रामायणम्

चतुःपञ्चाशः सर्गः 5.54

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

वीक्षमाणः ततो लन्काम् कपिः कृत मनो रथः । वर्धमान समुत्साहः कार्य शेषम् अचिन्तयत् ॥१॥

किम् नु खल्व् अविशिष्टम् मे कर्तव्यम् इह साम्प्रतम् । यत् एषाम् रक्षसाम् भूयः सम्ताप जननम् भवेत् ॥२॥

वनम् तावत् प्रमथितम् प्रकृष्टा राक्षसा हताः । बल एक देशः क्षपितः शेषम् दुर्ग विनाशनम् ॥३॥

दुर्गे विनाशिते कर्म भवेत् सुख परिश्रमम् । अल्प यत्नेन कार्ये अस्मिन् मम स्यात् सफलः श्रमः ॥४॥

यो हि अयम् मम लान्गूले दीप्यते हव्य वाहनः । अस्य सम्तर्पणम् न्याय्यम् कर्तुम् एभिः गृह उत्तमैः ॥५॥

ततः प्रदीप्त लान्गूलः सविद्युत् इव तोयदः । भवन अग्रेषु लन्काया विचचार महाकपिः ॥६॥

गृहाद्गृहम् राक्षसानामुद्यानानि च वानरः । वीक्षमाणो ह्यसम्त्रस्तः प्रासादांश्च चचार सः ॥७॥

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् । अग्निम् तत्र स निक्षिप्य श्वसनेन समो बली ॥८॥

ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् । मुमोच हनुमान् अग्निम् काल अनल शिखा उपमम् ॥९॥

वज्रदंष्ट्र स्य च तदा पुप्लुवे स महाकपिः । शुकस्य च महातेजाः सारणस्य च धीमतः ॥१०॥

तथा चेन्द्रजितो वेश्म ददाह हरियूथपः । जम्बुमालेः सुमालेश्च ददाह भवनम् ततः ॥११॥

रश्मिकेतोश्च भवनम् सूर्यशत्रोस्तथैव च । ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥१२॥

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः । विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ॥१३॥

कराळस्य पिशाचस्य शोणिताक्षस्य चैव हि । कुम्भकर्णस्य भवनम् मकराक्षस्य चैव हि ॥१४॥

यज्ञशत्रोश्च भवनम् ब्रह्मशत्रोस्तथैव च| नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ॥१५॥

वर्जयित्वा महातेजा विभीषणगृहम् प्रति । क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः ॥१६॥

तेषु तेषु महार्हेषु भवनेषु महायशाः । गृहेष्वृद्धिमतामृद्धिम् ददाह स महाकपिः ॥१७॥

सर्वेषाम् समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान् । आससादाथ लक्ष्मीवान् रावणस्य निवेशनम् ॥१८॥

ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते । मेरुमन्दरसंकाशे सर्वमङ्गळशोभिते ॥१९॥

प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम् । ननाद हनुमान् वीरो युगान्तजलदो यथा ॥२०॥

श्वसनेन च सम्योगात् अतिवेगो महाबलः । काल अग्निः इव जज्वाल प्रावर्धत हुत अशनः ॥२१॥

प्रदीप्तम् अग्निम् पवनः तेषु वेश्मसु चारयत् । अभूच्छ्वसनसम्योगादतिवेगो हुताशनः ॥२२॥

तानि कान्चन जालानि मुक्ता मणिमयानि च । भवनानि अवशीर्यन्त रत्नवन्ति महान्ति च ॥२३॥

5.54.23 #56192f62f4f4 timing uncertain

सम्जज्ञे तुमुलः शब्दो राक्षसानाम् प्रधावताम् । स्वगृहस्य परित्राणे भग्नोत्साहोर्जिअश्रियाम् ॥२४॥

नूनेमेषाऽग्निरायातः कपिरूपेण हा इति । क्रन्दन्त्यः सहसा पेतुः स्तनंधयधराः स्त्रियः ॥२५॥

काश्चिरग्निपरीतेभ्यो हर्म्येभ्यो मुक्तमूर्धजाः । पतन्त्यो रेजिरेऽभ्रेभ्यः सौदामिन्य इवाम्बरात् ॥२६॥

वज्र विद्रुम वैदूर्य मुक्ता रजत सम्हितान् । विचित्रान् भवनात् धातून् स्यन्दमानान् ददर्श सः ॥२७॥

न अग्निः तृप्यति काष्ठानाम् तृणानाम् च यथा तथा । हनूमान् राक्षस इन्द्राणाम् वधे किंचिन् न तृप्यति ॥२८॥

न हनूमद्विशस्तानाम् राक्षसानाम् वसुन्धरा । क्वचित्किंशुकसम्काशाः क्वचिच्छाल्मलिसन्निभाः ॥२९॥

5.54.29 #1b66d6b9da76 timing uncertain

क्वचित्कुङ्कुमसम्काशाः शिखा वह्नेश्चकाशिरे । हनूमता वेगवता वानरेण महात्मना । लङ्कापुरम् प्रदग्धम् तद्रुद्रेण त्रिपुरम् यथा ॥३०॥

ततस्तु लङ्कापुरपर्वताग्रे । स्मुत्थितो भीमपराक्रमोऽग्निः । प्रसार्य चूडावलयम् प्रदीप्तो । हनूमता वेगवता विसृष्टः ॥३१॥

युगान्तकालानलतुल्यवेगः । समारुतोऽग्निर्ववृधे दिवस्पृक् । विधूमरश्मिर्भवनेषु सक्तो । रक्षः शरीराज्यसमर्पितार्चिः ॥३२॥

आदित्यकोटीसदृशः सुतेजा । लङ्काम् समस्ताम् परिवार्य तिष्ठन् । शब्दैरनेकैरशनिप्ररूडै । र्भिन्दन्निवाण्डम् प्रबभौ महाग्निः ॥३३॥

तत्राम्बरादग्निरतिप्रवृद्धो । रूक्षप्रभः किंशुकपुष्पचूडाः । निर्वाणधूमाकुलराजयश्च । नीलोत्पलाभाः प्रचकाशिरेऽभ्राः ॥३४॥

वज्री महेन्द्रस्त्रिदशेश्वरो वा । साक्षाद्यमो वा वरुणोऽनिलो वा । रुद्रोग्निरर्को धनदश्च सोमो । न वानरोऽयम् स्वयमेव कालः ॥३५॥

किम् ब्रह्मण सर्वपितामहस्य । सर्वस्य धातुश्चतुराननस्य । इहागतो वानररूपधारी । रक्षोपसम्हारकरः प्रतापः ॥३६॥

किम् वैष्णवम् वा कपिरूपमेत्य । रक्षोविनाशाय परम् सुतेजः । अनन्तमव्यक्तमचिन्त्यमेकम् । स्वमायया साम्प्रतमागतम् वा ॥३७॥

इत्येवमूचुर्बहवो विशिष्टा । रक्षोगणास्तत्र समेत्य सर्वे । सप्राणिसम्घां सगृहाम् सवृक्षाम् । दग्धाम् पुरीम् ताम् सहसा समीक्ष्य ॥३८॥

ततस्तु लङ्का सहसा प्रदग्धा । सराक्षसा साश्वरथा सनागा । सपक्षिसम्घा समृगा सवृक्षा । रुरोद दीना तुमुलम् सशब्दम् ॥३९॥

हा तात हा पुत्रक कान्त मित्र । हा जीवितम् भोगयुतम् सुपुण्यम् । रक्षोभिरेवम् बहुधा ब्रुवद्भिः । शब्दः कृतो घोररवः सुभीमः ॥४०॥

हुताशनज्वालसमावृता सा । हतप्रवीरा परिवृत्तयोधा । हनूमतः क्रोधबलाभिभूता । बभूव शापोपहतेअ लङ्का ॥४१॥

स सम्भ्रामत्रस्तविषण्णराक्षसां । समुज्ज्वलज्ज्वालहुताशनाङ्किताम् । ददर्श लङ्काम् हनुमान् महामानाः । स्वयम्भूकोपोपहतामिवावनिम् ॥४२॥

भम्क्त्वा वनम् पादपरत्नसम्कुलम् । हत्वा तु रक्षांसि महान्ति सम्युगे । दग्ध्वा पुरीम् ताम् गृहरत्नमालिनीम् । तस्थौ हनूमान् पवनात्मजः कपिः ॥४३॥

त्रिकूटशृङ्गाग्रतले विचित्रे । प्रतिष्ठितो वानरराजसिम्हः । प्रदीप्तलाङ्गूलकृतार्चिमाली । व्यराजतादित्य इवांशुमाली ॥४४॥

5.54.44 #2499357dba7a timing uncertain

स राक्षसांस्तान् सुबहूंश्च हत्वा । वनम् च भम्क्त्वा बहूपादपम् तत् । विसृज्य रक्षोभवनेषु चाग्निम् । जगाम रामम् मनसा महात्मा ॥४५॥

ततस्तु तम् वानवीरमुख्यम् । महाबलम् मारुततुल्यवेगम् । महामतिम् वायुसुतम् वरिष्ठम् । प्रतुष्टवुर्देवगणाश्च सर्वे ॥४६॥

भम्क्त्वा वनम् महातेजा हत्वा रक्षांसि सम्युगे । दग्ध्वा लङ्कापुरीम् रम्याम् रराज स महाकपिः ॥४७॥

तत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्ष्यः । दृष्ट्वा लङ्काम् प्रद्ग्धाम् ताम् विस्मयम् परमम् गताः ॥४८॥

तम् दृष्ट्वा वानरश्रेष्ठम् हनुमन्तम् महाकपिम् । कालाग्निरिति संचिन्त्य सर्वभूतानि तत्रसुः ॥४९॥

देवाश्च सर्वे मुनिपुङ्गवाश्च । गन्धर्वविद्याधरनागयक्षाः । भूतानि सर्वाणि महान्ति तत्र । जग्मुः पराम् प्रीतिमतुल्यरूपाम् ॥५०॥

5.54.50 #991815dc44d0 timing uncertain

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे चतुःपञ्चाशः सर्गः ॥

Listen to the sarga
0:00