ट अश्व वरैः सुयोजितम् ॥४॥
सुर असुर अधृष्यम् असम्ग चारिणम् । रवि प्रभम् व्योम चरम् समाहितम् । सतूणम् अष्ट असि निबद्ध बन्धुरम् । यथा क्रम आवेशित शक्ति तोमरम् ॥५॥
विराजमानम् प्रतिपूर्ण वस्तुना । सहेम दाम्ना शशि सूर्य वर्वसा । दिवा कर आभम् रथम् आस्थितः ततः । स निर्जगाम अमर तुल्य विक्रमः ॥६॥
स पूरयन् खम् च महीम् च साचलाम् । तुरम्ग मतन्ग महारथ स्वनैः । बलैः समेतैः स हि तोरण स्थितम् । समर्थम् आसीनम् उपागमत् कपिम् ॥७॥
स तम् समासाद्य हरिम् हरि ईक्षणो । युग अन्त काल अग्निम् इव प्रजा क्षये । अवस्थितम् विस्मित जात सम्भ्रमः । समैक्षत अक्षो बहु मान चक्षुषा ॥८॥
स तस्य वेगम् च कपेः महात्मनः । पराक्रमम् चारिषु पार्ह्तिव आत्मजः । विचारयन् खम् च बलम् महाबलो । हिम क्षये सूर्य इव अभिवर्धते ॥९॥
स जात मन्युः प्रसमीक्ष्य विक्रमम् । स्थिरः स्थितः सम्यति दुर्निवारणम् । समाहित आत्मा हनुमन्तम् आहवे । प्रचोदयामास शरैः त्रिभिः शितैः ॥१०॥
ततः कपिम् तम् प्रसमीक्ष्य गर्वितम् । जित श्रमम् शत्रु पराजयोः जितम् । अवैक्षत अक्षः समुदीर्ण मानसः । सबाण पाणिः प्रगृहीत कार्मुकः ॥११॥
स हेम निष्क अन्गद चारु कुण्डलः । समाससाद आशु पराक्रमः कपिम् । तयोः बभूव अप्रतिमः समागमः । सुर असुराणाम् अपि सम्भ्रम प्रदः ॥१२॥
ररास भूमिः न तताप भानुमान् । ववौ न वायुः प्रचचाल च अचलः । कपेः कुमारस्य च वीक्ष्य सम्युगम् । ननाद च द्यौः उदधिः च चुक्षुभे ॥१३॥
ततः स वीरः सुमुखान् पतत्रिणः । सुवर्ण पुन्खान् सविषान् इव उरगान् । समाधि सम्योग विमोक्ष तत्त्ववित् । शरान् अथ त्रीन् कपि मूर्ध्नि अपातयत् ॥१४॥
स तैः शरैः मूर्ध्नि समम् निपातितैः । क्षरन्न् असृग् दिग्ध विवृत्त लोचनः । नव उदित आदित्य निभः शर अंशुमान् । व्यराजत आदित्य इव अंशु मालिकः ॥१५॥
ततः स पिन्ग अधिप मन्त्रि सत्तमः । समीक्ष्य तम् राज वर आत्मजम् रणे । उदग्र चित्र आयुध चित्र कार्मुकम् । जहर्ष च आपूर्यत च आहव उन्मुखः ॥१६॥
स मन्दर अग्रस्थ इव अंशु माली । विवृद्ध कोपो बल वीर्य सम्युतः । कुमारम् अक्षम् सबलम् सवाहनम् । ददाह नेत्र अग्नि मरीचिभिः तदा ॥१७॥
ततः स बाण आसन शक्र कार्मुकः । शर प्रवर्षो युधि राक्षस अम्बुदः । शरान् मुमोच आशु हरि ईश्वर अचले । बलाहको वृष्टिम् इव अचल उत्तमे ॥१८॥
ततः कपिः तम् रण चण्ड विक्रमम् । विवृद्ध तेजो बल वीर्य सायकम् । कुमारम् अक्षम् प्रसमीक्ष्य सम्युगे । ननाद हर्षात् घन तुल्य विक्रमः ॥१९॥
स बाल भावात् युधि वीर्य दर्पितः । प्रवृद्ध मन्युः क्षतज उपम ईक्षणः । समाससाद अप्रतिमम् रणे कपिम् । गजो महाकूपम् इव आवृतम् तृणैः ॥२०॥
स तेन बाणैः प्रसभम् निपातितैः । चकार नादम् घन नाद निह्स्वनः । समुत्पपात आशु नभः स मारुतिः । भुज ऊरु विक्षेपण घोर दर्शनः ॥२१॥
समुत्पतन्तम् समभिद्रवत् बली । स राक्षसानाम् प्रवरः प्रतापवान् । रथी रथ श्रेष्ठतमः किरन् शरैः । पयो धरः शैलम् इव अश्म वृष्टिभिः ॥२२॥
स तान् शरान् तस्य विमोक्षयन् कपिः । चचार वीरः पथि वायु सेविते । शर अन्तरे मारुतवत् विनिष्पतन् । मनो जवः सम्यति चण्ड विक्रमः ॥२३॥
तम् आत्त बाण आसनम् आहव उन्मुखम् । खम् आस्तृणन्तम् विविधैः शर उत्तमैः । अवैक्षत अक्षम् बहु मान चक्षुषा । जगाम चिन्ताम् च स मारुत आत्मजः ॥२४॥
ततः शरैः भिन्न भुज अन्तरः कपिः । कुमार वर्येण महात्मना नदन् । महाभुजः कर्म विशेष तत्त्ववित् । विचिन्तयामास रणे पराक्रमम् ॥२५॥
अबालवत् बाल दिवा कर प्रभः । करोति अयम् कर्म महन् महाबलः । न च अस्य सर्व आहव कर्म शोभिनः । प्रमापणे मे मतिः अत्र जायते ॥२६॥
अयम् महात्मा च महान् च वीर्यतः । समाहितः च अतिसहः च सम्युगे । असंशयम् कर्म गुण उदयात् अयम् । सनाग यक्षैः मुनिभिः च पूजितः ॥२७॥
पराक्रम उत्साह विवृद्ध मानसः । समीक्षते माम् प्रमुख आगतः स्थितः । पराक्रमो हि अस्य मनांसि कम्पयेत् । सुर असुराणाम् अपि शीघ्र कारिणः ॥२८॥
न खल्व् अयम् न अभिभवेत् उपेक्षितः । पराक्रमो हि अस्य रणे विवर्धते । प्रमापणम् तु एव मम अस्य रोचते । न वर्धमानो अग्निः उपेक्षितुम् क्षमः ॥२९॥
इति प्रवेगम् तु परस्य तर्कयन् । स्व कर्म योगम् च विधाय वीर्यवान् । चकार वेगम् तु महाबलः तदा । मतिम् च चक्रे अस्य वधे महाकपिः ॥३०॥
स तस्य तान् अष्ट हयान् महाजवान् । समाहितान् भार सहान् विवर्तने । जघान वीरः पथि वायु सेविते । तल प्रहालैः पवन आत्मजः कपिः ॥३१॥
ततः तलेन अभिहतो महारथः । स तस्य पिन्ग अधिप मन्त्रि निर्जितः । स भग्न नीडः परिमुक्त कूबरः । पपात भूमौ हत वाजिः अम्बरात् ॥३२॥
स तम् परित्यज्य महारथो रथम् । सकार्मुकः खड्ग धरः खम् उत्पतत् । तपो अभियोगात् ऋषिः उग्र वीर्यवान् । विहाय देहम् मरुताम् इव आलयम् ॥३३॥
ततः कपिः तम् विचरन्तम् अम्बरे । पतत्रि राजा अनिल सिद्ध सेविते । समेत्य तम् मारुत वेग विक्रमः । क्रमेण जग्राह च पादयोः दृढम् ॥३४॥
स तम् समाविध्य सहस्रशः कपिः । महाउरगम् गृह्य इव अण्डज ईश्वरः । मुमोच वेगात् पितृ तुल्य विक्रमो । मही तले सम्यति वानर उत्तमः ॥३५॥
स भग्न बाहु ऊरु कटी शिरो धरः । क्षरन्न् असृन् निर्मथित अस्थि लोचनः । स भिन्न संधिः प्रविकीर्ण बन्धनो । हतः क्षितौ वायु सुतेन राक्षसः ॥३६॥
महाकपिः भूमि तले निपीड्य तम् । चकार रक्षो अधिपतेः महत् भयम् । महर्षिभिः चक्र चरैः महाव्रतैः । समेत्य भूतैः च सयाक्ष पन्नगैः । सुरैः च स इन्द्रैः भृश जात विस्मयैः । हते कुमारे स कपिः निरीक्षितः ॥३७॥
निहत्य तम् वज्र सुत उपम प्रभम् । कुमारम् अक्षम् क्षतज उपम ईक्षणम् । तत् एव वीरो अभिजगाम तोरणम् । कृत क्षणः काल इव प्रजा क्षये ॥३८॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः ॥