ततः तस्य गिरेः शृन्गे महाइन्द्रस्य महाबलाः । हनुमत् प्रमुखाः प्रीतिम् हरयो जग्मुः उत्तमाम् ॥१॥
अष्टपंचाशः सर्गः 5.58
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
तम् ततः प्रतिसम्हृष्टः प्रीतिमन्तम् महाकपिम् । जाम्बवान् कार्य वृत्त अन्तम् अपृच्छत् अनिल आत्मजम् ॥२॥
कथम् दृष्टा त्वया देवी कथम् वा तत्र वर्तते । तस्याम् वा स कथम् वृत्तः क्रूर कर्मा दश आननः ॥३॥
तत्त्वतः सर्वम् एतन् नः प्रब्रूहि त्वम् महाकपे । श्रुत अर्थाः चिन्तयिष्यामो भूयः कार्य विनिश्चयम् ॥४॥
यः च अर्थः तत्र वक्तव्यो गतैः अस्माभिः आत्मवान् । रक्षितव्यम् च यत् तत्र तत् भवान् व्याकरोतु नः ॥५॥
स नियुक्तः ततः तेन सम्प्रहृष्ट तनू रुहः । नमस्यन् शिरसा देव्यै सीतायै प्रत्यभाषत ॥६॥
प्रत्यक्षम् एव भवताम् महाइन्द्र अग्रात् खम् आप्लुतः । उदधेः दक्षिणम् पारम् कान्क्षमाणः समाहितः ॥७॥
गच्छतः च हि मे घोरम् विघ्न रूपम् इव अभवत् । कान्चनम् शिखरम् दिव्यम् पश्यामि सुमनो हरम् ॥८॥
स्थितम् पन्थानम् आवृत्य मेने विघ्नम् च तम् नगम् । उपसम्गम्य तम् दिव्यम् कान्चनम् नग सत्तमम् ॥९॥
कृता मे मनसा बुद्धिः भेत्तव्यो अयम् मया इति च । प्रहतम् च मया तस्य लान्गूलेन महागिरेः ॥१०॥
शिखरम् सूर्य सम्काशम् व्यशीर्यत सहस्रधा । व्यवसायम् च मे बुद्ध्वा स ह उवाच महागिरिः ॥११॥
पुत्र इति मधुराम् बाणीम् मनः प्रह्लादयन्न् इव । पितृव्यम् च अपि माम् विद्धि सखा अयम् मातरिश्वनः ॥१२॥
मैनाकम् इति विख्यातम् निवसन्तम् महाउदधौ । पक्ष्ववन्तः पुरा पुत्र बभूवुः पर्वत उत्तमाः ॥१३॥
चन्दतः पृथिवीम् चेरुः बाधमानाः समन्ततः । श्रुत्वा नगानाम् चरितम् महाइन्द्रः पाक शासनः ॥१४॥
चिच्छेद भगवान् पक्षान् वज्रेण एषाम् सहस्रशः । अहम् तु मोक्षितः तस्मात् तव पित्रा महात्मना ॥१५॥
मारुतेन तदा वत्स प्रक्षिप्तो अस्मि महाअर्णवे । रामस्य च मया साह्ये वर्तितव्यम् अरिम् दम ॥१६॥
रामो धर्मभृताम् श्रेष्ठो महाइन्द्र सम विक्रमः । एतत् श्रुत्वा मया तस्य मैनाकस्य महात्मनः ॥१७॥
कार्यम् आवेद्य तु गिरेः उद्धतम् च मनो मम । तेन च अहम् अनुज्ञातो मैनाकेन महात्मना ॥१८॥
स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता । शरीरेण महाशैलः शैलेन च महोदधौ ॥१९॥
उत्तमम् जवम् आस्थाय शेषम् अध्वानम् आस्थितः । ततो अहम् सुचिरम् कालम् वेगेन अभ्यगमम् पथि ॥२०॥
ततः पश्यामि अहम् देवीम् सुरसाम् नाग मातरम् । समुद्र मध्ये सा देवी वचनम् माम् अभाषत ॥२१॥
मम भक्ष्यः प्रदिष्टः त्वम् अमारैः हरि सत्तमम् । ततः त्वाम् भक्षयिष्यामि विहितः त्वम् चिरस्य मे ॥२२॥
एवम् उक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः । विवर्ण वदनो भूत्वा वाक्यम् च इदम् उदीरयम् ॥२३॥
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डका वनम् । लक्ष्मणेन सह भ्रात्रा सीतया च परम् तपः ॥२४॥
तस्य सीता हृता भार्या रावणेन दुरात्मना । तस्याः सकाशम् दूतो अहम् गमिष्ये राम शासनात् ॥२५॥
कर्तुम् अर्हसि रामस्य साह्यम् विषय वासिनि । अथवा मैथिलीम् दृष्ट्वा रामम् च अक्लिष्ट कारिणम् ॥२६॥
आगमिष्यामि ते वक्त्रम् सत्यम् प्रतिशृणोति मे । एवम् उक्ता मया सा तु सुरसा काम रूपिणी ॥२७॥
अब्रवीन् न अतिवर्तेत कश्चित् एष वरो मम । एवम् उक्तः सुरसया दश योजनम् आयतः ॥२८॥
ततो अर्ध गुण विस्तारो बभूव अहम् क्षणेन तु । मत् प्रमाण अनुरूपम् च व्यादितम् तन् मुखम् तया ॥२९॥
तत् दृष्ट्वा व्यादितम् तु आस्यम् ह्रस्वम् हि अकरवम् वपुः । तस्मिन् मुहूर्ते च पुनः बभूव अन्गुष्ठ सम्मितः ॥३०॥
अभिपत्य आशु तत् वक्त्रम् निर्गतो अहम् ततः क्षणात् । अब्रवीत् सुरसा देवी स्वेन रूपेण माम् पुनः ॥३१॥
अर्थ सिद्ध्यै हरि श्रेष्ठ गच्छ सौम्य यथा सुखम् । समानय च वैदेहीम् राघवेण महात्मना ॥३२॥
सुखी भव महाबाहो प्रीता अस्मि तव वानर । ततो अहम् साधु साध्वी इति सर्व भूतैः प्रशंसितः ॥३३॥
ततो अन्तरिक्षम् विपुलम् प्लुतो अहम् गरुडो यथा । चाया मे निगृहीता च न च पश्यामि किंचन ॥३४॥
सो अहम् विगत वेगः तु दिशो दश विलोकयन् । न किंचित् तत्र पश्यामि येन मे अपहृता गतिः ॥३५॥
ततो मे बुद्धिः उत्पन्ना किम् नाम गमने मम । ईदृशो विघ्न उत्पन्नो रूपम् यत्र न दृश्यते ॥३६॥
अधो भागेन मे दृष्टिः शोचता पातिता मया । ततो अद्राक्षम् अहम् भीमाम् राक्षसीम् सलिले शयाम् ॥३७॥
प्रहस्य च महानादम् उक्तो अहम् भीमया तया । अवस्थितम् असम्भ्रान्तम् इदम् वाक्यम् अशोभनम् ॥३८॥
क्व असि गन्ता महाकाय क्षुधिताया मम ईप्सितः । भक्षः प्रीणय मे देहम् चिरम् आहार वर्जितम् ॥३९॥
बाढम् इति एव ताम् वाणीम् प्रत्यगृह्णाम् अहम् ततः । आस्य प्रमाणात् अधिकम् तस्याः कायम् अपूरयम् ॥४०॥
तस्याः च आस्यम् महत् भीमम् वर्धते मम भक्षणे । न च माम् सा तु बुबुधे मम वा विकृतम् कृतम् ॥४१॥
ततो अहम् विपुलम् रूपम् सम्क्षिप्य निमिष अन्तरात् । तस्या हृदयम् आदाय प्रपतामि नभः तलम् ॥४२॥
सा विसृष्ट भुजा भीमा पपात लवण अम्भसि । मया पर्वत सम्काशा निकृत्त हृदया सती ॥४३॥
शृणोमि ख गतानाम् च सिद्धानाम् चारणैः सह । राक्षसी सिम्हिका भीमा क्षिप्रम् हनुमता हृता ॥४४॥
ताम् हत्वा पुनः एव अहम् कृत्यम् आत्ययिकम् स्मरन् । गत्वा च महत् अध्वानम् पश्यामि नग मण्डितम् ॥४५॥
दक्षिणम् तीरम् उदधेः लन्का यत्र च सा पुरी । अस्तम् दिन करे याते रक्षसाम् निलयम् पुरीम् ॥४६॥
प्रविष्टो अहम् अविज्ञातो रक्षोभिः भीम विक्रमैः । तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा ॥४७॥
अट्टहासम् विमुञ्चन्ती नारी काप्युत्थिता पुरः । जिघांसन्तीम् ततस्ताम् तु ज्वलदग्निशिरोरुहाम् ॥४८॥
सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् । प्रदोषकाले प्रविशम् भीतयाहम् तयोदितः ॥४९॥
अहम् लङ्कापुरी वीर निर्जिता विक्रमेण ते । यस्मात्तस्माद्विजेतासि सर्वरक्षांस्यशेषतः ॥५०॥
तत्र अहम् सर्व रात्रम् तु विचिन्वन् जनक आत्मजाम् । रावण अन्तः पुर गतो न च अपश्यम् सुमध्यमाम् ॥५१॥
ततः सीताम् अपश्यन् तु रावणस्य निवेशने । शोक सागरम् आसाद्य न पारम् उपलक्षये ॥५२॥
शोचता च मया दृष्टम् प्राकारेण समावृतम् । कान्चनेन विकृष्टेन गृह उपवनम् उत्तमम् ॥५३॥
स प्राकारम् अवप्लुत्य पश्यामि बहु पादपम् । अशोक वनिका मध्ये शिंशपा पादपो महान् ॥५४॥
तम् आरुह्य च पश्यामि कान्चनम् कदली वनम् । अदूरात् शिंशपा वृक्षात् पश्यामि वन वर्णिनीम् ॥५५॥
श्यामाम् कमल पत्र अक्षीम् उपवास कृश आननाम् । तदेकवासःसंवीताम् रजोध्वस्तशिरोरुहाम् ॥५६॥
शोकसन्तापदीनाङ्गीम् सीताम् भर्तृहिते स्थिताम् । राक्षसीभिः विरूपाभिः क्रूराभिः अभिसम्वृताम् ॥५७॥
मांस शोणित भक्ष्याभिः व्याघ्रीभिः हरिणीम् यथा । सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्महुः ॥५८॥
एकवेणीधरा दीना भर्तृचिन्तापरायणा । भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ॥५९॥
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया । कथंचिन्मृगशाबाक्षी तूर्णमासादिता मया ॥६०॥
ताम् दृष्ट्वा तादृशीम् नारीम् राम पत्नीम् अनिन्दिताम् । तत्र एव शिंशपा वृक्षे पश्यन्न् अहम् अवस्थितः ॥६१॥
ततो हलहला शब्दम् कान्ची नूपुर मिश्रितम् । शृणोमि अधिक गम्भीरम् रावणस्य निवेशने ॥६२॥
ततो अहम् परम उद्विग्नः स्वरूपम् प्रत्यसम्हरम् । अहम् च शिंशपा वृक्षे पक्षी इव गहने स्थितः ॥६३॥
ततो रावण दाराः च रावणः च महाबलः । तम् देशम् समनुप्राप्ता यत्र सीता अभवत् स्थिता ॥६४॥
तम् दृष्ट्वा अथ वराअरोहा सीता रक्षो गण ईश्वरम् । सम्कुच्य ऊरू स्तनौ पीनौ बाहुभ्याम् परिरभ्य च ॥६५॥
वित्रस्ताम् परमोद्विग्नाम् वीक्षमाणामितस्ततः । त्राणम् किंचिदपश्यन्तीम् वेपमानाम् तपस्विनीम् ॥६६॥
ताम् उवाच दशग्रीवः सीताम् परम दुह्खिताम् । अवाक् शिराः प्रपतितो बहु मन्यस्व माम् इति ॥६७॥
यदि चेत् त्वम् तु माम् दर्पान् न अभिनन्दसि गर्विते । द्वौ मास अनन्तरम् सीते पास्यामि रुधिरम् तव ॥६८॥
एतत् श्रुत्वा वचः तस्य रावणस्य दुरात्मनः । उवाच परम क्रुद्धा सीता वचनम् उत्तमम् ॥६९॥
राक्षस अधम रामस्य भार्याम् अमित तेजसः । इक्ष्वाकु कुल नाथस्य स्नुषाम् दशरथस्य च ॥७०॥
अवाच्यम् वदतो जिह्वा कथम् न पतिता तव । किंस्वित् वीर्यम् तव अनार्य यो माम् भर्तुः असम्निधौ ॥७१॥
अपहृत्य आगतः पाप तेन अदृष्टो महात्मना । न त्वम् रामस्य सदृशो दास्ये अपि अस्या न युज्यसे ॥७२॥
यज्ञीयः सत्य वाक् चैव रण श्लाघी च राघवः । जानक्या परुषम् वाक्यम् एवम् उक्तो दश आननः ॥७३॥
जज्वाल सहसा कोपाच् चितास्थ इव पावकः । विवृत्य नयने क्रूरे मुष्टिम् उद्यम्य दक्षिणम् ॥७४॥
मैथिलीम् हन्तुम् आरब्धः स्त्रीभिः हाहा कृतम् तदा । स्त्रीणाम् मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः ॥७५॥
वरा मन्द उदरी नाम तया स प्रतिषेधितः । उक्तः च मधुराम् वाणीम् तया स मदन अर्दितः ॥७६॥
सीतया तव किम् कार्यम् महाइन्द्र सम विक्रम । देव गन्धर्व कन्याभिः यक्ष कन्याभिः एव च ॥७७॥
सार्धम् प्रभो रमस्व इह सीतया किम् करिष्यसि । ततः ताभिः समेताभिः नारीभिः स महाबलः ॥७८॥
उत्थाप्य सहसा नीतो भवनम् स्वम् निशा चरः । याते तस्मिन् दशग्रीवे राक्षस्यो विकृत आननाः ॥७९॥
सीताम् निर्भर्त्सयाम् आसुः वाक्यैः क्रूरैः सुदारुणैः । तृणवत् भाषितम् तासाम् गणयामास जानकी ॥८०॥
तर्जितम् च तदा तासाम् सीताम् प्राप्य निरर्थकम् । वृथा गर्जित निश्चेष्टा राक्षस्यः पिशित अशनाः ॥८१॥
रावणाय शशंसुः ताः सीता अव्यवसितम् महत् । ततः ताः सहिताः सर्वा विहत आशा निरुद्यमाः ॥८२॥
परिक्षिप्य समन्तात् ताम् निद्रा वशम् उपागताः । तासु चैव प्रसुप्तासु सीता भर्तृ हिते रता ॥८३॥
विलप्य करुणम् दीना प्रशुशोच सुदुह्खिता । तासाम् मध्यात्समुत्थाय त्रिजटा वाक्यमब्रवीत् ॥८४॥
आत्मानम् खादत क्षिप्रम् न सीता विनशिष्यति । जनकस्यात्मजा साध्वी स्नुष दशरथस्य च ॥८५॥
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः । रक्षसाम् च विनाशाय भर्तुरस्या जयाय च ॥८६॥
अलमस्मात्परित्रातुम् राघवाद्रक्षसीगणम् । अभियाचाम वैदेहीमेतद्धि मम रोचते ॥८७॥
यस्या ह्येवम्विधः स्वप्नो दुःखितायाः प्रदृश्यते । सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् ॥८८॥
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा । ततह् सा ह्रीमती बाला भर्तुर्विजयहर्षिता ॥८९॥
अवोचद्यदि तत्तथ्यम् भवेयम् शरणम् हि वः । ताम् च अहम् तादृशीम् दृष्ट्वा सीताया दारुणाम् दशाम् । चिन्तयामास विश्रान्तो न च मे निर्वृतम् मनः ॥९०॥
सम्भाषण अर्थे च मया जानक्याः चिन्तितो विधिः ॥९१॥
इक्ष्वाकु कुल वंशः तु ततो मम पुरः कृतः । श्रुत्वा तु गदिताम् वाचम् राज ऋषि गण पूजिताम् ॥९२॥
प्रत्यभाषत माम् देवी बाष्पैः पिहित लोचना । कः त्वम् केन कथम् च इह प्राप्तो वानर पुम्गव ॥९३॥
का च रामेण ते प्रीतिः तन् मे शंसितुम् अर्हसि । तस्याः तत् वचनम् श्रुत्वा अहम् अपि अब्रुवम् वचः ॥९४॥
देवि रामस्य भर्तुः ते सहायो भीम विक्रमः । सुग्रीवो नाम विक्रान्तो वानर इन्दो महाबलः ॥९५॥
तस्य माम् विद्धि भृत्यम् त्वम् हनूमन्तम् इह आगतम् । भर्त्रा अहम् प्रहितः तुभ्यम् रामेण अक्लिष्ट कर्मणा ॥९६॥
इदम् च पुरुष व्याघ्रः श्रीमान् दाशरथिः स्वयम् । अन्गुलीयम् अभिज्ञानम् अदात् तुभ्यम् यशस्विनि ॥९७॥
तत् इच्छामि त्वया आज्ञप्तम् देवि किम् करवाणि अहम् । राम लक्ष्मणयोः पार्श्वम् नयामि त्वाम् किम् उत्तरम् ॥९८॥
एतत् श्रुत्वा विदित्वा च सीता जनक नन्दिनी । आह रावणम् उत्साद्य राघवो माम् नयतु इति ॥९९॥
प्रणम्य शिरसा देवीम् अहम् आर्याम् अनिन्दिताम् । राघवस्य मनो ह्लादम् अभिज्ञानम् अयाचिषम् ॥१००॥
अथ मामब्रवीत्सीता गृह्यतामयम्त्तमः । मणिर्येन महाबाहू रामस्त्वाम् बहुमन्यते ॥१०१॥
एवम् उक्ता वराअरोहा मणि प्रवरम् उत्तमम् । प्रायच्छत् परम उद्विग्ना वाचा माम् संदिदेश ह ॥१०२॥
ततः तस्यै प्रणम्य अहम् राज पुत्र्यै समाहितः । प्रदक्षिणम् परिक्रामम् इह अभ्युद्गत मानसः ॥१०३॥
उत्तरम् पुनः एव आह निश्चित्य मनसा तदा । हनूमन् मम वृत्त अन्तम् वक्तुम् अर्हसि राघवे ॥१०४॥
यथा श्रुत्वा एव नचिरात् ताव् उभौ राम लक्ष्मणौ । सुग्रीव सहितौ वीराव् उपेयाताम् तथा कुरु ॥१०५॥
यदि अन्यथा भवेत् एतत् द्वौ मासौ जीवितम् मम । न माम् द्रक्ष्यति काकुत्स्थो म्रिये सा अहम् अनाथवत् ॥१०६॥
तत् श्रुत्वा करुणम् वाक्यम् क्रोधो माम् अभ्यवर्तत । उत्तरम् च मया दृष्टम् कार्य शेषम् अनन्तरम् ॥१०७॥
ततो अवर्धत मे कायः तदा पर्वत सम्निभः । युद्ध कान्क्षी वनम् तच् च विनाशयितुम् आरभे ॥१०८॥
तत् भग्नम् वन षण्डम् तु भ्रान्त त्रस्त मृग द्विजम् । प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृत आननाः ॥१०९॥
माम् च दृष्ट्वा वने तस्मिन् समागम्य ततः ततः । ताः समभ्यागताः क्षिप्रम् रावणाय आचचक्षिरे ॥११०॥
राजन् वनम् इदम् दुर्गम् तव भग्नम् दुरात्मना । वानरेण हि अविज्ञाय तव वीर्यम् महाबल ॥१११॥
दुर्बुद्धेः तस्य राज इन्द्र तव विप्रिय कारिणः । वधम् आज्ञापय क्षिप्रम् यथा असौ विलयम् व्रजेत् ॥११२॥
तत् श्रुत्वा राक्षस इन्द्रेण विसृष्टा भृश दुर्जयाः । राक्षसाः किम्करा नाम रावणस्य मनो अनुगाः ॥११३॥
तेषाम् अशीति साहस्रम् शूल मुद्गर पाणिनाम् । मया तस्मिन् वन उद्देशे परिघेण निषूदितम् ॥११४॥
तेषाम् तु हत शेषा ये ते गता लघु विक्रमाः । निहतम् च मया सैन्यम् रावणाय आचचक्षिरे ॥११५॥
ततो मे बुद्धिः उत्पन्ना चैत्य प्रासादम् आक्रमम् । तत्रस्थान् राक्षसान् हत्वा शतम् स्तम्भेन वै पुनः ॥११६॥
ललाम भूतो लन्काया मया विध्वंसितो रुषा । ततः प्रहस्तस्य सुतम् जम्बु मालिनम् आदिशत् ॥११७॥
राक्षसैर्बहुभिः सार्थम् घोररूपैर्भयानकैः । तम् अहम् बल सम्पन्नम् राक्षसम् रण कोविदम् ॥११८॥
परिघेण अतिघोरेण सूदयामि सह अनुगम् । तत् श्रुत्वा राक्षस इन्द्रः तु मन्त्रि पुत्रान् महाबलान् ॥११९॥
पदाति बल सम्पन्नान् प्रेषयामास रावणः । परिघेण एव तान् सर्वान् नयामि यम सादनम् ॥१२०॥
मन्त्रि पुत्रान् हतान् श्रुत्वा समरे लघु विक्रमान् । पन्च सेना अग्रगान् शूरान् प्रेषयामास रावणः ॥१२१॥
तान् अहम् सह सैन्यान् वै सर्वान् एव अभ्यसूदयम् । ततः पुनः दशग्रीवः पुत्रम् अक्षम् महाबलम् ॥१२२॥
बहुभी राकसैः सार्धम् प्रेषयामास रावणः । तम् तु मन्द उदरी पुत्रम् कुमारम् रण पण्डितम् ॥१२३॥
सहसा खम् समुत्क्रान्तम् पादयोः च गृहीतवान् । चर्म असिनम् शत गुणम् भ्रामयित्वा व्यपेषयम् ॥१२४॥
तम् अक्षम् आगतम् भग्नम् निशम्य स दश आननः । तत इन्द्रजितम् नाम द्वितीयम् रावणः सुतम् ॥१२५॥
व्यादिदेश सुसम्क्रुद्धो बलिनम् युद्ध दुर्मदम् । तस्य अपि अहम् बलम् सर्वम् तम् च राक्षस पुम्गवम् ॥१२६॥
नष्ट ओजसम् रणे कृत्वा परम् हर्षम् उपागमम् । महता हि महाबाहुः प्रत्ययेन महाबलः ॥१२७॥
प्रेषितो रावणेन एष सह वीरैः मद उत्कटैः । सोऽविषह्यम् हि माम् बुद्ध्वा स्वम् बलम् चावमर्दितम् । ब्राह्मेण अस्त्रेण स तु माम् प्रबध्नाच् च अतिवेगतः ॥१२८॥
रज्जूभिः अभिबध्नन्ति ततो माम् तत्र राक्षसाः ॥१२९॥
रावणस्य समीपम् च गृहीत्वा माम् उपानयन् । दृष्ट्वा सम्भाषितः च अहम् रावणेन दुरात्मना ॥१३०॥
पृष्टः च लन्का गमनम् राक्षसानाम् च तत् वधम् । तत् सर्वम् च मया तत्र सीता अर्थम् इति जल्पितम् ॥१३१॥
अस्य अहम् दर्शन आकान्क्षी प्राप्तः त्वत् भवनम् विभो । मारुतस्य औरसः पुत्रो वानरो हनुमान् अहम् ॥१३२॥
राम दूतम् च माम् विद्धि सुग्रीव सचिवम् कपिम् । सो अहम् दौत्येन रामस्य त्वत् समीपम् इह आगतः ॥१३३॥
सुग्रीवश्च महातेजाः स त्वाम् कुशलमब्रवीत् । धर्मार्थकामसहितम् हितम् पथ्यमुवाच च ॥१३४॥
वसतो ऋष्यमूके मे पर्वते विपुल द्रुमे । राघवो रण विक्रान्तो मित्रत्वम् समुपागतः ॥१३५॥
तेन मे कथितम् राजन् भार्या मे रक्षसा हृता । तत्र साहाय्य हेतोः मे समयम् कर्तुम् अर्हसि ॥१३६॥
मया च कथितम् तस्मै वालिनश्च वधम् प्रति । तत्र साहय्यहेतोर्मे समयम् कर्तुमर्हसि ॥१३७॥
वालिना हृत राज्येन सुग्रीवेण सह प्रभुः । चक्रे अग्नि साक्षिकम् सक्यम् राघवः सह लक्ष्मणः ॥१३८॥
तेन वालिनम् उत्साद्य शरेण एकेन सम्युगे । वानराणाम् महाराजः कृतः सम्प्लवताम् प्रभुः ॥१३९॥
तस्य साहाय्यम् अस्माभिः कार्यम् सर्व आत्मना तु इह । तेन प्रस्थापितः तुभ्यम् समीपम् इह धर्मतः ॥१४०॥
क्षिप्रम् आनीयताम् सीता दीयताम् राघवस्य च । यावन् न हरयो वीरा विधमन्ति बलम् तव ॥१४१॥
वानराणाम् प्रभवो हि न केन विदितः पुरा । देवतानाम् सकाशम् च ये गच्छन्ति निमन्त्रिताः ॥१४२॥
इति वनर राजः त्वाम् आह इति अभिहितो मया । माम् ऐक्षत ततो रुष्टः चक्षुषा प्रदहन्न् इव ॥१४३॥
तेन वध्यो अहम् आज्ञप्तो रक्षसा रौद्र कर्मणा । मत्र्पभावमविज्ञाय रावणेन दुरात्मना ॥१४४॥
ततो विभीषणो नाम तस्य भ्राता महामतिः । तेन राक्षस राजो असौ याचितो मम कारणात् ॥१४५॥
नैवम् राक्षसशार्दूल त्यज्यतामेष निश्चयः । राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया ॥१४६॥
दूत वध्या न दृष्टा हि राज शास्त्रेषु राक्षस । दूतेन वेदितव्यम् च यथा अर्थम् हित वादिना ॥१४७॥
सुमहति अपराधे अपि दूतस्य अतुल विक्रमः । विरूप करणम् दृष्टम् न वधो अस्ति इह शास्त्रतः ॥१४८॥
विभीषणेन एवम् उक्तो रावणः संदिदेश तान् । राक्षसान् एतत् एव अद्य लान्गूलम् दह्यताम् इति ॥१४९॥
ततः स्तस्य वचः श्रुत्वा मम पुच्छम् समन्ततः । वेष्टितम् शण वक्लैः च पटैः कार्पासकैः तथा ॥१५०॥
राक्षसाः सिद्ध सम्नाहाः ततः ते चण्ड विक्रमाः । तत् आदीप्यन्त मे पुच्छम् हनन्तः काष्ठ मुष्टिभिः ॥१५१॥
बद्धस्य बहुभिः पाशैः यन्त्रितस्य च राक्षसैः । ततः ते राक्षसाः शूरा बद्धम् माम् अग्नि सम्वृतम् ॥१५२॥
अघोषयन् राज मार्गे नगर द्वारम् आगताः । ततो अहम् सुमहत् रूपम् सम्क्षिप्य पुनः आत्मनः ॥१५३॥
विमोचयित्वा तम् बन्धम् प्रकृतिस्थः स्थितः पुनः । आयसम् परिघम् गृह्य तानि रक्षांसि असूदयम् ॥१५४॥
ततः तन् नगर द्वारम् वेगेन आप्लुतवान् अहम् । पुच्छेन च प्रदीप्तेन ताम् पुरीम् साट्ट गोपुराम् ॥१५५॥
दहामि अहम् असम्भ्रान्तो युग अन्त अग्निः इव प्रजाः । विनष्टा जानकी व्यक्तम् न ह्यदग्धः प्रदृश्यते ॥१५६॥
लङ्कायाम् कश्चिदुद्देशः सर्वा भस्मीकृता पुरी । दहता च मया लन्काम् दघ्दा सीता न संशयः ॥१५७॥
रामस्य हि महत्कार्यम् मयेदम् वितथीकृतम् । इति शोकसमाविष्टश्चन्तामहमुपागतः ॥१५८॥
अथ अहम् वाचम् अश्रौषम् चारणानाम् शुभ अक्षराम् । जानकी न च दग्धा इति विस्मय उदन्त भाषिणाम् ॥१५९॥
ततो मे बुद्धिः उत्पन्ना श्रुत्वा ताम् अद्भुताम् गिरम् । अदग्धा जानकीत्येवम् निमित्तैश्चोपलक्षिता ॥१६०॥
दीप्यमाने तु लाङ्गूले न माम् दहति पावकः । हृदयम् च प्रहृष्टम् मे वाताः सुरभिगन्धिनः ॥१६१॥
तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः । ऋषिवाक्यैश्च सिद्धार्थैरभवम् हृष्टमानसः ॥१६२॥
पुनः दृष्टा च वैदेही विसृष्टः च तया पुनः । ततः पर्वतमासाद्य तत्ररिष्तमहम् पुनः ॥१६३॥
प्रतिप्लवनमारेभे युष्मद्दर्शनकांक्षया । ततः पवनचन्द्रर्क सिद्धगन्धर्व सेवितम् ॥१६४॥
पन्थानमहमाक्रम्य भवतो दृष्टवानिह । राघवस्य प्रभावेन भवताम् चैव तेजसा ॥१६५॥
सुग्रीवस्य च कार्य अर्थम् मया सर्वम् अनुष्ठितम् । एतत् सर्वम् मया तत्र यथावत् उपपादितम् ॥१६६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे अष्टपंचाशः सर्गः ॥