रामायणम्

सप्तपञ्चशः सर्गः 5.57

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

सचन्द्र कुमुदम् रम्यम् सार्क कारण्डवम् शुभम् । तिष्य श्रवण कदम्बम् अभ्र शैवल शाद्वलम् ॥१॥

पुनर्वसु महामीनम् लोहित अन्ग महाग्रहम् । ऐरावत महाद्वीपम् स्वाती हंस विलोडितम् ॥२॥

वात सम्घात जात ऊर्मिम् चन्द्र अंशु शिशिर अम्बुमत् । भुजम्ग यक्ष गन्धर्व प्रबुद्ध कमल उत्पलम् ॥३॥

हनुमान् मारुतगतिर्महानौरिव सागरम् । अपारमपरिश्रान्तः पुप्लुवे गगनार्णवम् ॥४॥

5.57.4 #1363507572a8 timing uncertain

ग्रासमान इव आकाशम् तारा अधिपम् इव आलिखन् । हरन्न् इव सनक्षत्रम् गगनम् सार्क मण्डलम् ॥५॥

मारुतस्य आलयम् श्रीमान् कपिः व्योम चरो महान् । हनूमान् मेघ जालानि विकर्षन्न् इव गच्छति ॥६॥

पाण्डुर अरुण वर्णानि नील मान्जिष्ठकानि च । हरित अरुण वर्णानि महाअभ्राणि चकाशिरे ॥७॥

प्रविशन्न् अभ्र जालानि निष्क्रमन् च पुनः पुनः । प्रच्छन्नः च प्रकाशः च चन्द्रमा इव लक्ष्यते ॥८॥

विविधाभ्राघनासन्नगोचरो धवळाम्बरः । दृश्यादृश्यतनुर्वीरस्तदा चन्द्रयतेऽम्बरे ॥९॥

तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः । दारयन्मेघबृन्दानि निष्पतंश्च पुनः पुनः ॥१०॥

नदन् नादेन महता मेघ स्वन महास्वनः । प्रवरान् राक्षसान् हत्वा नाम विश्राव्य चात्मनः ॥११॥

आकुलाम् नगतीम् कृत्वा व्यथयित्वा च रावणम् । अर्दयित्वा बलम् घोरम् वैदेहीमभिवाद्य च ॥१२॥

आजगाम महातेजाः पुनः मध्येन सागरम् । पर्वत इन्द्रम् सुनाभम् च समुपस्पृश्य वीर्यवान् ॥१३॥

ज्या मुक्त इव नाराचो महावेगो अभ्युपागतः । स किंचित् अनुसम्प्राप्तः समालोक्य महागिरिम् ॥१४॥

महाइन्द्र मेघ सम्काशम् ननाद हरि पुम्गवः । स पूरयामास कपिर्दिशो दश समन्ततः ॥१५॥

नदन्नदेव महता मेघस्वनमहास्वनः । स तम् देशमनुप्राप्तः सुहृद्दर्शनलालसः ॥१६॥

ननाद हरिशार्दूलो लाङ्गूलम् चाप्यकम्पयत् । तस्य नानद्यमानस्य सुपर्णचरिते पथि ॥१७॥

फलतीवास्य घोषेण गगनम् सार्कमण्डलम् । ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः ॥१८॥

पूर्वम् सम्विष्ठिताः शूरा वायुपुत्रदिदृक्षवः । महतो वातनुन्नस्य तोयदस्येव गर्जितम् ॥१९॥

शुश्रुवुस्ते तदा घोषमूरुवेगम् हनूमतः । ते दीनमनसः सर्वे शुश्रुवुः काननौकसः ॥२०॥

वानरेन्द्रस्य निर्घोषम् पर्जन्यनिनदोपमम् । निशम्य नदतो नादम् वानराः ते समन्ततः ॥२१॥

बभूवुः उत्सुकाः सर्वे सुहृत् दर्शन कान्क्षिणः । जाम्बवान् स हरि श्रेष्ठः प्रीति सम्हृष्ट मानसः ॥२२॥

उपामन्त्र्य हरीन् सर्वान् इदम् वचनम् अब्रवीत् । सर्वथा कृत कार्यो असौ हनूमान् न अत्र संशयः ॥२३॥

न हि अस्य अकृत कार्यस्य नाद एवम् विधो भवेत् । तस्या बाहु ऊरु वेगम् च निनादम् च महात्मनः ॥२४॥

निशम्य हरयो हृष्टाः समुत्पेतुः ततः ततः । ते नग अग्रान् नग अग्राणि शिखरात् शिखराणि च ॥२५॥

प्रहृष्टाः समपद्यन्त हनूमन्तम् दिदृक्षवः । ते प्रीताः पादप अग्रेषु गृह्य शाखाः सुपुष्पिताः ॥२६॥

वासांसि इव प्रकाशानि समाविध्यन्त वानराः । गिरिगह्वरसम्लीनो यथा गर्जति मारुतः ॥२७॥

एवम् जगर्ज बलवान् हनुमान्मारुतातमजः । तम् अभ्र घन संकाशम् आपतन्तम् महाकपिम् ॥२८॥

दृष्ट्वा ते वानराः सर्वे तस्थुः प्रान्जलयः तदा । ततः तु वेगवान् तस्य गिरेः गिरि निभः कपिः ॥२९॥

निपपात महाइन्द्रस्य शिखरे पादप आकुले । हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिर्घरे ॥३०॥

चिन्नपक्ष इवाकाशात्पपात धरणीधरः । ततः ते प्रीत मनसः सर्वे वानर पुम्गवाः ॥३१॥

हनूमन्तम् महात्मानम् परिवार्य उपतस्थिरे । परिवार्य च ते सर्वे पराम् प्रीतिम् उपागताः ॥३२॥

प्रहृष्ट वदनाः सर्वे तम् अरोगम् उपागतम् । उपायनानि च आदाय मूलानि च फलानि च ॥३३॥

प्रत्यर्चयन् हरि श्रेष्ठम् हरयो मारुत आत्मजम् । हनूमान् तु गुरून् वृद्धान् जाम्बवत् प्रमुखान् तदा ॥३४॥

कुमारम् अन्गदम् चैव सो अवन्दत महाकपिः । स ताभ्याम् पूजितः पूज्यः कपिभिः च प्रसादितः ॥३५॥

दृष्टा देवी इति विक्रान्तः संक्षेपेण न्यवेदयत् । निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् ॥३६॥

रमणीये वन उद्देशे महाइन्द्रस्य गिरेः तदा । हनूमान् अब्रवीद्त् हृष्टः तदा तान् वानर ऋषभान् ॥३७॥

अशोक वनिका संस्था दृष्टा सा जनक आत्मजा । रक्ष्यमाणा सुघोराभी राक्षसीभिः अनिन्दिता ॥३८॥

एक वेणी धरा बाला राम दर्शन लालसा । उपवास परिश्रान्ता मलिना जटिला कृशा ॥३९॥

ततो दृष्टा इति वचनम् महाअर्थम् अमृत उपमम् ॥४०॥

निशम्य मारुतेः सर्वे मुदिता वानरा भवन् । क्ष्वेडन्ति अन्ये नदन्ति अन्ये गर्जन्ति अन्ये महाबलाः । चक्रुः किल किलाम् अन्ये प्रतिगर्जन्ति च अपरे ॥४१॥

केचित् उच्छ्रित लान्गूलाः प्रहृष्टाः कपि कुन्जराः । अन्चित आयत दीर्घाणि लान्गूलानि प्रविव्यधुः ॥४२॥

अपरे तु हनूमन्तम् वानरा वारण उपमम् । आप्लुत्य गिरि शृन्गेभ्यः संस्पृशन्ति स्म हर्षिताः ॥४३॥

उक्त वाक्यम् हनूमन्तम् अन्गदः तु तदा अब्रवीत् । सर्वेषाम् हरि वीराणाम् मध्ये वाचम् अनुत्तमाम् ॥४४॥

सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते । यत् अवप्लुत्य विस्तीर्णम् सागरम् पुनः आगतः ॥४५॥

अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः । दिष्ट्या दृष्टा त्वया देवी राम पत्नी यशस्विनी ॥४६॥

दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकम् सीता वियोगजम् । ततो अन्गदम् हनूमन्तम् जाम्बवन्तम् च वानराः ॥४७॥

परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः । श्रोतु कामाः समुद्रस्य लन्घनम् वानर उत्तमाः ॥४८॥

दर्शनम् च अपि लन्कायाः सीताया रावणस्य च । तस्थुः प्रान्जलयः सर्वे हनूमत् वदन उन्मुखाः ॥४९॥

तस्थौ तत्र अन्गदः श्रीमान् वानरैः बहुभिः वृतः । उपास्यमानो विबुधैः दिवि देव पतिः यथा ॥५०॥

हनूमता कीर्तिमता यशस्विना । तथा अन्गदेन अन्गद बद्ध बाहुना । मुदा तदा अध्यासितम् उन्नतम् महन् । मही धर अग्रम् ज्वलितम् श्रिया अभवत् ॥५१॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे सप्तपञ्चशः सर्गः ॥

Listen to the sarga
0:00