तस्य तत् वचनम् श्रुत्वा दशग्रीवो महाबलः । देश काल हितम् वाक्यम् भ्रातुः उत्तमम् अब्रवीत् ॥१॥
त्रिपञ्चशः सर्गः 5.53
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
सम्यग् उक्तम् हि भवता दूत वध्या विगर्हिता । अवश्यम् तु वधात् अन्यः क्रियताम् अस्य निग्रहः ॥२॥
कपीनाम् किल लान्गूलम् इष्टम् भवति भूषणम् । तत् अस्य दीप्यताम् शीघ्रम् तेन दग्धेन गच्छतु ॥३॥
ततः पश्यन्तु इमम् दीनम् अन्ग वैरूप्य कर्शितम् । समित्रा ज्ञातयः सर्वे बान्धवाः ससुहृज् जनाः ॥४॥
आज्ञापयत् राक्षस इन्द्रः पुरम् सर्वम् सचत्वरम् । लान्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥५॥
तस्य तत् वचनम् श्रुत्वा राक्षसाः कोप कर्कशाः । वेष्टन्ते तस्य लान्गूलम् जीर्णैः कार्पासिकैः पटैः ॥६॥
सम्वेष्ट्यमाने लान्गूले व्यवर्धत महाकपिः । शुष्कम् इन्धनम् आसाद्य वनेष्व् इव हुत अशनः ॥७॥
तैलेन परिषिच्य अथ ते अग्निम् तत्र अवपातयन् । लान्गूलेन प्रदीप्तेन राक्षसान् तान् अपातयत् ॥८॥
रोष अमर्ष परीत आत्मा बाल सूर्य सम आननः । लाङ्गूलम् सम्प्रदीप्तम् तु द्रष्टुम् तस्य हनूमतः ॥९॥
सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः । स भूयः सम्गतैः क्रूरै राकसैः हरि सत्तमः ॥१०॥
निबद्धः कृतवान् वीरः तत् काल सदृशीम् मतिम् । कामम् खलु न मे शक्ता निबधस्य अपि राक्षसाः ॥११॥
चित्त्वा पाशान् समुत्पत्य हन्याम् अहम् इमान् पुनः । यदिभर्तुर्हतार्थाय चरन्तम् भर्तृशासनात् ॥१२॥
बध्नन्त्येते दुरात्मनो न तु मे निष्कृतिः कृता । सर्वेषाम् एव पर्याप्तो राक्षसानाम् अहम् युधि ॥१३॥
किम् तु रामस्य प्रीति अर्थम् विषहिष्ये अहम् ईदृशम् । लन्का चरयितव्या मे पुनः एव भवेत् इति ॥१४॥
रात्रौ न हि सुदृष्टा मे दुर्ग कर्म विधानतः । अवश्यम् एव द्रष्टव्या मया लन्का निशा क्षये ॥१५॥
कामम् बन्धैः च मे भूयः पुच्छस्य उद्दीपनेन च । पीडाम् कुर्वन्तु रक्षांसि न मे अस्ति मनसः श्रमः ॥१६॥
ततः ते सम्वृत आकारम् सत्त्ववन्तम् महाकपिम् । परिगृह्य ययुः हृष्टा राक्षसाः कपि कुन्जरम् ॥१७॥
शन्ख भेरी निनादैः तैः घोषयन्तः स्व कर्मभिः । राक्षसाः क्रूर कर्माणः चारयन्ति स्म ताम् पुरीम् ॥१८॥
अन्वीयमानो रक्षोभिर्ययौ सुखमरिंदमः । हनुमान् चारयामास राक्षसानाम् महापुरीम् ॥१९॥
अथ अपश्यत् विमानानि विचित्राणि महाकपिः । सम्वृतान् भूमि भागान् च सुविभक्तान् च चत्वरान् ॥२०॥
वीथीश्च गृहसम्बाधाः कपिः शृङ्गटकानि च । तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् ॥२१॥
गृहांश्च मेघसम्काशान् ददर्श पवनात्मजः । चत्वरेषु चतुष्केषु राज मार्गे तथैव च ॥२२॥
घोषयन्ति कपिम् सर्वे चारीक इति राक्षसाः । स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात् ॥२३॥
तम् प्रदीपितलाङ्गूलम् हनुमन्तम् दिदृक्षवः । दीप्यमाने ततः तस्य लान्गूल अग्रे हनूमतः ॥२४॥
राक्षस्यः ता विरूप अक्ष्यः शंसुः देव्याः तत् अप्रियम् । यः त्वया कृत सम्वादः सीते ताम्र मुखः कपिः ॥२५॥
लान्गूलेन प्रदीप्तेन स एष परिणीयते । श्रुत्वा तत् वचनम् क्रूरम् आत्म अपहरण उपमम् ॥२६॥
वैदेही शोक सम्तप्ता हुत अशनम् उपागमत् । मन्गला अभिमुखी तस्य सा तदा आसीन् महाकपेः ॥२७॥
उपतस्थे विशाल अक्षी प्रयता हव्य वाहनम् । यदि अस्ति पति शुश्रूषा यदि अस्ति चरितम् तपः ॥२८॥
यदि च अस्ति एक पत्नीत्वम् शीतो भव हनूमतः । यदि कश्चित् अनुक्रोशः तस्य मयि अस्ति धीमतः ॥२९॥
यदि वा भाग्य शेषम् मे शीतो भव हनूमतः । यदि माम् वृत्त सम्पन्नाम् तत् समागम लालसाम् ॥३०॥
स विजानाति धर्म आत्मा शीतो भव हनूमतः । यदि माम् तारयति आर्यः सुग्रीवः सत्य सम्गरः ॥३१॥
अस्मात् दुह्खान् महाबाहुः शीतो भव हनूमतः । ततः तीक्ष्ण अर्चिः अव्यग्रः प्रदक्षिण शिखो अनलः ॥३२॥
जज्वाल मृग शाव अक्ष्याः शंसन्न् इव शिवम् कपेः । हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः ॥३३॥
ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः । दह्यमाने च लान्गूले चिन्तयामास वानरः ॥३४॥
प्रदीप्तो अग्निः अयम् कस्मान् न माम् दहति सर्वतः । दृश्यते च महाज्वालः करोति च न मे रुजम् ॥३५॥
शिशिरस्य इव सम्पातो लान्गूल अग्रे प्रतिष्ठितः । अथवा तत् इदम् व्यक्तम् यत् दृष्टम् प्लवता मया ॥३६॥
राम प्रभावात् आश्चर्यम् पर्वतः सरिताम् पतौ । यदि तावत् समुद्रस्य मैनाकस्य च धीमथ ॥३७॥
राम अर्थम् सम्भ्रमः तादृक् किम् अग्निः न करिष्यति । सीतायाः च आनृशंस्येन तेजसा राघवस्य च ॥३८॥
पितुः च मम सख्येन न माम् दहति पावकः । भूयः स चिन्तयामास मुहूर्तम् कपि कुन्जरः ॥३९॥
उत्पपात अथ वेगेन ननाद च महाकपिः । पुर द्वारम् ततः श्रीमान् शैल शृन्गम् इव उन्नतम् ॥४०॥
विभक्त रक्षः सम्बाधम् आससाद अनिल आत्मजः । स भूत्वा शैल सम्काशः क्षणेन पुनः आत्मवान् ॥४१॥
ह्रस्वताम् परमाम् प्राप्तो बन्धनानि अवशातयत् । विमुक्तः च अभवत् श्रीमान् पुनः पर्वत सम्निभः ॥४२॥
वीक्षमाणः च ददृशे परिघम् तोरण आश्रितम् । स तम् गृह्य महाबाहुः काल आयस परिष्कृतम् ॥४३॥
रक्षिणः तान् पुनः सर्वान् सूदयामास मारुतिः । स तान् निहत्वा रण चण्ड विक्रमः । समीक्षमाणः पुनः एव लन्काम् । प्रदीप्त लान्गूल कृत अर्चि माली । प्रकाशत आदित्य इव अंशु माली ॥४४॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे त्रिपञ्चशः सर्गः ॥