रामायणम्

एकपङ्चशः सर्गः 5.51

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तम् समीक्ष्य महासत्त्वम् सत्त्ववान् हारि सत्तमः । वाक्यम् अर्थवत् अव्यग्रः तम् उवाच दश आननम् ॥१॥

अहम् सुग्रीव संदेशात् इह प्राप्तः तव आलयम् । राक्षस इन्द्र हरि ईशः त्वाम् भ्राता कुशलम् अब्रवीत् ॥२॥

भ्रातुः शृणु समादेशम् सुग्रीवस्य महात्मनः । धर्म अर्थ उपहितम् वाक्यम् इह च अमुत्र च क्षमम् ॥३॥

राजा दशरथो नाम रथ कुन्जर वाजिमान् । पिता इव बन्धुः लोकस्य सुर ईश्वर सम द्युतिः ॥४॥

ज्येष्ठः तस्य महाबाहुः पुत्रः प्रिय करः प्रभुः । पितुः निदेशान् निष्क्रान्तः प्रविष्टो दण्डका वनम् ॥५॥

लक्ष्मणेन सह भ्रात्रा सीतया च अपि भार्यया । रामो नाम महातेजा धर्म्यम् पन्थानम् आश्रितः ॥६॥

तस्य भार्या वने नष्टा सीता पतिम् अनुव्रता । वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥७॥

स मार्गमाणः ताम् देवीम् राज पुत्रः सह अनुजः । ऋश्यमूकम् अनुप्राप्तः सुग्रीवेण च सम्गतः ॥८॥

तस्य तेन प्रतिज्ञातम् सीतायाः परिमार्गणम् । सुग्रीवस्य अपि रामेण हरि राज्यम् निवेदितम् ॥९॥

ततः तेन मृधे हत्वा राज पुत्रेण वालिनम् । सुग्रीवः स्थापितो राज्ये हरि ऋक्षाणाम् गण ईश्वरः ॥१०॥

त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः । रामेण निहतः संख्ये शरेणैकेन वानरः ॥११॥

स सीता मार्गणे व्यग्रः सुग्रीवः सत्य सम्गरः । हरीन् सम्प्रेषयामास दिशः सर्वा हरि ईश्वरः ॥१२॥

ताम् हरीणाम् सहस्राणि शतानि नियुतानि च । दिक्षु सर्वासु मार्गन्ते अधः च उपरि च अम्बरे ॥१३॥

वैनतेय समाः केचित् केचित् तत्र अनिल उपमाः । असम्ग गतयः शीघ्रा हरि वीरा महाबलाः ॥१४॥

अहम् तु हनुमान् नाम मारुतस्य औरसः सुतः । सीतायाः तु कृते तूर्णम् शत योजनम् आयतम् ॥१५॥

समुद्रम् लन्घयित्वा एव ताम् दिदृक्षुः इह आगतः । भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ॥१६॥

तत् भवान् दृष्ट धर्म अर्थः तपः कृत परिग्रहः । पर दारान् महाप्राज्ञ न उपरोद्धुम् त्वम् अर्हसि ॥१७॥

न हि धर्म विरुद्धेषु बह्व् अपायेषु कर्मसु । मूल घातिषु सज्जन्ते बुद्धिमन्तो भवत् विधाः ॥१८॥

कः च लक्ष्मण मुक्तानाम् राम कोप अनुवर्तिनाम् । शराणाम् अग्रतः स्थातुम् शक्तो देव असुरेष्व् अपि ॥१९॥

न च अपि त्रिषु लोकेषु राजन् विद्येत कश्चन । राघवस्य व्यलीकम् यः कृत्वा सुखम् अवाप्नुयात् ॥२०॥

तत् त्रिकाल हितम् वाक्यम् धर्म्यम् अर्थ अनुबन्धि च । मन्यस्व नर देवाय जानकी प्रतिदीयताम् ॥२१॥

दृष्टा हि इयम् मया देवी लब्धम् यत् इह दुर्लभम् । उत्तरम् कर्म यत् शेषम् निमित्तम् तत्र राघवः ॥२२॥

लक्षिता इयम् मया सीता तथा शोक परायणा । गृह्य याम् न अभिजानासि पन्च आस्याम् इव पन्नगीम् ॥२३॥

न इयम् जरयितुम् शक्या सासुरैः अमरैः अपि । विष संसृष्टम् अत्यर्थम् भुक्तम् अन्नम् इव ओजसा ॥२४॥

तपः सम्ताप लब्धः ते यो अयम् धर्म परिग्रहः । न स नाशयितुम् न्याय्य आत्म प्राण परिग्रहः ॥२५॥

अवध्यताम् तपोभिः याम् भवान् समनुपश्यति । आत्मनः सासुरैः देवैः हेतुः तत्र अपि अयम् महान् ॥२६॥

सुग्रीवो न हि देवो अयम् न असुरो न च मानुषः । न दानवो न गन्धर्वो न यक्षो न च पन्नगः ॥२७॥

तस्मात् प्राण परित्राणम् कथम् राजन् करिष्यसि । न तु धर्म उपसम्हारम् अधर्म फल सम्हितम् ॥२८॥

तत् एव फलम् अन्वेति धर्मः च अधर्म नाशनः । प्राप्तम् धर्म फलम् तावत् भवता न अत्र संशयः ॥२९॥

फलम् अस्य अपि अधर्मस्य क्षिप्रम् एव प्रपत्स्यसे । जन स्थान वधम् बुद्ध्वा बुद्ध्वा वालि वधम् तथा ॥३०॥

राम सुग्रीव सख्यम् च बुध्यस्व हितम् आत्मनः । कामम् खल्व् अहम् अपि एकः सवाजि रथ कुन्जराम् ॥३१॥

लन्काम् नाशयितुम् शक्तः तस्य एष तु विनिश्चयः । रामेण हि प्रतिज्ञातम् हरि ऋक्ष गण सम्निधौ ॥३२॥

उत्सादनम् अमित्राणाम् सीता यैः तु प्रधर्षिता । अपकुर्वन् हि रामस्य साक्षात् अपि पुरम् दरः ॥३३॥

न सुखम् प्राप्नुयात् अन्यः किम् पुनः त्वत् विधो जनः । याम् सीता इति अभिजानासि या इयम् तिष्ठति ते वशे ॥३४॥

काल रात्री इति ताम् विद्धि सर्व लन्का विनाशिनीम् । तत् अलम् काल पाशेन सीता विग्रह रूपिणा ॥३५॥

स्वयम् स्कन्ध अवसक्तेन क्षमम् आत्मनि चिन्त्यताम् । सीतायाः तेजसा दग्धाम् राम कोप प्रपीडिताम् ॥३६॥

दह्यमनाम् इमाम् पश्य पुरीम् साट्ट प्रतोलिकाम् । स्वानि मित्राणि मन्त्रींश्च ज्ञातीन् भ्रातृन् सुतान् हितान् ॥३७॥

भोगान् दारांश्च लङ्काम् च मा विनाशमुपानय । सत्यम् राक्षसराजेन्द्र शृणुष्व वचनम् मम ॥३८॥

रामदासस्य दूतस्य वानरस्य विशेषतः । सर्वान् लोकान् सुसम्हृत्य सभूतान् सचराचरान् ॥३९॥

पुनरेव तथा स्रष्टुम् शक्तो रामो महायशाः । देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु च ॥४०॥

विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु च । सिद्धेषु किन्नरेन्द्रेषु पतत्रिषु च सर्वतः ॥४१॥

सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः । योरामम् प्रतियुध्येत विष्णुतुल्यपराक्रमम् ॥४२॥

सर्वलोकेश्वरस्यैवम् कृत्वा विप्रियमुत्तमम् । रामस्य राजसिम्हस्य दुर्लभम् तव जीवितम् ॥४३॥

देवाश्च दैत्याश्च निशाचरेन्द्र । गन्धर्वविद्याधरनागयक्षाः । रामस्य लोकत्रयनायकस्य । स्थातुम् न शक्ताः समरेषु सर्वे ॥४४॥

ब्रह्म स्वयमुभूश्च तुराननो वा । रुद्रस्त्रिणेत्रस्त्रिपुरान्तको वा । इन्द्रो महेन्द्रः सुरनायको वा । त्रातुम् न शक्ता युधि रामवध्यम् ॥४५॥

स सौष्ठव उपेतम् अदीन वादिनः । कपेः निशम्य अप्रतिमो अप्रियम् वचः । दश आननः कोप विवृत्त लोचनः । समादिशत् तस्य वधम् महाकपेः ॥४६॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे एकपङ्चशः सर्गः ॥

Listen to the sarga
0:00