तम् उद्वीक्ष्य महाबाहुः पिन्ग अक्षम् पुरतः स्थितम् । रोषेण महता आविष्टो रावणो लोक रावणः ॥१॥
पङ्चाशः सर्गः 5.50
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
स राजा रोष ताम्र अक्षः प्रहस्तम् मन्त्रि सत्तमम् । किमेष भगवान्नन्दी भवेत्साक्षादिहागतः ॥२॥
येन शप्तोऽस्मि कैलासे मया संचालिते पुरा । सोऽयम् वानरमूर्तिः स्यात्किंस्विद्बाणो महासुरः ॥३॥
स राजा रोषताम्राक्षः प्रहस्तम् मन्त्रिसत्तमम् । काल युक्तम् उवाच इदम् वचो विपुलम् अर्थवत् ॥४॥
दुरात्मा पृच्छ्यताम् एष कुतः किम् वा अस्य कारणम् । वन भन्गे च को अस्य अर्थो राक्षसीनाम् च तर्जने ॥५॥
मत्पुरीमप्रधृष्याम् वागमने किं प्रयोजनम् । आयोधने वाकिं कार्यम् पृच्छ्यतामेष दुर्मतिः ॥६॥
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यम् अब्रवीत् । समाश्वसिहि भद्रम् ते न भीः कार्या त्वया कपे ॥७॥
यदि तावत् त्वम् इन्द्रेण प्रेषितो रावण आलयम् । तत्त्वम् आख्याहि मा ते भूत् भयम् वानर मोक्ष्यसे ॥८॥
यदि वैश्रवणस्य त्वम् यमस्य वरुणस्य च । चारु रूपम् इदम् कृत्वा ओरवुष्टो नः पुरीमिमाम् ॥९॥
विष्णुना प्रेषितो वा अपि दूतो विजय कान्क्षिणा । न हि ते वानरम् तेजो रूप मात्रम् तु वानरम् ॥१०॥
तत्त्वतः कथयस्व अद्य ततो वानर मोक्ष्यसे । अनृतम् वदतः च अपि दुर्लभम् तव जीवितम् ॥११॥
अथवा यन् निमित्तः ते प्रवेशो रावण आलये । एवम् उक्तो हरि वरः तदा रक्षो गण ईश्वरम् ॥१२॥
अब्रवीन् न अस्मि शक्रस्य यमस्य वरुणस्य वा । धनदेन न मे सख्यम् विष्णुना न अस्मि चोदितः ॥१३॥
जातिः एव मम तु एषा वानरो अहम् इह आगतः । दर्शने राक्षस इन्द्रस्य दुर्लभे तत् इदम् मया ॥१४॥
वनम् राक्षस राजस्य दर्शन अर्थे विनाशितम् । ततः ते राक्षसाः प्राप्ता बलिनो युद्ध कान्क्षिणः ॥१५॥
रक्षण अर्थम् च देहस्य प्रतियुद्धा मया रणे । अस्त्र पाशैः न शक्यो अहम् बद्धुम् देव असुरैः अपि ॥१६॥
पितामहात् एव वरो मम अपि एषो अभ्युपागतः । राजानम् द्रष्टु कामेन मया अस्त्रम् अनुवर्तितम् ॥१७॥
विमुक्तो अहम् अस्त्रेण राक्षसैः तु अतिपीडितः । केवचिद्राजकार्येण सम्प्राप्तोऽस्मि तवान्तिकम् ॥१८॥
दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः । श्रूयताम् चापि वचनम् मम पथ्यमिदम् प्रभो ॥१९॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे पङ्चाशः सर्गः ॥