रामायणम्

पञ्चपञ्चाशः सर्गः 5.55

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

संदीप्यमानाम् विध्वस्ताम् त्रस्त रक्षो गणाम् पुरीम् । अवेक्ष्य हानुमाम्ल् लन्काम् चिन्तयामास वानरः ॥१॥

तस्य अभूत् सुमहान् त्रासः कुत्सा च आत्मनि अजायत । लन्काम् प्रदहता कर्म किंस्वित् कृतम् इदम् मया ॥२॥

धन्याः ते पुरुष श्रेष्ठ ये बुद्ध्या कोपम् उत्थितम् । निरुन्धन्ति महात्मानो दीप्तम् अग्निम् इव अम्भसा ॥३॥

क्रुद्धः पापम् न कुर्यात्कः क्रुद्धो हन्याद्गुरूनपि । क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत् ॥४॥

वाच्यावाच्यम् प्रकुपितो न विजानाति कर्हिचित् । नाकार्यमस्ति क्रुद्धस्य नावाच्यम् विद्यते क्वचित् ॥५॥

यः समुत्पतितम् क्रोधम् क्षमयैव निरस्यति । यथोरगस्त्वचम् जीर्णाम् स वै पुरुष उच्यते ॥६॥

धिगस्तु माम् सुदुर्भद्धिम् निर्लज्जम् पापकृत्तमम् । अचिन्तयित्वा ताम् सीतामग्निदम् स्वामिघातकम् ॥७॥

यदि दग्धा तु इयम् लन्का नूनम् आर्या अपि जानकी । दग्धा तेन मया भर्तुः हतम् कार्यम् अजानता ॥८॥

यत् अर्थम् अयम् आरम्भः तत् कार्यम् अवसादितम् । मया हि दहता लन्काम् न सीता परिरक्षिता ॥९॥

ईषत् कार्यम् इदम् कार्यम् कृतम् आसीन् न संशयः । तस्य क्रोध अभिभूतेन मया मूल क्षयः कृतः ॥१०॥

विनष्टा जानकी व्यक्तम् न हि अदग्धः प्रदृश्यते । लन्कायाः कश्चित् उद्देशः सर्वा भस्मी कृता पुरी ॥११॥

यदि तत् विहतम् कार्यम् मया प्रज्ञा विपर्ययात् । इह एव प्राण सम्न्यासो मम अपि हि अतिरोचते ॥१२॥

किम् अग्नौ निपतामि अद्य आहोस्वित् वडवा मुखे । शरीरम् आहो सत्त्वानाम् दद्मि सागर वासिनाम् ॥१३॥

कथम् हि जीवता शक्यो मया द्रष्टुम् हरि ईश्वरः । तौ वा पुरुष शार्दूलौ कार्य सर्व स्व घातिना ॥१४॥

मया खलु तत् एव इदम् रोष दोषात् प्रदर्शितम् । प्रथितम् त्रिषु लोकेषु कपितम् अनवस्थितम् ॥१५॥

धिग् अस्तु राजसम् भावम् अनीशम् अनवस्थितम् । ईश्वरेण अपि यत् रागान् मया सीता न रक्षिता ॥१६॥

विनष्टायाम् तु सीतायाम् ताव् उभौ विनशिष्यतः । तयोः विनाशे सुग्रीवः सबन्धुः विनशिष्यति ॥१७॥

एतत् एव वचः श्रुत्वा भरतो भ्रातृ वत्सलः । धर्म आत्मा सह शत्रुघ्नः कथम् शक्ष्यति जीवितुम् ॥१८॥

इक्ष्वाकु वंशे धर्मिष्ठे गते नाशम् असंशयम् । भविष्यन्ति प्रजाः सर्वाः शोक सम्ताप पीडिताः ॥१९॥

तत् अहम् भाग्य रहितो लुप्त धर्म अर्थ सम्ग्रहः । रोग दोष परीत आत्मा व्यक्तम् लोक विनाशनः ॥२०॥

इति चिन्तयतः तस्य निमित्तानि उपपेदिरे । पूरम् अपि उपलब्धानि साक्षात् पुनः अचिन्तयत् ॥२१॥

अथवा चारु सर्व अन्गी रक्षिता स्वेन तेजसा । न नशिष्यति कल्याणी न अग्निः अग्नौ प्रवर्तते ॥२२॥

न हि धर्मात् मनः तस्य भार्याम् अमित तेजसः । स्व चारित्र अभिगुप्ताम् ताम् स्प्रष्टुम् अर्हति पावकः ॥२३॥

नूनम् राम प्रभावेन वैदेह्याः सुकृतेन च । यन् माम् दहन कर्मा अयम् न अदहद्त् हव्य वाहनः ॥२४॥

त्रयाणाम् भरत आदीनाम् भ्रातृऋणाम् देवता च या । रामस्य च मनः कान्ता सा कथम् विनशिष्यति ॥२५॥

यत् वा दहन कर्मा अयम् सर्वत्र प्रभुः अव्ययः । न मे दहति लान्गूलम् कथम् आर्याम् प्रधक्ष्यति ॥२६॥

पुनश्चाचिन्तयत्तत्र हनुमान्विस्मितस्तदा । हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम् ॥२७॥

तपसा सत्य वाक्येन अनन्यत्वाच् च भर्तरि । अपि सा निर्दहेत् अग्निम् न ताम् अग्निः प्रधक्ष्यति ॥२८॥

स तथा चिन्तयन् तत्र देव्या धर्म परिग्रहम् । शुश्राव हनुमान् वाक्यम् चारणानाम् महात्मनाम् ॥२९॥

अहो खलु कृतम् कर्म दुर्विषह्यम् हनूमता । अग्निम् विसृजता अभीक्ष्णम् भीमम् राक्षस सद्मनि ॥३०॥

प्रपलायितरक्षः स्त्रीबाल वृद्धसमाकुला । जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरैः ॥३१॥

दग्धा इयम् नगरी लन्का साट्ट प्राकार तोरणा । जानकी न च दग्धा इति विस्मयो अद्भुत एव नः ॥३२॥

स निमित्तैः च दृष्ट अर्थैः कारणैः च महागुणैः । ऋषि वाक्यैः च हनुमान् अभवत् प्रीत मानसः ॥३३॥

ततः कपिः प्राप्त मनो रथ अर्थः । ताम् अक्षताम् राज सुताम् विदित्वा । प्रत्यक्षतः ताम् पुनः एव दृष्ट्वा । प्रतिप्रयाणाय मतिम् चकार ॥३४॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः ॥

Listen to the sarga
0:00