ततः तु शिंशपा मूले जानकीम् पर्यवस्थिताम् । अभिवाद्य अब्रवीत् दिष्ट्या पश्यामि त्वाम् इह अक्षताम् ॥१॥
ष्ट्पञ्चाशः सर्गः 5.56
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
ततः तम् प्रस्थितम् सीता वीक्षमाणा पुनः पुनः । भर्तृ स्नेह अन्वितम् वाक्यम् हनूमन्तम् अभाषत ॥२॥
कामम् अस्य त्वम् एव एकः कार्यस्य परिसाधने । पर्याप्तः पर वीरघ्न यशस्यः ते बल उदयः ॥३॥
शरैस्तुः सम्कुलाम् कृत्वा लन्काम् पर बल अर्दनः । माम् नयेत् यदि काकुत्स्थः तस्य तत् सादृशम् भवेत् ॥४॥
तत् यथा तस्य विक्रान्तम् अनुरूपम् महात्मनः । भवति आहव शूरस्य तत्त्वम् एव उपपादय ॥५॥
तत् अर्थ उपहितम् वाक्यम् प्रश्रितम् हेतु सम्हितम् । निशम्य हनुमान् तस्या वाक्यम् उत्तरम् अब्रवीत् ॥६॥
क्षिप्रम् एष्यति काकुत्स्थो हरि ऋक्ष प्रवरैः वृतः । यः ते युधि विजित्य अरीन् शोकम् व्यपनयिष्यति ॥७॥
एवम् आश्वास्य वैदेहीम् हनूमान् मारुत् आत्मजः । गमनाय मतिम् कृत्वा वैदेहीम् अभ्यवादयत् ॥८॥
ततः स कपि शार्दूलः स्वामि संदर्शन उत्सुकः । आरुरोह गिरि श्रेष्ठम् अरिष्टम् अरि मर्दनः ॥९॥
तुन्ग पद्मक जुष्टाभिः नीलाभिः वन राजिभिः । सोत्तरीयमिवाम्भोदैः शृम्गान्तरविलम्बिभिः ॥१०॥
बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः । उन्मिषन्तिमिवोद्धूतैर्लोचनैरिव धातुभिः ॥११॥
तोयौघनिस्वनैर्मन्द्रैः प्राधीतमिव पर्वतम् । प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्व्नै ॥१२॥
देवदारुभिरत्युच्चैरूर्ध्वबाहुमिव स्थितम् । प्रपातजलनिर्घोषैः प्राकृष्टमिव सर्वतः ॥१३॥
वेपमानमिव श्यामैः कम्पमानैः शरद्वनैः । वेणुभिर्मारुतोद्धूतैः कूजन्तमिव कीचकैः ॥१४॥
निःश्वसन्तमिवामर्षाद्घोरैराशीविषोत्तमैः । वीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः ॥१५॥
मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः । जृम्भमाणमिवाकाशे शिखरैरभ्रामालिभिः ॥१६॥
कूटैश्च बहुधा कीर्णै शोभितम् बहुकन्दरैः । साल ताल अश्व कर्णैः च वंशैः च बहुभिः वृतम् ॥१७॥
लतावितानैर्विततैः प्ष्पवद्भिरलम्कृतम् । नानामृगगणाकीर्णम् धातुनिष्यन्दभूषितम् ॥१८॥
बहुप्रस्रवणोपेतम् शिलासंचयसम्कटम् । महर्षियक्षगन्धर्वकिन्नरोरगसेवितम् ॥१९॥
लतापादपसम्घातम् सिम्हाध्युषितकन्दरम् । व्याग्रसम्घसमाकीर्णम् स्वादुमूलफलद्रुमम् ॥२०॥
तम् आरुरोह हनुमान् पर्वतम् पवनात्मजः । राम दर्शन शीघ्रेण प्रहर्षेण अभिचोदितः ॥२१॥
तेन पाद तल आक्रान्ता रम्येषु गिरि सानुषु । सघोषाः समशीर्यन्त शिलाः चूर्णी कृताः ततः ॥२२॥
स तम् आरुह्य शैल इन्द्रम् व्यवर्धत महाकपिः । दक्षिणात् उत्तरम् पारम् प्रार्थयम्ल् लवण अम्भसः ॥२३॥
अधिरुह्य ततो वीरः पर्वतम् पवन आत्मजः । ददर्श सागरम् भीमम् मीन उरग निषेवितम् ॥२४॥
स मारुत इव आकाशम् मारुतस्य आत्म सम्भवः । प्रपेदे हरि शार्दूलो दक्षिणात् उत्तराम् दिशम् ॥२५॥
स तदा पीडितः तेन कपिना पर्वत उत्तमः । ररास सह तैः भूतैः प्राविशत् वसुधा तलम् ॥२६॥
कम्पमानैः च शिखरैः पतद्भिः अपि च द्रुमैः । तस्य ऊरु वेगान् मथिताः पादपाः पुष्प शालिनः ॥२७॥
निपेतुः भू तले रुग्णाः शक्र आयुध हता इव । कन्दर उदर संस्थानाम् पीडितानाम् महाओजसाम् ॥२८॥
सिम्हानाम् निनदो भीमो नभो भिन्दन् स शुश्रुवे । त्रस्त व्याअविद्ध वसना व्याकुली कृत भूषणा ॥२९॥
विद्याधर्यः समुत्पेतुः सहसा धरणी धरात् । अतिप्रमाणा बलिनो दीप्त जिह्वा महाविषाः ॥३०॥
निपीडित शिरो ग्रीवा व्यवेष्टन्त महाहयः । किन्नर उरग गन्धर्व यक्ष विद्या धराः तथा ॥३१॥
पीडितम् तम् नग वरम् त्यक्त्वा गगनम् आस्थिताः । स च भूमि धरः श्रीमान् बलिना तेन पीडितः ॥३२॥
सवृक्ष शिखर उदग्राः प्रविवेश रसा तलम् । दश योजन विस्तारः त्रिंशत् योजनम् उच्छ्रितः ॥३३॥
धरण्याम् समताम् यातः स बभूव धरा धरः । स लिलङ्घुयिर्भीमम् सलीलम् लवणार्णवम् ॥३४॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे ष्ट्पञ्चाशः सर्गः ॥