ततस्तु रक्षोधितिर्महात्म । हनूमताक्षे निहते कुमारे । मनः समाधाय स देवकल्पम् । समादिदेशेन्द्रजितम् सरोषः ॥१॥
अष्टचत्वारिंशः सर्गः 5.48
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
त्वमस्त्रविच्छस्त्रविदाम् वरिष्ठः । सुरासुराणामपि शोकदाता । सुरेषु सेन्द्रेषु च दृष्टकर्मा । पितामहाराधनसंचितास्त्रः ॥२॥
तवास्त्रबलमासाद्य ससुराः समरुद्गणाः । न शेकुः समरे स्थातुम् सुरेश्वरसमाश्रिताः ॥३॥
न कश्चित्त्रिषु लोकेषु सम्युगे न गतश्रमः । भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः ॥४॥
देशकालविभागज्ञस्त्वमेव मतिसत्तमः । न तेऽस्त्यशक्यम् समरेषु कर्मणा । न तेऽस्त्यकार्यम् मतिपूर्वमन्त्रणे । न सोऽस्ति कश्चित्त्रिषु सम्ग्रहेषु वै । न वेद यस्तेऽस्त्रबलम् बलम् च ते ॥५॥
ममानुरूपम् तपसो बलम् च ते । पराक्रमश्चास्त्रबलम् च सम्युगे । न त्वाम् समासाद्य रणावमर्दे । मनः श्रमं गच्छति निश्चितार्थम् ॥६॥
निहताः किम्कराः सर्वे जम्बुमाली च राक्षसः । अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ॥७॥
बलानि सुसमृद्धानि साश्वनागरथानि च । सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः ॥८॥
न हि तेष्वेव मे सारो यस्त्व य्यरिनिषूदन । इदम् हि दृष्ट्वा मतिमन् महाद्बलम् । कपेः प्रभावम् च पराक्रमम् च । त्वमात्मनश्चापि समीक्ष्य सारं । कुरुष्व वेगम् स्वबलानुरूपम् ॥९॥
बलावमर्दस्वयि सम्निकृष्टे । यथा गते शाम्यति शान्तशत्रौ । तथा समीक्ष्यात्मबलम् परम् च । समारभस्वास्त्रविदाम् वरिष्ठ ॥१०॥
न वीरसेना गणशोच्य (प्य) वन्ति । न वज्रमादाय विशालसारम् । न मारुतस्यास्य गतेः प्रमाणम् । न चाग्निकल्पः करणेन हन्तुम् ॥११॥
तमेवमर्थम् प्रसमीक्ष्य सम्यक् । स्वकर्मसाम्याद्धि समाहितात्म । स्मरंश्च दिव्यम् धनुषोऽस्त्रवीर्यम् । व्रजाक्षतम् कर्म समारभस्व ॥१२॥
न खल्वियम् मतिः श्रेष्ठा यत्त्वाम् सम्प्रेषयाम्यहम् । इयम् च राजधर्माणाम् क्षत्रियस्य मतिर्मता ॥१३॥
नानाशस्त्रेषु सम्ग्रामे वैशारद्यमरिंदम् । अवश्यमेव बोद्धव्यम् काम्यश्च विजयो रणे ॥१४॥
ततः पितुस्तद्वचनम् निशम्य । प्रदक्षिणम् कक्षसुतप्रभावः । चकार भर्तारमदीनसत्त्वो । रणाय वीरः प्रतिपन्नबुद्धिः ॥१५॥
ततसैः स्वगणैरिष्टैरिन्द्रजित् प्रतिपूजितः । यद्धोद्धतः कृतोत्साहः सम्ग्रामम् प्रत्यपद्यत ॥१६॥
श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः । निर्जगाम महातेजाः समुद्र इव पर्वसु ॥१७॥
स पक्षिराजोपमतुल्यवेगै । र्व्याळैश्चतुर्भिः सिततीक्ष्णदम्ष्ट्रैः । रथम् समायुक्तमसम्गवेगम् । समारुरोहेन्द्रजिदिन्द्रकल्पः ॥१८॥
स रथी धन्विनाम् श्रेष्ठः शस्त्रज्ञोऽस्त्रविदाम् वरः । रथेनाभिययौ क्षिप्रम् हनुमान्यत्र सोऽभवत् ॥१९॥
स तस्य रथनिर्घोषम् ज्यास्वनम् कार्मुकस्य च । निशम्य हरिवीरोऽसौ सम्प्रहृष्टतरोऽभवत् ॥२०॥
सुमहाच्चापमादाय शितशल्यांश्च सायकान् । हनुमन्तमभिप्रेत्य जगाम रणपण्डितः ॥२१॥
तस्मिंस्ततः सम्यति जातहर्षे । रणाय निर्गच्छति चापपाणौ । दिशश्च सर्वाः कलुषा बभूवु । र्मृगाश्च रौद्रा बहुधा विनेदुः ॥२२॥
समागतास्तत्र तु नागयक्षा । महर्षयश्चक्रचराश्च सिद्धाः । नभः समावृत्य च पक्षिसम्घा । विनेदुरुच्चैः परमप्रहृष्टाः ॥२३॥
आयान्तम् सरथम् दृष्ट्वा तूर्णमन्द्रिजितम् कपिः । विननाद महानादम् व्यवर्धत च वेगवान् ॥२४॥
इन्द्रजित्तु रथम् दिव्यमास्थितश्चित्रकार्मुकः । धनुर्विष्फारयामास तटिदूर्जितनिस्स्वनम् ॥२५॥
ततः समेतावतितीक्ष्णवेगौ । महाबलौ तौ रणनिर्विशङ्कौ । कपिश्च रक्षोधिपतेस्तनूजः । सुरासुरेन्द्रनिव बद्धवैरौ ॥२६॥
स तस्य वीरस्य महारथस्य । धनुष्मतः सम्यति सम्मतस्य । शरप्रवेगम् व्यहनत्प्रवृद्ध । श्चचार मार्गे पितुरप्रमेयः ॥२७॥
ततः श्रानायततीक्ष्णशल्यान् । सुपत्रिणः काञ्चनचित्रपुङ्खान् । मुमोच वीरः परवीरहन्ता । सुनन्नतान् वज्रनिपातवेगान् ॥२८॥
ततः स तत्स्यन्दननिःस्वनम् च । मृदङ्गभेरीपटहस्वनम् च । विकृष्यमाणस्य च कार्मुकस्य । निशम्य घोषम् पुनरुत्पपात ॥२९॥
शराणामन्तरेष्वाशु व्यवर्तत महाकपिः । हरिस्तस्याभिलक्ष्यस्य मोघयन् लक्ष्यसम्ग्रहम् ॥३०॥
शराणामग्रतस्तस्य पुनः समभिवर्तत । प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ॥३१॥
तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ । सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् ॥३२॥
हनुमतो वेद न राक्षसोऽन्त्रम् । न मारुतिस्तस्य महात्मनोऽन्तरम् । परस्परम् निर्विषहौ बभूवतुः । समेत तौ देवसमानविक्रमौ ॥३३॥
ततस्तु लक्ष्ये स विहन्यमाने । शरेष्वमोघेषु च संपतत्सु । जगाम चिन्ताम् महतीम् महात्मा । समाधिसम्योगसमाहितात्मा ॥३४॥
ततो मतिम् राक्षसराजसूनु । श्चकार तस्मिन् हरिवीरमुख्ये । अवध्यताम् तस्य कपेः समीक्ष्य । कथम् निगच्छेदिति निग्रहार्थम् ॥३५॥
ततः पैतामहम् वीरः सोऽस्त्रमस्त्रविदाम् वरः । संदधे सुमहातेजास्तम् हरिप्रारम् प्रति ॥३६॥
अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् । निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित् ॥३७॥
तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः । अभवन्निर्विचेष्टश्च पपात स महीतले ॥३८॥
ततोऽथ बुद्ध्वा स तदस्त्रबन्धम् । प्रभोः प्रभावाद्विगतात्मवेगः । पितामहानुग्रहमात्मनश्च । विचिन्तयामास हरिप्रवीतः ॥३९॥
ततह् स्वायम्भुवैर्मन्रैर्ब्रह्मस्त्रमभिमन्त्रितम् । हनुमांश्चिन्तयामास वरदानम् पितामहात् ॥४०॥
न मेऽस्त्रबन्धस्य च शक्तिरस्ति । मिमोक्षणे लोकगुरोः प्रभावात् । इत्येव मत्वा विहितोऽस्त्रबन्धो । मयात्मयोनेरनुवर्तितव्यः ॥४१॥
स वीर्यमस्त्रस्य कपिर्विचार्य । पितामहानुग्रहमात्मनश्च । विमोक्षशक्तिम् परिचिन्तयित्वा । पितामाहाज़्ज़्नामनुवर्तते स्म ॥४२॥
अस्त्रेणापि हि बद्धस्य भयम् मम न जायते । पितामहम् हेन्द्राभ्याम् रक्षितस्यानिलेन च ॥४३॥
ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम् । राक्षसेन्द्रेण सम्वादस्तस्माद्गृह्णन्तु माम् परे ॥४४॥
स निश्चितार्थः परवीरहन्ता । समीक्ष्यकारी विनिवृत्तचेष्टः । परैः प्रसह्याभिगतैर्निगृह्य । ननाद तैस्तैः परिभर्त्स्यमानः ॥४५॥
ततस्तम् राक्षसा दृष्ट्वा निर्विचेष्टमरिंदमम् । बबन्धुः शणवल्कैश्च द्रुमचीरैश्च सम्हतैः ॥४६॥
स रोचयामास परैश्च बन्धनम् । प्रश्य वीरैरभिनिग्रहम् च । कौरूहलान्माम् यदि राक्षसेन्द्रो । द्रष्टो व्यवस्येदिति निश्चितार्थः ॥४७॥
स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान् । अस्त्रबन्धः स चान्यम् हि न बन्धमनुवर्तते ॥४८॥
अथेन्द्रजित्तु द्रुमचीरबद्धम् । विचार्य वीरः कपिसत्तमम् तम् । विमुक्तमस्त्रेण जगाम चिन्ताम् । नान्येन बद्धो ह्यनुवर्ततेऽस्त्रम् ॥४९॥
अहो महत्कर्म कृतम् निरर्थकम् । न राक्षसैर्मन्त्रगतिर्विमृष्टा । पुनश मन्त्रे विहतेऽस्त्रमन्य । त्प्रवर्तते संशयिताः स्म सर्वे ॥५०॥
अस्त्रेण हनुमान् मुक्तो नात्मानमवबुध्यत । कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः ॥५१॥
हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः । समीपे राक्षसेन्द्रस्य प्राकृष्यत स वानरः ॥५२॥
अथेन्द्रजित्तम् प्रसमीक्ष्य मुक्त । मस्त्रेण बद्धम् द्रुमचीरसूत्रैः । व्यदर्शयत्तत्र महाबलम् तम् । हरिप्रवीरम् सगणाय राज्ञे ॥५३॥
तम् मत्तमिव मातङ्गम् बद्धम् कपिवरोत्तमम् । राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥५४॥
कोऽयम् कस्य कुतो वात्र किम् कार्यम् को व्यपाश्रयः । इति राक्षसवीराणाम् तत्र सम्ज्ज्ञिरे कथेः ॥५५॥
हन्यताम् दह्यताम् वापि भक्ष्यतामिति चापरे । राक्षसास्तत्र सम्क्रुद्धाः परस्परमथाब्रुवन् ॥५६॥
अत्तित्य मार्गम् सहसा महात्मा । स तत्र रक्षोधिपपादमूले । ददर्श राज्ञः परिचारवृद्धान् । गृहम् महारत्नविभूषितम् च ॥५७॥
स ददर्श महातेजा रावणः कपिसत्तमम् । रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः ॥५८॥
राक्षसाधिपतिम् चापि ददर्श कपिसत्तमः । तेजोबलसमायुक्तम् तपन्त मिव भास्करम् ॥५९॥
स रोषसम्वर्तितताम्रदृष्टि । र्दशाननस्तम् कपिमन्ववेक्ष्य । अथोपविष्टान् कुलशीलवृद्धन् । समादिशत्तम् प्रति मन्त्रिमुख्यान् ॥६०॥
यथाक्रमम् तैः स कपिर्विपृष्टः । कार्यार्थमर्थस्य च मूलमादौ । निवेदयामास हरीश्वरस्य । दूतः सकाशादहमागतोऽस्मि ॥६१॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः ॥