रामायणम्

एकोनपञ्चाशः सर्गः 5.49

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः स कर्मणा तस्य विस्मितो भीम विक्रमः । हनुमान् रोष ताम्र अक्षो रक्षो अधिपम् अवैक्षत ॥१॥

भ्राजमानम् महाअर्हेण कान्चनेन विराजता । मुक्ता जाल आवृतेन अथ मुकुटेन महाद्युतिम् ॥२॥

वज्र सम्योग सम्युक्तैः महाअर्ह मणि विग्रहैः । हैमैः आभरणैः चित्रैः मनसा इव प्रकल्पितैः ॥३॥

महाअर्ह क्षौम सम्वीतम् रक्त चन्दन रूषितम् । स्वनुलिप्तम् विचित्राभिः विविधभिः च भक्तिभिः ॥४॥

विपुलैः दर्शनीयैः च रक्ष अक्षैः भीम दर्शनैः । दीप्त तीक्ष्ण महादम्ष्ट्रैः प्रलम्ब दशनच् चदैः ॥५॥

शिरोभिः दशभिः वीरम् भ्राजमानम् महाओजसम् । नाना व्याल समाकीर्णैः शिखरैः इव मन्दरम् ॥६॥

नील अञ्जन चय प्रख्यम् हारेण उरसि राजता । पूर्ण चन्द्र आभ वक्त्रेण सबलाकम् इव अम्बुदम् ॥७॥

बाहुभिः बद्ध केयूरैः चन्दन उत्तम रूषितैः । भ्राजमान अन्गदैः पीनैः पन्च शीर्षैः इव उरगैः ॥८॥

महति स्फाटिके चित्रे रत्न सम्योग संस्कृते । उत्तम आस्तरण आस्तीर्णे उपविष्टम् वर आसने ॥९॥

अलम्कृताभिः अत्यर्थम् प्रमदाभिः समन्ततः । वाल व्यजन हस्ताभिः आरात् समुपसेवितम् ॥१०॥

दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा । मन्त्रिभिः मन्त्र तत्त्वज्ञैः निकुम्भेन च मन्त्रिणा ॥११॥

उप उपविष्टम् रक्षोभिः चतुर्भिः बल दर्पितैः । कृत्स्नैः परिवृतम् लोकम् चतुर्भिः इव सागरैः ॥१२॥

मन्त्रिभिः मन्त्र तत्त्वज्ञैः अन्यैः च शुभ बुद्धिभिः । अश्वास्यमानम् सचिवैः सुरैः इव सुर ईश्वरम् ॥१३॥

अपश्यत् राक्षस पतिम् हनूमान् अतितेजसम् । विष्ठितम् मेरु शिखरे सतोयम् इव तोयदम् ॥१४॥

स तैः सम्पीड्यमानो अपि रक्षोभिः भीम विक्रमैः । विस्मयम् परमम् गत्वा रक्षो अधिपम् अवैक्षत ॥१५॥

भ्राजमानम् ततो दृष्ट्वा हनुमान् राक्षस ईश्वरम् । मनसा चिन्तयामास तेजसा तस्य मोहितः ॥१६॥

अहो रूपम् अहो धैर्यम् अहो सत्त्वम् अहो द्युतिः । अहो राक्षस राजस्य सर्व लक्षण युक्तता ॥१७॥

यदि अधर्मो न बलवान् स्यात् अयम् राक्षस ईश्वरः । स्यात् अयम् सुर लोकस्य सशक्रस्य अपि रक्षिता ॥१८॥

अस्य क्रूरैर्नृशम् सैश्च कर्मभिर्लोककुत्सितैः । सर्वे बिभ्यति खल्वस्माल्लोकाः सामरदानवाः ॥१९॥

अयम् ह्युत्सह्ते क्रुद्धः कर्तुमेकार्णवम् जगत् । इति चिन्ताम् बहु विधाम् अकरोन् मतिमान् कपिः । दृष्ट्वा राक्षस राजस्य प्रभावम् अमित ओजसः ॥२०॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे एकोनपञ्चाशः सर्गः ॥

Listen to the sarga
0:00