रामायणम्

द्विपञ्चाशः सर्गः 5.52

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तस्य तत् वचनम् श्रुत्वा वानरस्य महात्मनः । आज्ञापयत् वधम् तस्य रावणः क्रोध मूर्चितः ॥१॥

वधे तस्य समाज्ञप्ते रावणेन दुरात्मना । निवेदितवतो दौत्यम् न अनुमेने विभीषणः ॥२॥

तम् रक्षो अधिपतिम् क्रुद्धम् तच् च कार्यम् उपस्थितम् । विदित्वा चिन्तयामास कार्यम् कार्य विधौ स्थितः ॥३॥

निश्चित अर्थः ततः साम्ना आपूज्य शत्रुजित् अग्रजम् । उवाच हितम् अत्यर्थम् वाक्यम् वाक्य विशारदः ॥४॥

क्षमस्व रोषम् त्यज राक्षसेन्द्र । प्रसीद मद्वाक्यमिदम् शृणुष्व । वधम् न कुर्वन्ति परावरज्ञा । दूतस्य सन्तो वसुधाधिपेन्द्राः ॥५॥

राजन् धर्म विरुद्धम् च लोक वृत्तेः च गर्हितम् । तव च असदृशम् वीर कपेः अस्य प्रमापणम् ॥६॥

धर्मज्ञ्श्च कृतज्ञ्श्च राजधर्मविशारदः । परावरज्ञो भूतानाम् त्वमेव परमार्थवित् ॥७॥

गृह्यन्ते यदि रोषेण त्वादृशोऽपि विपश्चितः । ततः शास्त्रविपश्चित्त्वम् श्रम एव हि केवलम् ॥८॥

तस्मात्प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद । ततः शास्त्रविपश्चित्त्वम् श्रम एव हि केवल्म् ॥९॥

विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः । रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत् ॥१०॥

न पापानाम् वधे पापम् विद्यते शत्रुसूदन । तस्मादेनम् वधिष्यामि वानरम् पापचारिणम् ॥११॥

अधर्ममूलम् बहुदोषयुक्त । मनार्यजुष्टम् वचनम् निशम्य । उवाच वाक्यम् परमार्थतत्त्वम् । विभीषणो बुद्धिमताम् वरिष्ठः ॥१२॥

प्रसीद लङ्केश्वर राक्षसेन्द्र । धर्मार्थयुक्तम् वचनम् शृणुष्व । दूतानवध्यान् समयेषु राजन् । सर्वेषु सर्वत्र वदन्ति सन्तः ॥१३॥

असंशयम् शत्रुः अयम् प्रवृद्धः । कृतम् हि अनेन अप्रियम् अप्रमेयम् । न दूत वध्याम् प्रवदन्ति सन्तो । दूतस्य दृष्टा बहवो हि दण्डाः ॥१४॥

वैरूप्याम् अन्गेषु कश अभिघातो । मौण्ड्यम् तथा लक्ष्मण सम्निपातः । एतान् हि दूते प्रवदन्ति दण्डान् । वधः तु दूतस्य न नः श्रुतो अपि ॥१५॥

कथम् च धर्म अर्थ विनीत बुद्धिः । पर अवर प्रत्यय निश्चित अर्थः । भवत् विधः कोप वशे हि तिष्ठेत् । कोपम् नियच्छन्ति हि सत्त्ववन्तः ॥१६॥

न धर्म वादे न च लोक वृत्ते । न शास्त्र बुद्धि ग्रहणेषु वा अपि । विद्येत कश्चित् तव वीर तुल्यः । त्वम् हि उत्तमः सर्व सुर असुराणाम् ॥१७॥

शूरेण वीरेण निशाचरेन्द्र । सुरासुराणामपि दुर्जयेन । त्वया प्रगल्भाः सुरदैत्यसम्घा । जिताश्च युद्धेष्वसकृन्नरेन्द्राः ॥१८॥

न च अपि अस्य कपेः घाते कंचित् पश्यामि अहम् गुणम् । तेष्व् अयम् पात्यताम् दण्डो यैः अयम् प्रेषितः कपिः ॥१९॥

साधुः वा यदि वा असाधुः परैः एष समर्पितः । ब्रुवन् पर अर्थम् परवान् न दूतो वधम् अर्हति ॥२०॥

अपि च अस्मिन् हते राजन् न अन्यम् पश्यामि खे चरम् । इह यः पुनः आगच्छेत् परम् पारम् महाउदधिः ॥२१॥

तस्मान् न अस्य वधे यत्नः कार्यः पर पुरम् जय । भवान् स इन्द्रेषु देवेषु यत्नम् आस्थातुम् अर्हति ॥२२॥

अस्मिन् विनष्टे न हि दूतम् अन्यम् । पश्यामि यः तौ नर राज पुत्रौ । युद्धाय युद्ध प्रिय दुर्विनीताव् । उद्योजयेत् दीर्घ पथ अवरुद्धौ ॥२३॥

पराक्रम उत्साह मनस्विनाम् च । सुर असुराणाम् अपि दुर्जयेन । त्वया मनो नन्दन नैरृतानाम् । युद्ध आयतिः नाशयितुम् न युक्ता ॥२४॥

हिताः च शूराः च समाहिताः च । कुलेषु जाताः च महागुणेषु । मनस्विनः शस्त्रभृताम् वरिष्ठाः । कोटि अग्र शस्ते सुभृताः च योधाः ॥२५॥

तत् एक देशेन बलस्य तावत् । केचित् तव आदेश कृतो अपयान्तु । तौ राज पुत्रौ विनिगृह्य मूढौ । परेषु ते भावयितुम् प्रभावम् ॥२६॥

निशाचराणामधिपोऽनुजस्य । विभीषणस्योत्तमवाक्यमिष्टम् । जग्राह बुद्ध्या सुरलोकशत्रु । र्महाबलो राक्षसराजमुख्यः ॥२७॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥

Listen to the sarga
0:00