ततो जाम्बवतो वाक्यम् अगृह्णन्त वन ओकसः । अन्गद प्रमुखा वीरा हनूमान् च महाकपिः ॥१॥
एकषष्टितमः सर्गः 5.61
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
प्रीतिमन्तः ततः सर्वे वायु पुत्र पुरः सराः । महाइन्द्र अग्रम् परित्यज्य पुप्लुवुः प्लवग ऋषभाः ॥२॥
मेरु मन्दर सम्काशा मत्ता इव महागजाः । चादयन्त इव आकाशम् महाकाया महाबलाः ॥३॥
सभाज्यमानम् भूतैः तम् आत्मवन्तम् महाबलम् । हनूमन्तम् महावेगम् वहन्त इव दृष्टिभिः ॥४॥
राघवे च अर्थ निर्वृत्तिम् भर्तुः च परमम् यशः । समाधाय समृद्ध अर्थाः कर्म सिद्धिभिः उन्नताः ॥५॥
प्रिय आख्यान उन्मुखाः सर्वे सर्वे युद्ध अभिनन्दिनः । सर्वे राम प्रतीकारे निश्चित अर्था मनस्विनः ॥६॥
प्लवमानाः खम् आप्लुत्य ततः ते कानन ओक्सकः । नन्दन उपमम् आसेदुः वनम् द्रुम लता युतम् ॥७॥
यत् तन् मधु वनम् नाम सुग्रीवस्य अभिरक्षितम् । अधृष्यम् सर्व भूतानाम् सर्व भूत मनो हरम् ॥८॥
यत् रक्षति महावीर्यः सदा दधि मुखः कपिः । मातुलः कपि मुख्यस्य सुग्रीवस्य महात्मनः ॥९॥
ते तत् वनम् उपागम्य बभूवुः परम उत्कटाः । वानरा वानर इन्द्रस्य मनः कान्ततमम् महत् ॥१०॥
ततः ते वानरा हृष्टा दृष्ट्वा मधु वनम् महत् । कुमारम् अभ्ययाचन्त मधूनि मधु पिन्गलाः ॥११॥
ततः कुमारः तान् वृद्धान् जाम्बवत् प्रमुखान् कपीन् । अनुमान्य ददौ तेषाम् निसर्गम् मधु भक्षणे ॥१२॥
ततः च अनुमताः सर्वे सम्प्रहृष्टा वन ओकसः । मुदिताः च ततः ते च प्रनृत्यन्ति ततः ततः ॥१३॥
गायन्ति केचित् प्रणमन्ति केचिन् । नृत्यन्ति केचित् प्रहसन्ति केचित् । पतन्ति केचित् विचरन्ति केचित् । प्लवन्ति केचित् प्रलपन्ति केचित् ॥१४॥
परस्परम् केचित् उपाश्रयन्ते । परस्परम् केचित् अतिब्रुवन्ते । परस्परम् केचिदुपब्रुवन्ते । परस्परम् केचिदुपारमन्ते ॥१५॥
द्रुमात् द्रुमम् केचित् अभिप्लवन्ते । क्षितौ नग अग्रान् निपतन्ति केचित् । मही तलात् केचित् उदीर्ण वेगा । महाद्रुम अग्राणि अभिसम्पतन्ते ॥१६॥
गायन्तम् अन्यः प्रहसन्न् उपैति । हसन्तम् अन्यः प्रहसन्न् उपैति । रुदन्तम् अन्यः प्ररुदन्न् उपैति । नुदन्तम् अन्यः प्रणुदन्न् उपैति ॥१७॥
समाकुलम् तत् कपि सैन्यम् आसीन् । मधु प्रपान उत्कट सत्त्व चेष्टम् । न च अत्र कश्चिन् न बभूव मत्तो । न च अत्र कश्चिन् न बभूव तृप्तो ॥१८॥
ततो वनम् तत् परिभक्ष्यमाणम् । द्रुमान् च विध्वंसित पत्र पुष्पान् । समीक्ष्य कोपात् दधि वक्त्र नामा । निवारयामास कपिः कपीन् तान् ॥१९॥
स तैः प्रवृद्धैः परिभर्त्स्यमानो । वनस्य गोप्ता हरि वीर वृद्धः । चकार भूयो मतिम् उग्र तेजा । वनस्य रक्षाम् प्रति वानरेभ्यः ॥२०॥
उवाच कांश्चित् परुषाणि धृष्टम् । असक्तम् अन्यान् च तलैः जघान । समेत्य कैश्चित् कलहम् चकार । तथैव साम्ना उपजगाम कांश्चित् ॥२१॥
स तैः मदाच् च अप्रतिवार्य वेगैः । बलाच् च तेन अप्रतिवार्यमाणैः । प्रधर्षितः त्यक्त भयैः समेत्य । प्रकृष्यते च अपि अनवेक्ष्य दोषम् ॥२२॥
नखैः तुदन्तो दशनैः दशन्तः । तलैः च पादैः च समाप्नुवन्तः । मदात् कपिम् तम् कपयः समग्रा । महावनम् निर्विषयम् च चक्रुः ॥२३॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे एकषष्टितमः सर्गः ॥