एतत् आख्यानम् तत् सर्वम् हनूमान् मारुत आत्मजः । भूयः समुपचक्राम वचनम् वक्तुम् उत्तरम् ॥१॥
एकोनषष्टितमः सर्गः 5.59
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
सफलो राघव उद्योगः सुग्रीवस्य च सम्भ्रमः । शीलम् आसाद्य सीताया मम च प्रवणम् मनः ॥२॥
तपसा निर्दहेल्लोकान् स्रुद्धो वा निर्दहेदपि । सर्वधातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः ॥३॥
तस्य ताम् स्पृशतो गात्रम् तपसा न विनाशितम् । न तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सती ॥४॥
जनकस्य सुता कुर्याद्यत्क्रोधकलुषीकृता । जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन् ॥५॥
अस्मिन्नेवम् गते कार्ये भवताम् च निवेदिते । न्याय्यम् स्म सह वैदेह्या द्रष्टुम् तौ पार्थिवात्मजौ ॥६॥
अहमेकोऽपि पर्याप्तः सराक्षसगणाम् पुरीम् । ताम् लङ्काम् तरसा हन्तुम् रावणम् च महाबलम् ॥७॥
किम् पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः । कृतास्त्रैः प्लवगैः शूरैर्भवद्भिर्विजयैषिभिः ॥८॥
अहम् तु रावणम् युद्धे ससैन्यम् सपुरःसरम् । सहपुत्रम् वधिष्यामि सहोदरयुतम् युधि ॥९॥
ब्रह्ममैन्द्रम् च रौद्रम् च वायव्यम् वारुणम् तथा । यदि शक्रजोतोऽ स्त्रणि दुर्निरीक्षाणि सम्युगे ॥१०॥
तान्यहम् विधष्यामि हनिष्यामि च रावणम् । भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् ॥११॥
मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा । देवानपि रणे हन्यात्किम् पुनस्तान्निशाचरान् ॥१२॥
सागरोऽप्यतियाद्वेलाम् मन्दरः प्रचलेदपि । न जाम्बवन्तम् समरे कम्पयेदरिवाहिनी ॥१३॥
सर्वराक्षससम्घानाम् राक्षसा ये च महात्मनः । अलमेको विनाशाय वीरो वालिसुतः कपिः ॥१४॥
पनसस्योरुवेगेन नीलस्य च महात्मनः । मन्दरोऽप्यवशीर्येत किम्पुनर्युधि राक्षसाः ॥१५॥
सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु । मैन्दस्य प्रतियोद्धारम् शंसत द्विविदस्य वा ॥१६॥
अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ । एतयोः प्रतियोद्धारम् न पश्यामि रणाजिरे ॥१७॥
पितामहवरोत्सेकात्परमम् दर्पमास्थितौ । अमृतप्राशनावेतौ सर्ववानरसत्तमौ ॥१८॥
अश्विनोर्माननार्थम् हि सर्वलोकपितामहः । सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा ॥१९॥
वरोत्सेकेन मत्तौ च प्रमथ्य महतीम् चमूम् । सुराणाममृतम् वीरौ पीतवन्तौ प्लवम्गमौ ॥२०॥
एतावेन हि सम्क्रुद्धौ सवाजिरथकुम्जराम् । लङ्काम् नाशयितुम् शक्तौ सर्वे तिष्ठन्तु वानराः ॥२१॥
मयैव निहता लङ्का दग्धा भस्मीकृता पुनः । राजमार्गेषु सर्वत्र नाम विश्रावित मया ॥२२॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः ॥२३॥
अहम् कोसलराजस्य दासः पवनसम्भवः । हनुमानिति सर्वत्र नाम विश्रावितम् मया ॥२४॥
अशोक वनिका मध्ये रावणस्य दुरात्मनः । अधस्तात् शिंशपा वृक्षे साध्वी करुणम् आस्थिता ॥२५॥
राक्षसीभिः परिवृता शोक सम्ताप कर्शिता । मेघ लेखा परिवृता चन्द्र लेखा इव निष्प्रभा ॥२६॥
अचिन्तयन्ती वैदेही रावणम् बल दर्पितम् । पति व्रता च सुश्रोणी अवष्टब्धा च जानकी ॥२७॥
अनुरक्ता हि वैदेही रामम् सर्व आत्मना शुभा । अनन्य चित्ता रामे च पौलोमी इव पुरम् दरे ॥२८॥
तत् एक वासः सम्वीता रजो ध्वस्ता तथैव च । शोक सम्ताप दीन अन्गी सीता भर्तृ हिते रता ॥२९॥
सा मया राक्षसी मध्ये तर्ज्यमाना मुहुः मुहुः । राक्षसीभिः विरूपाभिः दृष्टा हि प्रमदा वने ॥३०॥
एक वेणी धरा दीना भर्तृ चिन्ता परायणा । अधः शय्या विवर्ण अन्गी पद्मिनी इव हिम आगमे । रावणात् विनिवृत्त अर्था मर्तव्य कृत निश्चया ॥३१॥
कथंचिन् मृग शाव अक्षी विश्वासम् उपपादिता ॥३२॥
ततः सम्भाषिता चैव सर्वम् अर्थम् च दर्शिता । राम सुग्रीव सख्यम् च श्रुत्वा प्रीतिम् उपागता ॥३३॥
नियतः समुदाचारो भक्तिः भर्तरि च उत्तमा । यन् न हन्ति दशग्रीवम् स महात्मा कृतागसम् ॥३४॥
निमित्त मात्रम् रामः तु वधे तस्य भविष्यति । सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्छ कर्शिता ॥३५॥
प्रतिपत्पाअठशीलस्य विद्येव तनुताम् गता । एवम् आस्ते महाभागा सीता शोक परायणा ॥३६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे एकोनषष्टितमः सर्गः ॥