रामायणम्

षष्टितमः सर्गः 5.60

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तस्य तत् वचनम् श्रुत्वा वालि सूनुः अभाषत । अयुक्तम् तु विना देवीम् दृष्ट्वद्भिश्च वानराः ॥१॥

5.60.1 #ab9865278223 timing uncertain

समीपम् गन्तुमस्माभी राघवस्य महात्मनः । दृष्टा देवी न च आनीता इति तत्र निवेदनम् ॥२॥

अयुक्तम् इव पश्यामि भवद्भिः ख्यात विक्रमैः । न हि वः प्लवते कश्चिन् न अपि कश्चित् पराक्रमे ॥३॥

5.60.3 #6c34c9acc089 timing uncertain

तुल्यः सामर दैत्येषु लोकेषु हरि सत्तमाः । तेष्व् एवम् हत वीरेषु राक्षसेषु हनूमता ॥४॥

5.60.4 #2923cb82627b timing uncertain

किम् अन्यत् अत्र कर्तव्यम् गृहीत्वा याम जानकीम् । तम् एवम् कृत सम्कल्पम् जाम्बवान् हरि सत्तमः ॥५॥

5.60.5 #9637187983dc timing uncertain

उवाच परम प्रीतो वाक्यम् अर्थवत् अर्थवित् । न तावत् एषा मतिः अक्षमा नो । यथा भवान् पश्यति राज पुत्र । यथा तु रामस्य मतिः निविष्टा । तथा भवान् पश्यतु कार्य सिद्धिम् ॥६॥

इत्यार्षे श्रीमद्रामायणे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे षष्टितमः सर्गः ॥

Listen to the sarga
0:00